शिवकवचम् श्रीस्कान्दे महापुराणे ब्रह्मोत्तरखण्डे

॥ शिवकवचम् ॥
श्रीगणेशाय नमः ।

॥ अथ शिवकवचम् ॥

          विनियोगः ।
अस्य श्रीशिवकवचस्तोत्रमन्त्रस्य,
ब्रह्मा ऋषिः, var  वृषभ ऋषिः,
अनुष्टुप्छन्दः, श्रीसदाशिवरुद्रो देवता, ह्रीं शक्तिः,
वं कीलकम्, श्रीं ह्रीं क्लीं बीजम्, 
श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥

॥ ऋष्यादिन्यासः ॥

ॐ ब्रह्मऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः, मुखे ।
श्रीसदाशिवरुद्रदेवताय नमः हृदि । ह्रीं शक्तये नमः, पादयोः ।
वं कीलकाय नमः नाभौ । श्री ह्रीं क्लीमिति बीजाय नमः गुह्ये ।
विनियोगाय नमः, सर्वाङ्गे ॥

॥ अथ करन्यासः ॥ see another version at the end
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने करतलकरपृष्ठाभ्यां नमः ॥

॥ हृदयाद्यङ्गन्यासः ॥ see another version at the end
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने हृदयाय नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने शिरसे स्वाहा ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने शिखायै वषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने कवचाय हुम् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने नेत्रत्रयाय वौषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने अस्त्राय फट् ॥

अथ ध्यानम्
वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम् ।
सहस्रकरमप्युग्रं वन्दे शम्भुमुमापतिम् ॥

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः
  पालान्तरालसितभस्मधृतत्रिपुण्ड्रः ।
पञ्चाक्षरं परिपठन् वरमन्त्रराजं
  ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥

अतः परं सर्वपुराणगुह्यं
  निःशेषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं
  वक्ष्यामि शैवं कवचं हिताय ते ॥

            ॥ अथ कवचम् ॥

ऋषभ उवाच ।
नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ १॥

शुचौ देशे समासीनो यथावत्कल्पितासनः ।
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्यम् ॥ २॥

हृत्पुण्डरीकान्तरसंनिविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् ।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत्परानन्दमयं महेशम् ॥ ३॥

ध्यानावधूताखिलकर्मबन्धश्चिरं चिदान्दनिमग्नचेताः ।
षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥ ४॥

मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं वरमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥ ५॥

सर्वत्र मां रक्षतु विश्वमूर्तिर्ज्योतिर्मयानन्दघनश्चिदात्मा ।
अणोरणीयानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥ ६॥

यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः ।
योऽपां स्वरूपेण नृणां करोति सञ्जीवनं सोऽवतु मां जलेभ्यः ॥ ७॥

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ॥ ८॥

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्त्रम् ॥ ९॥

कुठारवेदाङ्कुशपाशशूलकपालढक्काक्षगुणान्दधानः ।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥ १०॥

कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमालावरदाभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योऽधिजातोऽवतु मां प्रतीच्याम् ॥ ११॥

वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदिच्यां दिशि वामदेवः ॥ १२॥

वेदाभयेष्टाङ्कुशटङ्कपाशकपालढक्काक्षशूलपाणिः । पाशटङ्क
सितद्युतिः पञ्चमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाशः ॥ १३॥

मूर्धानमव्यान्मम चंद्रमौलिर्भालं ममाव्यादथ भालनेत्रः ।
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥ १४॥

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥ १५॥

कण्ठं गिरीशोऽवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्यान्मम धर्मबाहुर्वक्षःस्थलं दक्षमखान्तकोऽव्यात् ॥ १६॥

ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।
हेरम्बतातो मम पातु नाभिं पायात्कटी धूर्जटिरीश्वरो मे ॥ १७॥

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।
जङ्घायुगं पुङ्गवकेतुरव्यात्पादौ ममाव्यात्सुरवन्द्यपादः ॥ १८॥

महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः ।
त्रियम्बकः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ॥ १९॥

पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥ २०॥

अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥ २१॥

तिष्ठन्तमव्याद्भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः ।
वेदान्तवेद्योऽवतु मान्निषण्णं मामव्ययः पातु शिवः शयानम् ॥ २२॥

मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः ।
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥ २३॥

कल्पान्तकाटोपपटुप्रकोपः स्फुटाट्टहासोच्चलिताण्डकोशः ।
घोरारिसेनार्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्रः ॥ २४॥

पत्त्यश्वमातङ्गघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठारधारया ॥ २५॥

निहन्तु दस्यून्प्रलयानलार्चिर्ज्वलत्त्रिशूलं त्रिपुरान्तकस्य ।
शार्दूलसिंहर्क्षवृकादिहिंस्त्रान्सन्त्रासयत्वीशधनुः पिनाकम् ॥ २६॥

दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्यदुर्भिक्षदुर्व्यस नदुःसहदुर्यशांसि ।
उत्पाततापविषभीतिमसद्ग्रहार्तिव्याधींश्च नाशयतु मे जगतामधीशः ॥ २७॥

ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय
सकलतत्त्वविहाराय सकललोकैककर्त्रे सकललोकैकभर्त्रे
सकललोककैकहर्त्रे सकललोककैकगुरवे सकललोकैकसाक्षिणे
सकलनिगमगुह्याय सकलवरप्रदाय सकलदुरितार्तिभञ्जनाय
सकलजगदभयङ्काराय सकललोकैकशङ्कराय शशाङ्कशेखराय
शाश्वतनिजाभासाय निर्गुणाय निरुपमाय नीरूपाय निराभासाय
निराममाय निष्प्रपञ्चाय निष्कलङ्काय निर्द्वन्द्वाय निःसङ्गाय
निर्मलाय निर्गमाय नित्यरूपविभवाय निरुपमविभवाय निराधाराय
नित्यशुद्धबुद्धपरिपूर्णसच्चिदानन्दाद्वयाय परमशान्तप्रकाशतेजोरूपाय 
जयजय महारुद्र महारौद्र भद्रावतार दुःखदावदारण
महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर
खट्वाङ्गखड्गचर्मपाशाङ्कुशडमरुशूलचापबाणगदाशक्तिभिण्डिपाल-
var  भिन्दि
तोमरमुसलमुद्गरपट्टिशपरशुपरिघभुशुण्डीशतघ्नीचक्राद्यायुध-
भीषणकरसहस्र मुखदंष्ट्राकराल
विकटाट्टहासविस्फारितब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार
नागेन्द्रवलय नागेन्द्रचर्मधर मृत्युञ्जय त्र्यम्बक
त्रिपुरान्तक विरूपाक्ष विश्वेश्वर विश्वरूप वृषभवाहन
विषभूषण विश्वतोमुख सर्वतो रक्ष रक्ष मां ज्वलज्वल
महामृत्युभयमपमृत्युभयं नाशयनाशय
रोगभयमुत्सादयोत्सादय विषसर्पभयं
शमयशमय चोरभयं मारयमारय मम शत्रूनुच्चाटयोच्चाटय
शूलेन विदारय विदारय कुठारेण भिन्धिभिन्धि
खड्गेन छिन्धिछिन्धि खट्वाङ्गेन विपोथय विपोथय
मुसलेन निष्पेषयनिष्पेषय बाणैः सन्ताडय
सन्ताडय रक्षांसि भीषयभीषय भूतानि विद्रावयविद्रावय
कूष्माण्डवेतालमारीगणब्रह्मराक्षसान्सन्त्रासयसन्त्रासय मामभयं
कुरुकुरु वित्रस्तं मामाश्वासयाश्वासय नरकभयान्मामुद्धारयोद्धारय
सञ्जीवयसञ्जीवय क्षुतृड्भ्यां मामाप्याययाप्यायय दुःखातुरं
मामानन्दयानन्दय शिवकवचेन मामाच्छादयाच्छादय
त्र्यम्बक सदाशिव नमस्ते नमस्ते नमस्ते ।

पूर्ववत् हृद्यादि न्यासः । पञ्चपूजा ॥

भूर्भुवस्सुवरोमिति दिग्विमिकः ॥

                फलश्रुतिः ।
ऋषभ उवाच ।
इत्येतत्कवचं शैवं वरदं व्याहृतं मया ।
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥ २८॥

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् ॥ २९॥

क्षीणायुर्मृत्युमापन्नो महारोगहतोऽपि वा ।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ॥ ३०॥

सर्वदारिद्र्यशमनं सौमङ्गल्यविवर्धनम् ।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥ ३१॥

महापातकसङ्घातैर्मुच्यते चोपपातकैः ।
देहान्ते शिवमाप्नोति शिववर्मानुभावतः ॥ ३२॥

त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥ ३३॥

सूत उवाच ।
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे ।
ददौ शङ्खं महारावं खड्गं चारिनिषूदनम् ॥ ३४॥

पुनश्च भस्म संमंत्र्य तदङ्गं सर्वतोऽस्पृशत् ।
गजानां षट्सहस्रस्य द्विगुणं च बलं ददौ ॥ ८॥

भस्मप्रभावात्सम्प्राप्य बलैश्वर्यधृतिस्मृतीः ।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥ ९॥

तमाह प्राञ्जलिं भूयः स योगी राजनन्दनम् ।
एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ॥ १०॥

शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम् ।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥ ११॥

अस्य शङ्खस्य निह्रादं ये शृण्वन्ति तवाहिताः ।
ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ॥ १२॥

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशिनौ ।
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ॥ १३॥

एतयोश्च प्रभावेन शैवेन कवचेन च ।
द्विषट्सहस्रनागानां बलेन महतापि च ॥ १४॥

भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।
प्राप्य सिंहासनं पैत्र्यं गोप्ताऽसि पृथिवीमिमाम् ॥ ४२॥

इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां सम्पूजितः सोऽथ योगी स्वैरगतिर्ययौ ॥ ४३॥

इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां तृतीये
ब्रह्मोत्तरखण्डे सीमन्तिनीमाहात्म्ये भद्रायूपाख्याने
शिवकवचकथनं नाम द्वादशोऽध्यायः ।


There are variations in the initial preparatory verses.
Another version of nyAsa is given below.
The devotee is requested to choose according to one's preference.


करन्यासः

ओं सदाशिवाय अंगुष्ठाभ्यां नमः ।
नं गंगाधराय तर्जनीभ्यां नमः ।
मं मृत्युञ्जयाय मध्यमाभ्यां नमः ।
शिं शूलपाणये अनामिकाभ्यां नमः ।
वां पिनाकपाणये कनिष्ठिकाभ्यां नमः ।
यं उमापतये करतलकरपृष्ठाभ्यां नमः ।

हृदयादि अंगन्यासः

ओं सदाशिवाय हृदयाय नमः ।
नं गंगाधराय शिरसे स्वाहा ।
मं मृत्युञ्जयाय शिखायै वषट् ।
शिं शूलपाणये कवचाय हुम् ।
वां पिनाकपाणये नेत्रत्रयाय वौषट् ।
यं उमापतये अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

पञ्चपूजा

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पैः पूजयामि ।
यं वाय्वात्मने धूपम् आघ्रापयामि ।
रं अग्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥

श्रीशिवप्रातःस्मरणस्तोत्रम्

॥ श्रीशिवप्रातःस्मरणस्तोत्रम् ॥

           ॐ
अथ शिवप्रातःस्मरणस्तोत्रम् ।

प्रातः स्मरामि भवभीतिहरं सुरेशं
    गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्ट्वङ्गशूलवरदाभयहस्तमीशं
    संसाररोगहरमौषधमद्वितीयम् ॥ १॥

प्रातर्नमामि गिरिशं गिरिजार्धदेहं
    सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं
    संसाररोगहरमौषधमद्वितीयम् ॥ २॥

