शिवकवचम् श्रीस्कान्दे महापुराणे ब्रह्मोत्तरखण्डे

॥ शिवकवचम् ॥
श्रीगणेशाय नमः ।

॥ अथ शिवकवचम् ॥

          विनियोगः ।
अस्य श्रीशिवकवचस्तोत्रमन्त्रस्य,
ब्रह्मा ऋषिः, var  वृषभ ऋषिः,
अनुष्टुप्छन्दः, श्रीसदाशिवरुद्रो देवता, ह्रीं शक्तिः,
वं कीलकम्, श्रीं ह्रीं क्लीं बीजम्, 
श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥

॥ ऋष्यादिन्यासः ॥

ॐ ब्रह्मऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः, मुखे ।
श्रीसदाशिवरुद्रदेवताय नमः हृदि । ह्रीं शक्तये नमः, पादयोः ।
वं कीलकाय नमः नाभौ । श्री ह्रीं क्लीमिति बीजाय नमः गुह्ये ।
विनियोगाय नमः, सर्वाङ्गे ॥

॥ अथ करन्यासः ॥ see another version at the end
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने करतलकरपृष्ठाभ्यां नमः ॥

॥ हृदयाद्यङ्गन्यासः ॥ see another version at the end
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने हृदयाय नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने शिरसे स्वाहा ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने शिखायै वषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने कवचाय हुम् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने नेत्रत्रयाय वौषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने अस्त्राय फट् ॥

अथ ध्यानम्
वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम् ।
सहस्रकरमप्युग्रं वन्दे शम्भुमुमापतिम् ॥

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः
  पालान्तरालसितभस्मधृतत्रिपुण्ड्रः ।
पञ्चाक्षरं परिपठन् वरमन्त्रराजं
  ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥

अतः परं सर्वपुराणगुह्यं
  निःशेषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं
  वक्ष्यामि शैवं कवचं हिताय ते ॥

            ॥ अथ कवचम् ॥

ऋषभ उवाच ।
नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ १॥

शुचौ देशे समासीनो यथावत्कल्पितासनः ।
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्यम् ॥ २॥

हृत्पुण्डरीकान्तरसंनिविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् ।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत्परानन्दमयं महेशम् ॥ ३॥

ध्यानावधूताखिलकर्मबन्धश्चिरं चिदान्दनिमग्नचेताः ।
षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥ ४॥

मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं वरमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥ ५॥

सर्वत्र मां रक्षतु विश्वमूर्तिर्ज्योतिर्मयानन्दघनश्चिदात्मा ।
अणोरणीयानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥ ६॥

यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः ।
योऽपां स्वरूपेण नृणां करोति सञ्जीवनं सोऽवतु मां जलेभ्यः ॥ ७॥

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ॥ ८॥

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्त्रम् ॥ ९॥

कुठारवेदाङ्कुशपाशशूलकपालढक्काक्षगुणान्दधानः ।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥ १०॥

कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमालावरदाभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योऽधिजातोऽवतु मां प्रतीच्याम् ॥ ११॥

वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदिच्यां दिशि वामदेवः ॥ १२॥

वेदाभयेष्टाङ्कुशटङ्कपाशकपालढक्काक्षशूलपाणिः । पाशटङ्क
सितद्युतिः पञ्चमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाशः ॥ १३॥

मूर्धानमव्यान्मम चंद्रमौलिर्भालं ममाव्यादथ भालनेत्रः ।
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥ १४॥

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥ १५॥

कण्ठं गिरीशोऽवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्यान्मम धर्मबाहुर्वक्षःस्थलं दक्षमखान्तकोऽव्यात् ॥ १६॥

ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।
हेरम्बतातो मम पातु नाभिं पायात्कटी धूर्जटिरीश्वरो मे ॥ १७॥

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।
जङ्घायुगं पुङ्गवकेतुरव्यात्पादौ ममाव्यात्सुरवन्द्यपादः ॥ १८॥

महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः ।
त्रियम्बकः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ॥ १९॥

पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥ २०॥

अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥ २१॥

तिष्ठन्तमव्याद्भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः ।
वेदान्तवेद्योऽवतु मान्निषण्णं मामव्ययः पातु शिवः शयानम् ॥ २२॥

मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः ।
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥ २३॥