प्रातर्भजामि शिवमेकमनन्तमाद्यं
    वेदान्तवेद्यमनघं पुरूषं महान्तम् ।
नामादिभेदरहितं षड्भावशून्यं
    संसाररोगहरमौषधमद्वितीयम् ॥ ३॥

सार्थ श्रीशिवमानसपूजा

॥ सार्थ श्रीशिवमानसपूजा ॥
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १॥

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४॥

करचरण कृतं वाक्कायजं कर्मजं वा ।
                  श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व ।
                  जय जय करुणाब्धे श्रीमहादेवशम्भो ॥ ५॥

॥ इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता ॥

श्रीशिवरक्षास्तोत्रम्

॥ श्रीशिवरक्षास्तोत्रम् ॥

श्री गणेशाय नमः ॥

अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥

श्री सदाशिवो देवता ॥ अनुष्टुप् छन्दः ॥

श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥

चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १॥

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ २॥

गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णो सर्पविभूषण ॥ ३॥

घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥ ४॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५॥

हृदयं शंकरः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६॥

सक्थिनी पातु दीनार्तशरणागतवत्सलः ॥

उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७॥

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ॥

चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥ ८॥

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९॥

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १० ॥

अभयङ्करनामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११॥

इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् ॥ १२॥

इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम् ॥  

श्रीशिवशङ्कर अथवा यमभय निवारणस्तोत्रम्

॥ श्रीशिवशङ्कर अथवा यमभय निवारणस्तोत्रम् ॥

अतिभीषणकटुभाषणयमकिङ्किरपटली
कृतताडनपरिपीडनमरणागमसमये ।
उमया सह मम चेतसि यमशासन निवसन्
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ १॥

असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेः
परदूषणपरिमोक्षणकृतपातकविकृतेः ।
शमनाननभवकानननिरतेर्भव शरणं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ २॥

विषयाभिधबडिशायुधपिशितायितसुखतो
मकरायितमतिसन्ततिकृतसाहसविपदम् ।
परमालय परिपालय परितापितमनिशं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ३॥

दयिता मम दुहिता मम जननी मम जनको
मम कल्पितमतिसन्ततिमरुभूमिषु निरतम् ।
गिरिजासुख जनितासुख वसतिं कुरु सुखिनं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ४॥

जनिनाशन मृतिमोचन शिवपूजननिरतेः
अभितो दृशमिदमीदृशमहमावह इति हा ।
गजकच्छप जनितश्रम विमलीकुरु सुमतिं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ५॥

त्वयि तिष्ठति सकलस्थितिकरुणात्मनि हृदये
वसुमार्गण कृपणेक्षण मनसा शिव विमुखम् ।
अकृताह्निकमसुपोषकमवतात् गिरिसुतया
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ६॥

पितराविति सुखदाविति शिश्नुना कृतहृदयौ
शिवया सह भयके हृदि जनितं तव सुकृतम् ।
इति मे शिव हृदयं भव भवतात्तव दयया
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ७॥

शरणागतभरणाश्रित करुणामृतजलधे
शरणं तव चरणौ शिव मम संसृतिवसतेः ।
परिचिन्मय जगदामयभिषजे नतिरावतात्
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ८॥

विविधाधिभिरतिभीतिरकृताधिकसुकृतं
शतकोटिषु नरकादिषु हतपातकविवशम् ।
मृड मामव सुकृतीभव शिवया सह कृपया
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ९॥

कलिनाशन गरलाशन कमलासनविनुत
कमलापतिनयनार्चितकरुणाकृतिचरण ।
करुणाकर मुनिसेवित भवसागरहरण
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ १०॥

विजितेन्द्रिय विबुधार्चित विमलाम्बुजचरण
भवनाशन भयनाशनभजिताङ्गितहृदय ।
फणिभूषण मुनिवेषण मदनान्तक शरणं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ११॥

त्रिपुरान्तक त्रिदशेश्वर त्रिगुणात्मक शम्भो
वृषवाहन विषदूषण पतितोद्धर शरणम् ।
कनकासन कनकाम्बर कलिनाशन शरणं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ १२॥

 ॥ इति श्रीशिवशङ्करस्तोत्रम् ॥

शिवरामाष्टकम्

॥ शिवरामाष्टकम् ॥
श्रीगणेशाय नमः ।
शिव हरे शिवरामसखे प्रभो त्रिविधतापनिवारण हे प्रभो ।
अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ १॥

कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते ।
शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ २॥

स्वजनरञ्जनमङ्गलमन्दिरं भजति ते पुरुषाः परमं पदम् ।
भवति तस्य सुखं परमाद्भुतं शिव हरे विजयं कुरु मे वरम् ॥ ३॥

जय युधिष्ठिरवल्लभ भूपते जय जयार्जित पुण्यपयोनिधे ।
जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम् ॥ ४॥

भवविमोचन माधव मापते सुकविमानसहंस शिवारते ।
जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम् ॥ ५॥

अवनिमण्डलमङ्गल मापते जलदसुन्दर राम रमापते ।
निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम् ॥ ६॥

पतितपावन नाममयी लता तव यशो विमलं परिगीयते ।
तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम् ॥ ७॥

अमरतापरदेव रमापते विजयस्तव नामघनोपमे ।
मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम् ॥ ८॥

हनुमतः प्रियतोषकर प्रभो सुरसरिदूधृतशेखर हे गुरो ।
मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम् ॥ ९॥

नरहरे रतिरञ्जनसुन्दरं पठति यः शिवरामकृतस्तवम् ।
विशति रामरमाचरणाम्बुजे शिव हरे विजयं कुरु मे वरम् ॥ १०॥

प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ।
विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥ ११॥

इति श्रीरामानन्दविरचितं शिवरामस्तोत्रम्

श्रीशिवसहस्रनामस्तोत्रम् from rudrayAmala tantra

॥ श्रीशिवसहस्रनामस्तोत्रम् ॥

ॐ श्री गणेशाय नमः ।
पूर्वपीठिका
ॐकारनिलयं देवं गजवक्त्रं चतुर्भुजम् ।
पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥

श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादशंकरं लोकशंकरम् ॥

शंकरं शंकराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥

वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनांपतिम् ।
वन्दे सूर्यशशांकवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥

ऋषय ऊचुः
सूत वेदार्थतत्त्वज्ञ शिवध्यानपरायण ।
मुक्त्युपायं वदास्मभ्यं कृपालो मुनिसत्तम ॥ १॥

कः सेव्यः सर्वदेवेषु को वा जप्यो मनुः सदा ।
स्थातव्यं कुत्र वा नित्यं  किं वा सर्वार्थसाधकम् ॥ २॥

श्री सूत उवाच
धन्यान्मन्यामहे नूनमनन्यशरणान्मुनीन् ।
वन्याशिनो वनेवासान् न्यस्तमानुष्यकल्मषान् ॥ ३॥

भवद्भिः सर्ववेदार्थतत्त्वं ज्ञातमतन्द्रितैः ।
भवद्भिः सर्ववेदार्थो ज्ञात एवास्ति यद्यपि ॥ ४॥

तथापि किञ्चिद्वक्ष्यामि यथा ज्ञातं मया तथा ।
पुरा कैलासशिखरे सुखासीनं जगत्प्रभुम् ॥ ५॥

वेदान्तवेद्यमीशानं शंकरं लोकशंकरम् ।
विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ॥ ६॥

मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् ।
पप्रच्छ सर्वलोकानां मुक्त्युपायं कृताञ्जलिः ॥ ७॥

श्रीस्कन्द उवाच
विश्वेश्वर महादेव विष्णुब्रह्मादिवन्दित ।
देवानां मानवानां च किं मोक्षस्यास्ति साधनम् ॥ ८॥

तव नामान्यनन्तानि सन्ति यद्यपि शंकर ।
तथापि तानि दिव्यानि न ज्ञायन्ते मयाधुना ॥ ९॥

प्रियाणि शिवनामानि सर्वाणि शिव यद्यपि ।
तथापि कानि रम्याणि तेषु प्रियतमानि ते ॥

तानि सर्वार्थदान्यद्य कृपया वक्तुमर्हसि ॥ १०॥

श्रीसूत उवाच
कुमारोदीरितां वाचं सर्वलोकहितावहाम् ।
श्रुत्वा प्रसन्नवदनस्तमुवाच सदाशिवः ॥ ११॥

श्रीसदाशिव उवाच
साधु साधु महाप्राज्ञ सम्यक्पृष्ठं त्वयाधुना ।
यदिदानीम् त्वया पृष्टं तद्वक्ष्ये शृणु सादरम् ॥ १२॥

एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा ।
समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ १३॥

दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम् ।
अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ १४॥

एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् ।
मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ १५॥

तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः ।
पूजयिष्यति मां भक्त्या यस्त्वेतन्नामसंख्यया ॥ १६॥

स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः ।
ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ १७॥

एकैकेनैव नाम्ना मां अर्चयित्वा दृढव्रताः ।
स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ १८॥

एतन्नामावलीं यस्तु पठन्मां प्रणमेत्सदा ।
स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ १९॥

स्पृष्ट्वा मल्लिंगममलं एतन्नामानि यः पठेत् ।
स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ २०॥

यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि ।
मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ २१॥

एतन्नामानुसन्धाननिरतः सर्वदाऽमुना ।
मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ २२॥

तत्पूजया पूजितोऽहं स एवाहं मतो मम ।
तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ २३॥

हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः ।
देवताप्यहमेवात्र शक्तिर्गौरी मम प्रिया ॥ २४॥

महेश एव संसेव्यः सर्वैरिति हि कीलकम् ।
धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ २५॥

     ॐ
सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् ।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् ॥

॥ न्यासः ॥

ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः ।
अनुष्टुप् छन्दः । परमात्मा श्रीसदाशिवो देवता ।
महेश्वर इति बीजम् । गौरी शक्तिः ।
महेश एव संसेव्यः सर्वैरिति कीलकम् ।
श्रीसाम्बसदाशिव प्रीत्यर्थे  मुख्यसहस्रनामजपे विनियोगः ।
॥ ध्यानम् ॥

शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां वरडमरुयुतं चांकुशं वामभागे
नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

ॐ नमो भगवते  रुद्राय ।
ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः ।
हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥ १॥

विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः ।
सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ २॥

आततावी महारुद्रः संसारास्त्रः सुरेश्वरः ।
उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ३॥

रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः ।
वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ४॥

उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः ।
ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥

सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः ।
आव्याधिनीशः ककुभो निषंगी स्तेनरक्षकः ॥ ६॥

मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ।
अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥

प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः ।
भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥

व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ।
शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥

वामनो व्यापकः शूली वर्षीयानजडोऽनणुः ।
ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥

आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ।
द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥

पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः ।
अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥ १२॥

प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः ।
खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ १३॥

वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः ।
आशुषेणो महासेनो महावीरो महारथः ॥ १४॥

शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः ।
श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥ १५॥

आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः ।
धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ १६॥

तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः ।
सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥ १७॥

स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः ।
सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ १८॥

सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः ।
मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ १९॥

दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः ।
ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥ २०॥

आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः ।
वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥ २१॥

सोमस्ताम्रोऽरुणः शंगः रुद्रः सुखकरः सुकृत् ।
उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ २२॥

अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः ।
शम्भुर्मयोभवो  नित्यः शंकरः कीर्तिसागरः ॥ २३॥

मयस्करः शिवतरः खण्डपर्शुरजः शुचिः ।
तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ २४॥

शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः ।
उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥ २५॥

आतार्यः सारभूतात्मा सारग्राही दुरत्ययः ।
आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसंगरः ॥ २६॥

शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः ।
इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥ २७॥

वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः ।
यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ २८॥

यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः ।
प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥ २९॥

पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः ।
ह्रदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ३०॥