कल्पान्तकाटोपपटुप्रकोपः स्फुटाट्टहासोच्चलिताण्डकोशः ।
घोरारिसेनार्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्रः ॥ २४॥

पत्त्यश्वमातङ्गघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठारधारया ॥ २५॥

निहन्तु दस्यून्प्रलयानलार्चिर्ज्वलत्त्रिशूलं त्रिपुरान्तकस्य ।
शार्दूलसिंहर्क्षवृकादिहिंस्त्रान्सन्त्रासयत्वीशधनुः पिनाकम् ॥ २६॥

दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्यदुर्भिक्षदुर्व्यस नदुःसहदुर्यशांसि ।
उत्पाततापविषभीतिमसद्ग्रहार्तिव्याधींश्च नाशयतु मे जगतामधीशः ॥ २७॥

ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय
सकलतत्त्वविहाराय सकललोकैककर्त्रे सकललोकैकभर्त्रे
सकललोककैकहर्त्रे सकललोककैकगुरवे सकललोकैकसाक्षिणे
सकलनिगमगुह्याय सकलवरप्रदाय सकलदुरितार्तिभञ्जनाय
सकलजगदभयङ्काराय सकललोकैकशङ्कराय शशाङ्कशेखराय
शाश्वतनिजाभासाय निर्गुणाय निरुपमाय नीरूपाय निराभासाय
निराममाय निष्प्रपञ्चाय निष्कलङ्काय निर्द्वन्द्वाय निःसङ्गाय
निर्मलाय निर्गमाय नित्यरूपविभवाय निरुपमविभवाय निराधाराय
नित्यशुद्धबुद्धपरिपूर्णसच्चिदानन्दाद्वयाय परमशान्तप्रकाशतेजोरूपाय 
जयजय महारुद्र महारौद्र भद्रावतार दुःखदावदारण
महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर
खट्वाङ्गखड्गचर्मपाशाङ्कुशडमरुशूलचापबाणगदाशक्तिभिण्डिपाल-
var  भिन्दि
तोमरमुसलमुद्गरपट्टिशपरशुपरिघभुशुण्डीशतघ्नीचक्राद्यायुध-
भीषणकरसहस्र मुखदंष्ट्राकराल
विकटाट्टहासविस्फारितब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार
नागेन्द्रवलय नागेन्द्रचर्मधर मृत्युञ्जय त्र्यम्बक
त्रिपुरान्तक विरूपाक्ष विश्वेश्वर विश्वरूप वृषभवाहन
विषभूषण विश्वतोमुख सर्वतो रक्ष रक्ष मां ज्वलज्वल
महामृत्युभयमपमृत्युभयं नाशयनाशय
रोगभयमुत्सादयोत्सादय विषसर्पभयं
शमयशमय चोरभयं मारयमारय मम शत्रूनुच्चाटयोच्चाटय
शूलेन विदारय विदारय कुठारेण भिन्धिभिन्धि
खड्गेन छिन्धिछिन्धि खट्वाङ्गेन विपोथय विपोथय
मुसलेन निष्पेषयनिष्पेषय बाणैः सन्ताडय
सन्ताडय रक्षांसि भीषयभीषय भूतानि विद्रावयविद्रावय
कूष्माण्डवेतालमारीगणब्रह्मराक्षसान्सन्त्रासयसन्त्रासय मामभयं
कुरुकुरु वित्रस्तं मामाश्वासयाश्वासय नरकभयान्मामुद्धारयोद्धारय
सञ्जीवयसञ्जीवय क्षुतृड्भ्यां मामाप्याययाप्यायय दुःखातुरं
मामानन्दयानन्दय शिवकवचेन मामाच्छादयाच्छादय
त्र्यम्बक सदाशिव नमस्ते नमस्ते नमस्ते ।

पूर्ववत् हृद्यादि न्यासः । पञ्चपूजा ॥

भूर्भुवस्सुवरोमिति दिग्विमिकः ॥

                फलश्रुतिः ।
ऋषभ उवाच ।
इत्येतत्कवचं शैवं वरदं व्याहृतं मया ।
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥ २८॥

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् ॥ २९॥

क्षीणायुर्मृत्युमापन्नो महारोगहतोऽपि वा ।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ॥ ३०॥

सर्वदारिद्र्यशमनं सौमङ्गल्यविवर्धनम् ।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥ ३१॥