निवेष्प्यो नियतोऽयन्ता पांसव्यः सम्प्रतापनः ।
शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥ ३१॥

लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः ।
भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥ ३२॥

भूतसंघो भूतमूर्तिर्भूतहा भूतिभूषणः ।
मदनो मादको माद्यो मदहा मधुरप्रियः ॥ ३३॥

मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः ।
निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥ ३४॥

निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः ।
सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥ ३५॥

सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः ।
समस्तजगदाधारः समस्तगुणसागरः ॥ ३६॥

समस्तदुःखविध्वंसी समस्तानन्दकारणः ।
रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ३७॥

रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥ ३८॥

विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः ।
भुजगेन्द्रलसत्कण्ठो भुजंगाभरणप्रियः ॥ ३९॥

भुजंगविलसत्कर्णो भुजंगवलयावृतः ।
मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥ ४०॥

मुनिहृत्पुण्डरीकस्थो मुनिसंघैकजीवनः ।
मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥ ४१॥

मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ।
मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥ ४२॥

दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः ।
ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥ ४३॥

यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः ।
व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥ ४४॥

लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ।
ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥ ४५॥

ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः ।
कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥ ४६॥

कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः ।
परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥ ४७॥

वेद्यो  वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः ।
वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥ ४८॥

कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥ ४९॥

पावनः पावको वामो महाकालो मदापहः ।
घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥ ५०॥

अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ।
जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥ ५१॥

जगदानन्ददो जन्मजरामरणवर्जितः ।
खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥ ५२॥

कपालमालाभरणः कपाली विष्णुवल्लभः ।
कमलासनकालाग्निः कमलासनपूजितः ॥ ५३॥

कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः ।
नाट्यकर्ता नटपरो महानाट्यविशारदः ॥ ५४॥

विराट्रूपधरो धीरो वीरो वृषभवाहनः ।
वृषांको वृषभाधीशो वृषात्मा वृषभध्वजः ॥ ५५॥

महोन्नतो महाकायो महावक्षा महाभुजः ।
महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥ ५६॥

महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः ।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥ ५७॥

सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः ।
धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥ ५८॥

कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः ।
कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥ ५९॥

व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती ।
व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥ ६०॥

अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागघ्नो रागशमनो रागदो रागिरागवित् ॥ ६१॥

विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः ।
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥ ६२॥

नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ ६३॥

क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् ।
सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥ ६४॥

गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः ।
गुणाधारो गुणाकारो गुणकृद् गुणनाशकः ॥ ६५॥

वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः ।
वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥ ६६॥

कालवित्कालकृत्कालो बलकृद् बलविद्बली ।
मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥ ६७॥

विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः ।
विश्वकारो  महाविश्वो विश्वविश्वो विशारदः ॥ ६८॥

variation
विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः ।
विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥६८॥

वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।
ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥ ६९॥

प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ।
प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥ ७०॥

शरदात्मा शरद्धेतुः  शरत्कालप्रवर्तकः ।
शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥ ७१॥

हिमस्वरूपो हिमदो हिमहा हिमनायकः ।
शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥ ७२॥

प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥ ७३॥

ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः ।
सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ७४॥

सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः ।
जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥ ७५॥

जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः ।
ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥ ७६॥

वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः ।
कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥ ७७॥

पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः ।
अपायरहितः शान्तो दान्तो दमयिता दमः ॥ ७८॥

ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः ।
कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥ ७९॥

प्रलयानलकृद् दिव्यः प्रलयानलनाशकः ।
त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥ ८०॥

अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ।
सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥ ८१॥

कुन्देन्दुशंखधवलो भस्मोद्धूलितविग्रहः ।
भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥ ८२॥

स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः ।
त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ ८३॥

सामप्रियः सामवेत्ता सामगः सामगप्रियः ।
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ ८४॥

लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः ।
तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥ ८५॥

शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः ।
जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥ ८६॥

जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः ।
जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ ८७॥

पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः ।
अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ ८८॥

कैलासशिखरावासः कैलासशिखरप्रियः ।
भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥ ८९॥

सोमः सोमकलाकारो महातेजा महातपाः ।
हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥ ९०॥

ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः ।
स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ ९१॥

पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः ।
पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ ९२॥

सारभूतः स्वरमयो रसभूतो रसाश्रयः ।
ॐकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ ९३॥

निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः ।
मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ ९४॥

वृन्दारकप्रियतमो वृन्दारकवरार्चितः ।
श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ ९५॥

महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः ।
सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ ९६॥

लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः ।
ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥ ९७॥

वेदपो देवदेवेशो देवदेवोत्तमोत्तमः ।
बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ ९८॥

बीजाधारो बीजरूपो निर्बीजो बीजनाशकः ।
परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ ९९॥

पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः ।
युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १००॥

कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः ।
धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १०१॥

मनोजवो जीवहेतुरन्धकासुरसूदनः ।
लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १०२॥

अव्यक्तलक्षणो योगी योगीशो योगपुंगवः ।
श्रितावासो जनावासः सुरवासः सुमण्डलः ॥ १०३॥

भववैद्यो योगिवैद्यो योगिसिंहहृदासनः ।
उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥ १०४॥

आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः ।
भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १०५॥

अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १०६॥

अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः ।
भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥ १०७॥

विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ।
सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १०८॥

अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः ।
दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥ १०९॥

परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः ।
मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ ११०॥

सुखप्रदः सुखाकारः सुखदुःखविवर्जितः ।
विशृङ्खलो  जगत्कर्ता  जितसर्वः पितामहः ॥ १११॥

अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः ।
अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ ११२॥

अमृतः शाश्वतः शान्तो  मृत्युहा मूकनाशनः ।
महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ ११३॥

गौरीविलाससदनो नानागानविशारदः ।
विचित्रमाल्यवसनो  दिव्यचन्दनचर्चितः ॥ ११४॥

विष्णुब्रह्मादिवन्द्यांघ्रिः सुरासुरनमस्कृतः ।
किरीटलेढिफालेन्दुर्मणिकंकणभूषितः ॥ ११५॥