महापातकसङ्घातैर्मुच्यते चोपपातकैः ।
देहान्ते शिवमाप्नोति शिववर्मानुभावतः ॥ ३२॥

त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥ ३३॥

सूत उवाच ।
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे ।
ददौ शङ्खं महारावं खड्गं चारिनिषूदनम् ॥ ३४॥

पुनश्च भस्म संमंत्र्य तदङ्गं सर्वतोऽस्पृशत् ।
गजानां षट्सहस्रस्य द्विगुणं च बलं ददौ ॥ ८॥

भस्मप्रभावात्सम्प्राप्य बलैश्वर्यधृतिस्मृतीः ।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥ ९॥

तमाह प्राञ्जलिं भूयः स योगी राजनन्दनम् ।
एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ॥ १०॥

शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम् ।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥ ११॥

अस्य शङ्खस्य निह्रादं ये शृण्वन्ति तवाहिताः ।
ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ॥ १२॥

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशिनौ ।
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ॥ १३॥

एतयोश्च प्रभावेन शैवेन कवचेन च ।
द्विषट्सहस्रनागानां बलेन महतापि च ॥ १४॥

भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।
प्राप्य सिंहासनं पैत्र्यं गोप्ताऽसि पृथिवीमिमाम् ॥ ४२॥

इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां सम्पूजितः सोऽथ योगी स्वैरगतिर्ययौ ॥ ४३॥

इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां तृतीये
ब्रह्मोत्तरखण्डे सीमन्तिनीमाहात्म्ये भद्रायूपाख्याने
शिवकवचकथनं नाम द्वादशोऽध्यायः ।


There are variations in the initial preparatory verses.
Another version of nyAsa is given below.
The devotee is requested to choose according to one's preference.


करन्यासः

ओं सदाशिवाय अंगुष्ठाभ्यां नमः ।
नं गंगाधराय तर्जनीभ्यां नमः ।
मं मृत्युञ्जयाय मध्यमाभ्यां नमः ।
शिं शूलपाणये अनामिकाभ्यां नमः ।
वां पिनाकपाणये कनिष्ठिकाभ्यां नमः ।
यं उमापतये करतलकरपृष्ठाभ्यां नमः ।

हृदयादि अंगन्यासः

ओं सदाशिवाय हृदयाय नमः ।
नं गंगाधराय शिरसे स्वाहा ।
मं मृत्युञ्जयाय शिखायै वषट् ।
शिं शूलपाणये कवचाय हुम् ।
वां पिनाकपाणये नेत्रत्रयाय वौषट् ।
यं उमापतये अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

पञ्चपूजा

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पैः पूजयामि ।
यं वाय्वात्मने धूपम् आघ्रापयामि ।
रं अग्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥

श्रीशिवप्रातःस्मरणस्तोत्रम्

॥ श्रीशिवप्रातःस्मरणस्तोत्रम् ॥

           ॐ
अथ शिवप्रातःस्मरणस्तोत्रम् ।

प्रातः स्मरामि भवभीतिहरं सुरेशं
    गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्ट्वङ्गशूलवरदाभयहस्तमीशं
    संसाररोगहरमौषधमद्वितीयम् ॥ १॥

प्रातर्नमामि गिरिशं गिरिजार्धदेहं
    सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं
    संसाररोगहरमौषधमद्वितीयम् ॥ २॥

प्रातर्भजामि शिवमेकमनन्तमाद्यं
    वेदान्तवेद्यमनघं पुरूषं महान्तम् ।
नामादिभेदरहितं षड्भावशून्यं
    संसाररोगहरमौषधमद्वितीयम् ॥ ३॥

सार्थ श्रीशिवमानसपूजा

॥ सार्थ श्रीशिवमानसपूजा ॥
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १॥

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४॥

करचरण कृतं वाक्कायजं कर्मजं वा ।
                  श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व ।
                  जय जय करुणाब्धे श्रीमहादेवशम्भो ॥ ५॥

॥ इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता ॥

श्रीशिवरक्षास्तोत्रम्

॥ श्रीशिवरक्षास्तोत्रम् ॥

श्री गणेशाय नमः ॥

अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥

श्री सदाशिवो देवता ॥ अनुष्टुप् छन्दः ॥

श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥

चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १॥

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ २॥

गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णो सर्पविभूषण ॥ ३॥

घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥ ४॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५॥

हृदयं शंकरः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६॥

सक्थिनी पातु दीनार्तशरणागतवत्सलः ॥

उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७॥

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ॥

चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥ ८॥

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९॥

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १० ॥

अभयङ्करनामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११॥

इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् ॥ १२॥

इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम् ॥  

श्रीशिवशङ्कर अथवा यमभय निवारणस्तोत्रम्

॥ श्रीशिवशङ्कर अथवा यमभय निवारणस्तोत्रम् ॥

अतिभीषणकटुभाषणयमकिङ्किरपटली
कृतताडनपरिपीडनमरणागमसमये ।
उमया सह मम चेतसि यमशासन निवसन्
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ १॥

असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेः
परदूषणपरिमोक्षणकृतपातकविकृतेः ।
शमनाननभवकानननिरतेर्भव शरणं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ २॥

विषयाभिधबडिशायुधपिशितायितसुखतो
मकरायितमतिसन्ततिकृतसाहसविपदम् ।
परमालय परिपालय परितापितमनिशं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ३॥

दयिता मम दुहिता मम जननी मम जनको
मम कल्पितमतिसन्ततिमरुभूमिषु निरतम् ।
गिरिजासुख जनितासुख वसतिं कुरु सुखिनं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ४॥

जनिनाशन मृतिमोचन शिवपूजननिरतेः
अभितो दृशमिदमीदृशमहमावह इति हा ।
गजकच्छप जनितश्रम विमलीकुरु सुमतिं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ५॥

त्वयि तिष्ठति सकलस्थितिकरुणात्मनि हृदये
वसुमार्गण कृपणेक्षण मनसा शिव विमुखम् ।
अकृताह्निकमसुपोषकमवतात् गिरिसुतया
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ६॥

पितराविति सुखदाविति शिश्नुना कृतहृदयौ
शिवया सह भयके हृदि जनितं तव सुकृतम् ।
इति मे शिव हृदयं भव भवतात्तव दयया
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ७॥

शरणागतभरणाश्रित करुणामृतजलधे
शरणं तव चरणौ शिव मम संसृतिवसतेः ।
परिचिन्मय जगदामयभिषजे नतिरावतात्
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ८॥

विविधाधिभिरतिभीतिरकृताधिकसुकृतं
शतकोटिषु नरकादिषु हतपातकविवशम् ।
मृड मामव सुकृतीभव शिवया सह कृपया
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ९॥

कलिनाशन गरलाशन कमलासनविनुत
कमलापतिनयनार्चितकरुणाकृतिचरण ।
करुणाकर मुनिसेवित भवसागरहरण
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ १०॥

विजितेन्द्रिय विबुधार्चित विमलाम्बुजचरण
भवनाशन भयनाशनभजिताङ्गितहृदय ।
फणिभूषण मुनिवेषण मदनान्तक शरणं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ११॥

त्रिपुरान्तक त्रिदशेश्वर त्रिगुणात्मक शम्भो
वृषवाहन विषदूषण पतितोद्धर शरणम् ।
कनकासन कनकाम्बर कलिनाशन शरणं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ १२॥

 ॥ इति श्रीशिवशङ्करस्तोत्रम् ॥

शिवरामाष्टकम्

॥ शिवरामाष्टकम् ॥
श्रीगणेशाय नमः ।
शिव हरे शिवरामसखे प्रभो त्रिविधतापनिवारण हे प्रभो ।
अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ १॥

कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते ।
शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ २॥

स्वजनरञ्जनमङ्गलमन्दिरं भजति ते पुरुषाः परमं पदम् ।
भवति तस्य सुखं परमाद्भुतं शिव हरे विजयं कुरु मे वरम् ॥ ३॥

जय युधिष्ठिरवल्लभ भूपते जय जयार्जित पुण्यपयोनिधे ।
जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम् ॥ ४॥

भवविमोचन माधव मापते सुकविमानसहंस शिवारते ।
जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम् ॥ ५॥

अवनिमण्डलमङ्गल मापते जलदसुन्दर राम रमापते ।
निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम् ॥ ६॥

पतितपावन नाममयी लता तव यशो विमलं परिगीयते ।
तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम् ॥ ७॥

अमरतापरदेव रमापते विजयस्तव नामघनोपमे ।
मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम् ॥ ८॥

हनुमतः प्रियतोषकर प्रभो सुरसरिदूधृतशेखर हे गुरो ।
मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम् ॥ ९॥