रत्नांगदांगो रत्नेशो  रत्नरञ्जितपादुकः ।
नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥ ११६॥

नानाविधानेकरत्नलसत्कुण्डलमण्डितः ।
दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ ११७॥

गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः ।
रत्नांगुलीयविलसत्करशाखानखप्रभः ॥ ११८॥

रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः ।
वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥ ११९॥

लीलावलम्बितवपुर्भक्तमानसमन्दिरः ।
मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १२०॥

कस्तूरीविलसत्फालो दिव्यवेषविराजितः ।
दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२१॥

देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ।
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १२२॥

सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः ।
सर्वेष्टदाता सर्वेष्टः स्फुरन्मंगलविग्रहः ॥ १२३॥

अविद्यालेशरहितो नानाविद्यैकसंश्रयः ।
मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥ १२४॥

सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः ।
हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १२५॥

शरणागतदीनार्तपरित्राणपरायणः ।
जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १२६॥

भोक्ता भोजयिता जेता जितारिर्जितमानसः ।
अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥ १२७॥

आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः ।
पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १२८॥

व्योमकेशो भीमवेषो गौरीपतिरनामयः ।
भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥ १२९॥

वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः ।
यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥ १३०॥

हिरण्यगर्भो हेमांगो हेमरूपो हिरण्यदः ।
ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥ १३१॥

मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः ।
महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥ १३२॥

मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः ।
सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १३३॥

महेश्वरो महादेवः परब्रह्म सदाशिवः ॥ १३४॥

श्री परब्रह्म सदाशिव ॐ नम इति ।
उत्तर पीठिका
एवमेतानि नामानि मुख्यानि मम षण्मुख ।
शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥ १॥

विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः ।
शिवलिंगसमीपस्थो निस्संगो निर्जितासनः ॥ २॥

एकाग्रचित्तो नियतो वशी भूतहिते रतः ।
शिवलिंगार्चको नित्यं शिवैकशरणः सदा ॥ ३॥

मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् ।
एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥ ४॥

संसारपाशसंबद्धजनमोक्षैकसाधनम् ।
मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥ ५॥

मन्नामैव परं जप्यमहमेवाक्षयार्थदः ।
अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥ ६॥

विभूतिवज्रकवचैः मन्नामशरपाणिभिः ।
विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ ७॥

न तेषां दृश्यते भयम् ॐ नम इति ।
श्रीसूत उवाच
इत्युदीरितमाकर्ण्य महादेवेन तद्वचः ।
सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥ ८॥

श्रीस्कन्द उवाच
नमस्ते नमस्ते महादेव शम्भो
नमस्ते नमस्ते प्रपन्नैकबन्धो ।
नमस्ते नमस्ते दयासारसिन्धो
नमस्ते नमस्ते नमस्ते महेश ॥ ९॥

नमस्ते नमस्ते महामृत्युहारिन्
नमस्ते नमस्ते महादुःखहारिन् ।
नमस्ते नमस्ते महापापहारिन्
नमस्ते नमस्ते नमस्ते महेश ॥ १०॥

नमस्ते नमस्ते सदा चन्द्रमौले
नमस्ते नमस्ते सदा शूलपाणे ।
नमस्ते नमस्ते सदोमैकजाने
नमस्ते नमस्ते नमस्ते महेश ॥ ११॥

वेदान्तवेद्याय महादयाय
कैलासवासाय शिवाधवाय ।
शिवस्वरूपाय सदाशिवाय
शिवासमेताय नमःशिवाय ॥ १२॥

ॐ नमःशिवाय इति
श्रीसूत उवाच
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥ १३॥

भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः ।
शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ १४॥

शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः ।
शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ १५॥

महेशान्नाधिको देवः स एव सुरसत्तमः ।
स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ १६॥

जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा ।
तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥ १७॥

सुभगा जननी तस्य तस्यैव कुलमुन्नतम् ।
तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ १८॥

ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं
शैलाधीशसुतासमेतममलं सम्पूजयन्त्यादरात् ।
ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः
सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ १९॥

सत्यं पुनः सर्वथा ॐ नम इति ।
नमः शिवाय साम्बाय सगणाय ससूनवे ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ २०॥

नमस्ते गिरिजानाथ भक्तानामिष्टदायक ।
देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥ २१॥

साम्ब शम्भो महादेव दयासागर शंकर ।
मच्चित्तभ्रमरो नित्यं तवास्तु पदपंकजे ॥ २२॥

सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर ।
तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥ २३॥

यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ २४॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ २५॥

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
सदाशिवायेति समर्पयामि ॥ २६॥

॥ ॐ तत्सत् इति श्रीमुख्यशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥

श्रीशिवसहस्रनामस्तोत्रम् १ from Mahabharat

॥ श्रीशिवसहस्रनामस्तोत्रम् १ ॥

॥ अथ श्री शिव सहस्रनाम स्तोत्रम् ॥

ॐ स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ १॥

जटी चर्मी शिखण्डी च सर्वांगः सर्वभावनः ।
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ २॥

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ ३॥

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ४॥

महारूपो महाकायो वृषरूपो महायशाः ।
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ ५॥

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ ६॥

सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः ।
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ ७॥

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ।
अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः ॥ ८॥

महातपा घोरतपा अदीनो दीनसाधकः ।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ ९॥

योगी योज्यो महाबीजो महारेता महाबलः ।
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ १०॥

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।
विश्वरूपः स्वयंश्रेष्ठो बलवीरोऽबलो गणः ॥ ११॥

गणकर्ता गणपतिर्दिग्वासाः काम एव च ।
मन्त्रवित्परमोमन्त्रः सर्वभावकरो हरः ॥ १२॥

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ १३॥

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।
उष्णिषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ १४॥

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।
सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभंकरः ॥ १५॥

अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ।
ऊर्ध्वरेता ऊर्ध्वलिंग ऊर्ध्वशायी नभःस्थलः ॥ १६॥

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ।
अहश्चरोनक्तंचरस्तिग्ममन्युः सुवर्चसः ॥ १७॥

गजहा दैत्यहा कालो लोकधाता गुणाकरः ।
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ १८॥

कालयोगी महानादः सर्वकामश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ १९॥

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ २०॥

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः ।
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ २१॥

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः ।
दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ २२॥

तेजोपहारी बलहा मुदितोऽर्थोऽजितो वरः ।
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ २३॥

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।
सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ २४॥

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः ।
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ २५॥

विष्णुप्रसादितो यज्ञः समुद्रो बडवामुखः ।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ २६॥

उग्रतेजा महातेजा जन्यो विजयकालवित् ।
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ २७॥

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।
वैणवी पणवी ताली खली कालकटंकटः ॥ २८॥

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥ २९॥

विमोचनः सुसरणो हिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ ३०॥

सर्वतूर्यविनोदी च सर्वातोद्यपरिग्रहः ।
व्यालरूपो गुहावासी गुहो माली तरंगवित् ॥ ३१॥

त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः ।
बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥ ३२॥

सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥ ३३॥

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः ।
हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥ ३४॥

लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः ।
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ३५॥

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः ।
सर्वकालप्रसादश्च सुबलो बलरूपधृत् ॥ ३६॥

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ ३७॥

रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी ।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ३८॥

सर्ववासी श्रियावासी उपदेशकरोऽकरः ।
मुनिरात्मनिरालोकः संभग्नश्च सहस्रदः ॥ ३९॥

पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः ।
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ ४०॥

वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ।
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ४१॥

भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः ।
महासेनो विशाखश्च षष्ठिभागो गवांपतिः ॥ ४२॥

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ।
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ ४३॥

वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः ।
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ ४४॥

ईशान ईश्वरः कालो निशाचारी पिनाकवान् ।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ ४५॥

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।
भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ ४६॥

चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च ।
लिंगाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ ४७॥

बीजाध्यक्षो बीजकर्ता अध्यात्माऽनुगतो बलः ।
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ ४८॥

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ।
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ ४९॥

अक्षरं परमं ब्रह्म बलवच्चक्र एव च ।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ५०॥

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ।
वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥ ५१॥

महामेघनिवासी च महाघोरो वशीकरः ।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ५२॥

वृषणः शंकरो नित्यंवर्चस्वी धूमकेतनः ।
नीलस्तथांगलुब्धश्च शोभनो निरवग्रहः ॥ ५३॥

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।
उत्संगश्च महांगश्च महागर्भपरायणः ॥ ५४॥

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ।
महापादो महाहस्तो महाकायो महायशाः ॥ ५५॥

महामूर्धा महामात्रो महानेत्रो निशालयः ।
महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ५६॥

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ ५७॥

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ५८॥

महानखो महारोमो महाकोशो महाजटः ।
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ५९॥

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ६०॥

गण्डली मेरुधामा च देवाधिपतिरेव च ।
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ ६१॥

यजुः पादभुजो गुह्यः प्रकाशो जंगमस्तथा ।
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ६२॥

उपकारः प्रियः सर्वः कनकः कांचनच्छविः ।
नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः ॥ ६३॥

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ६४॥

सगणो गणकारश्च भूतवाहनसारथिः ।
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ६५॥

लोकपालस्तथा लोको महात्मा सर्वपूजितः ।
शुक्लस्त्रिशुक्लः संपन्नः शुचिर्भूतनिषेवितः ॥ ६६॥

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ ६७॥

कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः ।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ ६८॥

परश्वधायुधो देव अनुकारी सुबान्धवः ।
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ ६९॥

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।
सर्वांगरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ ७०॥

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।
सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः ॥ ७१॥

बहुधा निन्दितः शर्वः शंकरः शंकरोऽधनः ।
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ ७२॥

अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा ।
अजैकपाच्च कापाली त्रिशंकुरजितः शिवः ॥ ७३॥

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ ७४॥

प्रभावः सर्वगो वायुरर्यमा सविता रविः ।
उषंगुश्च विधाता च मान्धाता भूतभावनः ॥ ७५॥

विभुर्वर्णविभावी च सर्वकामगुणावहः ।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ ७६॥

बलवांश्चोपशान्तश्च पुराणः पुण्यचंचुरी ।
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ ७७॥

सर्वाशयो दर्भचारी सर्वेषां प्राणिनांपतिः ।
देवदेवः सुखासक्तः सदसत् सर्वरत्नवित् ॥ ७८॥

कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ ७९॥

वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः ।
सारग्रीवो महाजत्रु रलोलश्च महौषधः ॥ ८०॥

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ ८१॥

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारंगो नवचक्रांगः केतुमाली सभावनः ॥ ८२॥

भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ ८३॥

वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ ८४॥

धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ८५॥

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ८६॥

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः ।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ८७॥

महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।
आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ ८८॥

तोरणस्तारणो वातः परिधी पतिखेचरः ।
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ ८९॥

नित्यमात्मसहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥ ९०॥

आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ ९१॥

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ ९२॥

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ ९३॥

रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ।
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ ९४॥

आरोहणोऽधिरोहश्च शीलधारी महायशाः ।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ ९५॥

युगरूपो महारूपो महानागहनो वधः ।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ ९६॥

बहुमालो महामालः शशी हरसुलोचनः ।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ ९७॥

त्रिलोचनो विषण्णांगो मणिविद्धो जटाधरः ।
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ ९८॥

निवेदनः सुखाजातः सुगन्धारो महाधनुः ।
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ ९९॥

मन्थानो बहुलो वायुः सकलः सर्वलोचनः ।
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ १००॥

छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः ।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥ १०१॥

हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् ।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १०२॥

सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृत् ।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिंगलः ॥ १०३॥

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १०४॥

गभस्तिर्ब्रह्मकृद् ब्रह्मी ब्रह्मविद् ब्राह्मणो गतिः ।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ॥ १०५॥