नरहरे रतिरञ्जनसुन्दरं पठति यः शिवरामकृतस्तवम् ।
विशति रामरमाचरणाम्बुजे शिव हरे विजयं कुरु मे वरम् ॥ १०॥

प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ।
विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥ ११॥

इति श्रीरामानन्दविरचितं शिवरामस्तोत्रम्

श्रीशिवसहस्रनामस्तोत्रम् from rudrayAmala tantra

॥ श्रीशिवसहस्रनामस्तोत्रम् ॥

ॐ श्री गणेशाय नमः ।
पूर्वपीठिका
ॐकारनिलयं देवं गजवक्त्रं चतुर्भुजम् ।
पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥

श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादशंकरं लोकशंकरम् ॥

शंकरं शंकराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥

वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनांपतिम् ।
वन्दे सूर्यशशांकवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥

ऋषय ऊचुः
सूत वेदार्थतत्त्वज्ञ शिवध्यानपरायण ।
मुक्त्युपायं वदास्मभ्यं कृपालो मुनिसत्तम ॥ १॥

कः सेव्यः सर्वदेवेषु को वा जप्यो मनुः सदा ।
स्थातव्यं कुत्र वा नित्यं  किं वा सर्वार्थसाधकम् ॥ २॥

श्री सूत उवाच
धन्यान्मन्यामहे नूनमनन्यशरणान्मुनीन् ।
वन्याशिनो वनेवासान् न्यस्तमानुष्यकल्मषान् ॥ ३॥

भवद्भिः सर्ववेदार्थतत्त्वं ज्ञातमतन्द्रितैः ।
भवद्भिः सर्ववेदार्थो ज्ञात एवास्ति यद्यपि ॥ ४॥

तथापि किञ्चिद्वक्ष्यामि यथा ज्ञातं मया तथा ।
पुरा कैलासशिखरे सुखासीनं जगत्प्रभुम् ॥ ५॥

वेदान्तवेद्यमीशानं शंकरं लोकशंकरम् ।
विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ॥ ६॥

मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् ।
पप्रच्छ सर्वलोकानां मुक्त्युपायं कृताञ्जलिः ॥ ७॥

श्रीस्कन्द उवाच
विश्वेश्वर महादेव विष्णुब्रह्मादिवन्दित ।
देवानां मानवानां च किं मोक्षस्यास्ति साधनम् ॥ ८॥

तव नामान्यनन्तानि सन्ति यद्यपि शंकर ।
तथापि तानि दिव्यानि न ज्ञायन्ते मयाधुना ॥ ९॥

प्रियाणि शिवनामानि सर्वाणि शिव यद्यपि ।
तथापि कानि रम्याणि तेषु प्रियतमानि ते ॥

तानि सर्वार्थदान्यद्य कृपया वक्तुमर्हसि ॥ १०॥

श्रीसूत उवाच
कुमारोदीरितां वाचं सर्वलोकहितावहाम् ।
श्रुत्वा प्रसन्नवदनस्तमुवाच सदाशिवः ॥ ११॥

श्रीसदाशिव उवाच
साधु साधु महाप्राज्ञ सम्यक्पृष्ठं त्वयाधुना ।
यदिदानीम् त्वया पृष्टं तद्वक्ष्ये शृणु सादरम् ॥ १२॥

एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा ।
समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ १३॥

दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम् ।
अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ १४॥

एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् ।
मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ १५॥

तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः ।
पूजयिष्यति मां भक्त्या यस्त्वेतन्नामसंख्यया ॥ १६॥

स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः ।
ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ १७॥

एकैकेनैव नाम्ना मां अर्चयित्वा दृढव्रताः ।
स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ १८॥

एतन्नामावलीं यस्तु पठन्मां प्रणमेत्सदा ।
स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ १९॥

स्पृष्ट्वा मल्लिंगममलं एतन्नामानि यः पठेत् ।
स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ २०॥

यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि ।
मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ २१॥

एतन्नामानुसन्धाननिरतः सर्वदाऽमुना ।
मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ २२॥

तत्पूजया पूजितोऽहं स एवाहं मतो मम ।
तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ २३॥

हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः ।
देवताप्यहमेवात्र शक्तिर्गौरी मम प्रिया ॥ २४॥

महेश एव संसेव्यः सर्वैरिति हि कीलकम् ।
धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ २५॥

     ॐ
सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् ।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् ॥

॥ न्यासः ॥

ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः ।
अनुष्टुप् छन्दः । परमात्मा श्रीसदाशिवो देवता ।
महेश्वर इति बीजम् । गौरी शक्तिः ।
महेश एव संसेव्यः सर्वैरिति कीलकम् ।
श्रीसाम्बसदाशिव प्रीत्यर्थे  मुख्यसहस्रनामजपे विनियोगः ।
॥ ध्यानम् ॥

शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां वरडमरुयुतं चांकुशं वामभागे
नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

ॐ नमो भगवते  रुद्राय ।
ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः ।
हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥ १॥

विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः ।
सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ २॥

आततावी महारुद्रः संसारास्त्रः सुरेश्वरः ।
उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ३॥

रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः ।
वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ४॥

उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः ।
ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥

सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः ।
आव्याधिनीशः ककुभो निषंगी स्तेनरक्षकः ॥ ६॥

मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ।
अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥

प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः ।
भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥

व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ।
शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥

वामनो व्यापकः शूली वर्षीयानजडोऽनणुः ।
ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥

आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ।
द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥

पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः ।
अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥ १२॥

प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः ।
खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ १३॥

वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः ।
आशुषेणो महासेनो महावीरो महारथः ॥ १४॥

शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः ।
श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥ १५॥

आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः ।
धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ १६॥

तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः ।
सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥ १७॥

स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः ।
सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ १८॥

सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः ।
मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ १९॥

दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः ।
ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥ २०॥

आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः ।
वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥ २१॥

सोमस्ताम्रोऽरुणः शंगः रुद्रः सुखकरः सुकृत् ।
उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ २२॥

अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः ।
शम्भुर्मयोभवो  नित्यः शंकरः कीर्तिसागरः ॥ २३॥

मयस्करः शिवतरः खण्डपर्शुरजः शुचिः ।
तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ २४॥

शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः ।
उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥ २५॥

आतार्यः सारभूतात्मा सारग्राही दुरत्ययः ।
आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसंगरः ॥ २६॥

शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः ।
इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥ २७॥

वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः ।
यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ २८॥

यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः ।
प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥ २९॥

पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः ।
ह्रदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ३०॥

निवेष्प्यो नियतोऽयन्ता पांसव्यः सम्प्रतापनः ।
शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥ ३१॥

लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः ।
भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥ ३२॥

भूतसंघो भूतमूर्तिर्भूतहा भूतिभूषणः ।
मदनो मादको माद्यो मदहा मधुरप्रियः ॥ ३३॥

मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः ।
निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥ ३४॥

निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः ।
सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥ ३५॥

सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः ।
समस्तजगदाधारः समस्तगुणसागरः ॥ ३६॥

समस्तदुःखविध्वंसी समस्तानन्दकारणः ।
रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ३७॥

रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥ ३८॥

विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः ।
भुजगेन्द्रलसत्कण्ठो भुजंगाभरणप्रियः ॥ ३९॥

भुजंगविलसत्कर्णो भुजंगवलयावृतः ।
मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥ ४०॥

मुनिहृत्पुण्डरीकस्थो मुनिसंघैकजीवनः ।
मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥ ४१॥

मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ।
मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥ ४२॥

दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः ।
ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥ ४३॥

यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः ।
व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥ ४४॥

लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ।
ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥ ४५॥

ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः ।
कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥ ४६॥

कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः ।
परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥ ४७॥

वेद्यो  वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः ।
वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥ ४८॥

कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥ ४९॥

पावनः पावको वामो महाकालो मदापहः ।
घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥ ५०॥

अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ।
जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥ ५१॥

जगदानन्ददो जन्मजरामरणवर्जितः ।
खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥ ५२॥

कपालमालाभरणः कपाली विष्णुवल्लभः ।
कमलासनकालाग्निः कमलासनपूजितः ॥ ५३॥

कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः ।
नाट्यकर्ता नटपरो महानाट्यविशारदः ॥ ५४॥

विराट्रूपधरो धीरो वीरो वृषभवाहनः ।
वृषांको वृषभाधीशो वृषात्मा वृषभध्वजः ॥ ५५॥

महोन्नतो महाकायो महावक्षा महाभुजः ।
महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥ ५६॥

महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः ।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥ ५७॥

सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः ।
धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥ ५८॥

कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः ।
कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥ ५९॥

व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती ।
व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥ ६०॥

अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागघ्नो रागशमनो रागदो रागिरागवित् ॥ ६१॥

विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः ।
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥ ६२॥

नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ ६३॥

क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् ।
सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥ ६४॥

गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः ।
गुणाधारो गुणाकारो गुणकृद् गुणनाशकः ॥ ६५॥

वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः ।
वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥ ६६॥

कालवित्कालकृत्कालो बलकृद् बलविद्बली ।
मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥ ६७॥

विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः ।
विश्वकारो  महाविश्वो विश्वविश्वो विशारदः ॥ ६८॥

variation
विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः ।
विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥६८॥

वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।
ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥ ६९॥

प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ।
प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥ ७०॥

शरदात्मा शरद्धेतुः  शरत्कालप्रवर्तकः ।
शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥ ७१॥

हिमस्वरूपो हिमदो हिमहा हिमनायकः ।
शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥ ७२॥

प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥ ७३॥

ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः ।
सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ७४॥

सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः ।
जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥ ७५॥

जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः ।
ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥ ७६॥

वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः ।
कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥ ७७॥

पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः ।
अपायरहितः शान्तो दान्तो दमयिता दमः ॥ ७८॥

ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः ।
कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥ ७९॥

प्रलयानलकृद् दिव्यः प्रलयानलनाशकः ।
त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥ ८०॥

अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ।
सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥ ८१॥

कुन्देन्दुशंखधवलो भस्मोद्धूलितविग्रहः ।
भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥ ८२॥

स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः ।
त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ ८३॥

सामप्रियः सामवेत्ता सामगः सामगप्रियः ।
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ ८४॥

लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः ।
तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥ ८५॥

शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः ।
जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥ ८६॥

जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः ।
जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ ८७॥

पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः ।
अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ ८८॥

कैलासशिखरावासः कैलासशिखरप्रियः ।
भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥ ८९॥

सोमः सोमकलाकारो महातेजा महातपाः ।
हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥ ९०॥

ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः ।
स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ ९१॥

पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः ।
पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ ९२॥

सारभूतः स्वरमयो रसभूतो रसाश्रयः ।
ॐकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ ९३॥

निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः ।
मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ ९४॥

वृन्दारकप्रियतमो वृन्दारकवरार्चितः ।
श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ ९५॥

महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः ।
सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ ९६॥

लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः ।
ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥ ९७॥

वेदपो देवदेवेशो देवदेवोत्तमोत्तमः ।
बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ ९८॥

बीजाधारो बीजरूपो निर्बीजो बीजनाशकः ।
परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ ९९॥

पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः ।
युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १००॥

कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः ।
धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १०१॥

मनोजवो जीवहेतुरन्धकासुरसूदनः ।
लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १०२॥

अव्यक्तलक्षणो योगी योगीशो योगपुंगवः ।
श्रितावासो जनावासः सुरवासः सुमण्डलः ॥ १०३॥

भववैद्यो योगिवैद्यो योगिसिंहहृदासनः ।
उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥ १०४॥

आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः ।
भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १०५॥

अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १०६॥

अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः ।
भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥ १०७॥

विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ।
सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १०८॥

अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः ।
दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥ १०९॥

परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः ।
मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ ११०॥

सुखप्रदः सुखाकारः सुखदुःखविवर्जितः ।
विशृङ्खलो  जगत्कर्ता  जितसर्वः पितामहः ॥ १११॥

अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः ।
अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ ११२॥

अमृतः शाश्वतः शान्तो  मृत्युहा मूकनाशनः ।
महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ ११३॥

गौरीविलाससदनो नानागानविशारदः ।
विचित्रमाल्यवसनो  दिव्यचन्दनचर्चितः ॥ ११४॥

विष्णुब्रह्मादिवन्द्यांघ्रिः सुरासुरनमस्कृतः ।
किरीटलेढिफालेन्दुर्मणिकंकणभूषितः ॥ ११५॥

रत्नांगदांगो रत्नेशो  रत्नरञ्जितपादुकः ।
नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥ ११६॥

नानाविधानेकरत्नलसत्कुण्डलमण्डितः ।
दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ ११७॥

गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः ।
रत्नांगुलीयविलसत्करशाखानखप्रभः ॥ ११८॥

रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः ।
वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥ ११९॥

लीलावलम्बितवपुर्भक्तमानसमन्दिरः ।
मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १२०॥

कस्तूरीविलसत्फालो दिव्यवेषविराजितः ।
दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२१॥

देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ।
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १२२॥

सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः ।
सर्वेष्टदाता सर्वेष्टः स्फुरन्मंगलविग्रहः ॥ १२३॥

अविद्यालेशरहितो नानाविद्यैकसंश्रयः ।
मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥ १२४॥

सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः ।
हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १२५॥

शरणागतदीनार्तपरित्राणपरायणः ।
जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १२६॥

भोक्ता भोजयिता जेता जितारिर्जितमानसः ।
अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥ १२७॥

आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः ।
पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १२८॥

व्योमकेशो भीमवेषो गौरीपतिरनामयः ।
भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥ १२९॥

वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः ।
यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥ १३०॥

हिरण्यगर्भो हेमांगो हेमरूपो हिरण्यदः ।
ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥ १३१॥

मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः ।
महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥ १३२॥

मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः ।
सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १३३॥

महेश्वरो महादेवः परब्रह्म सदाशिवः ॥ १३४॥

श्री परब्रह्म सदाशिव ॐ नम इति ।
उत्तर पीठिका
एवमेतानि नामानि मुख्यानि मम षण्मुख ।
शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥ १॥

विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः ।
शिवलिंगसमीपस्थो निस्संगो निर्जितासनः ॥ २॥

एकाग्रचित्तो नियतो वशी भूतहिते रतः ।
शिवलिंगार्चको नित्यं शिवैकशरणः सदा ॥ ३॥

मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् ।
एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥ ४॥

संसारपाशसंबद्धजनमोक्षैकसाधनम् ।
मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥ ५॥

मन्नामैव परं जप्यमहमेवाक्षयार्थदः ।
अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥ ६॥

विभूतिवज्रकवचैः मन्नामशरपाणिभिः ।
विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ ७॥

न तेषां दृश्यते भयम् ॐ नम इति ।
श्रीसूत उवाच
इत्युदीरितमाकर्ण्य महादेवेन तद्वचः ।
सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥ ८॥

श्रीस्कन्द उवाच
नमस्ते नमस्ते महादेव शम्भो
नमस्ते नमस्ते प्रपन्नैकबन्धो ।
नमस्ते नमस्ते दयासारसिन्धो
नमस्ते नमस्ते नमस्ते महेश ॥ ९॥

नमस्ते नमस्ते महामृत्युहारिन्
नमस्ते नमस्ते महादुःखहारिन् ।
नमस्ते नमस्ते महापापहारिन्
नमस्ते नमस्ते नमस्ते महेश ॥ १०॥

नमस्ते नमस्ते सदा चन्द्रमौले
नमस्ते नमस्ते सदा शूलपाणे ।
नमस्ते नमस्ते सदोमैकजाने
नमस्ते नमस्ते नमस्ते महेश ॥ ११॥

वेदान्तवेद्याय महादयाय
कैलासवासाय शिवाधवाय ।
शिवस्वरूपाय सदाशिवाय
शिवासमेताय नमःशिवाय ॥ १२॥

ॐ नमःशिवाय इति
श्रीसूत उवाच
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥ १३॥

भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः ।
शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ १४॥

शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः ।
शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ १५॥

महेशान्नाधिको देवः स एव सुरसत्तमः ।
स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ १६॥

जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा ।
तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥ १७॥

सुभगा जननी तस्य तस्यैव कुलमुन्नतम् ।
तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ १८॥

ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं
शैलाधीशसुतासमेतममलं सम्पूजयन्त्यादरात् ।
ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः
सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ १९॥

सत्यं पुनः सर्वथा ॐ नम इति ।
नमः शिवाय साम्बाय सगणाय ससूनवे ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ २०॥

नमस्ते गिरिजानाथ भक्तानामिष्टदायक ।
देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥ २१॥

साम्ब शम्भो महादेव दयासागर शंकर ।
मच्चित्तभ्रमरो नित्यं तवास्तु पदपंकजे ॥ २२॥

सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर ।
तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥ २३॥

यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ २४॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ २५॥

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
सदाशिवायेति समर्पयामि ॥ २६॥

॥ ॐ तत्सत् इति श्रीमुख्यशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