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ १०६॥

कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् ।
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः ॥ १०७॥

वरो वराहो वरदो वरेण्यः सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः ॥ १०८॥

प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् ।
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ १०९॥

चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः ॥ ११०॥

व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः ।
ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः ॥ १११॥

कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः ।
विश्वक्षेत्रं प्रजाबीजं लिंगमाद्यस्तु निर्गमः ॥ ११२॥

सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ११३॥

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परागतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥ ११४॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ ११५॥

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ ११६॥

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसंभवः ॥ ११७॥

उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ ११८॥

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ ११९॥

गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः ।
शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः ॥ १२०॥

अभिरामः सुरगणो विरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १२१॥

स्थावराणांपतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ १२२॥

व्रताधिपः परं ब्रह्म भक्तानां परमागतिः ।
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥ १२३॥

॥ श्रीमान् श्रीवर्धनो जगत् ॐ नम इति ॥

श्रीशिवसहस्रनामावलीRudrayAmala tantra

॥ श्रीशिवसहस्रनामावली ॥

ॐ श्री गणेशाय नमः ।
अथ श्री शिव सहस्र नामावली
१. ॐ हिरण्यबाहवे नमः ।
२. ॐ सेनान्ये नमः ।
३. ॐ दिक्पतये नमः ।
४. ॐ तरुराजे नमः ।
५. ॐ हराय नमः ।
६. ॐ हरिकेशाय नमः ।
७. ॐ पशुपतये नमः ।
८. ॐ महते नमः ।
९. ॐ सस्पिञ्जराय नमः ।
१०. ॐ मृडाय नमः ॥ १॥

११. ॐ विव्याधिने नमः ।
१२. ॐ बभ्लुशाय नमः ।
१३. ॐ श्रेष्ठाय नमः ।
१४. ॐ परमात्मने सनातनाय नमः ।
१५. ॐ सर्वान्नराजे नमः ।
१६. ॐ जगत्कर्त्रे नमः ।
१७. ॐ पुष्टेशाय नमः ।
१८. ॐ नन्दिकेश्वराय नमः ॥ २॥

१९. ॐ आतताविने नमः ।
२०. ॐ महारुद्राय नमः ।
२१. ॐ संसारास्त्राय नमः ।
२२. ॐ सुरेश्वराय नमः ।
२३. ॐ उपवीतये नमः ।
२४. ॐ अहन्त्यात्मने नमः ।
२५. ॐ क्षेत्रेशाय नमः ।
२६. ॐ वननायकाय नमः ॥ ३॥

२७. ॐ रोहिताय नमः ।
२८. ॐ स्थपतये नमः ।
२९. ॐ सूताय नमः ।
३०. ॐ वाणिजाय नमः ।
३१. ॐ मन्त्रिणे नमः ।
३२. ॐ उन्नताय नमः ।
३३. ॐ वृक्षेशाय नमः ।
३४. ॐ हुतभुजे नमः ।
३५. ॐ देवाय नमः ।
३६. ॐ भुवन्तये नमः ।
३७. ॐ वारिवस्कृताय नमः ॥ ४॥

३८. ॐ उच्चैर्घोषाय नमः ।
३९. ॐ घोररूपाय नमः ।
४०. ॐ पत्तीशाय नमः ।
४१. ॐ पाशमोचकाय नमः ।
४२. ॐ ओषधीशाय नमः ।
४३. ॐ पञ्चवक्त्राय नमः ।
४४. ॐ कृत्स्नवीताय नमः ।
४५. ॐ भयानकाय नमः ॥ ५॥

४६. ॐ सहमानाय नमः ।
४७. ॐ स्वर्णरेतसे नमः ।
४८. ॐ निव्याधये नमः ।
४९. ॐ निरुपप्लवाय नमः ।
५०. ॐ आव्याधिनीशाय नमः ।
५१. ॐ ककुभाय नमः ।
५२. ॐ निषंगिणे नमः ।
५३. ॐ स्तेनरक्षकाय नमः ॥ ६॥

५४. ॐ मन्त्रात्मने नमः ।
५५. ॐ तस्कराध्यक्षाय नमः ।
५६. ॐ वञ्चकाय नमः ।
५७. ॐ परिवञ्चकाय नमः ।
५८. ॐ अरण्येशाय नमः ।
५९. ॐ परिचराय नमः ।
६०. ॐ निचेरवे नमः ।
६१. ॐ स्तायुरक्षकाय नमः ॥ ७॥

६२. ॐ प्रकृन्तेशाय नमः ।
६३. ॐ गिरिचराय नमः ।
६४. ॐ कुलुञ्चेशाय नमः ।
६५. ॐ गुहेष्टदाय नमः ।
६६. ॐ भवाय नमः ।
६७. ॐ शर्वाय नमः ।
६८. ॐ नीलकण्ठाय नमः ।
६९. ॐ कपर्दिने नमः ।
७०. ॐ त्रिपुरान्तकाय नमः ॥ ८॥

७१. ॐ व्युप्तकेशाय नमः ।
७२. ॐ गिरिशयाय नमः ।
७३. ॐ सहस्राक्षाय नमः ।
७४. ॐ सहस्रपदे नमः ।
७५. ॐ शिपिविष्टाय नमः ।
७६. ॐ चन्द्रमौलये नमः ।
७७. ॐ ह्रस्वाय नमः ।
७८. ॐ मीढुष्टमाय नमः ।
७९. ॐ अनघाय नमः ॥ ९॥

८०. ॐ वामनाय नमः ।
८१. ॐ व्यापकाय नमः ।
८२. ॐ शूलिने नमः ।
८३. ॐ वर्षीयसे नमः ।
८४. ॐ अजडाय नमः ।
८५. ॐ अनणवे नमः ।
८६. ॐ ऊर्व्याय नमः ।
८७. ॐ सूर्म्याय नमः ।
८८. ॐ अग्रियाय नमः ।
८९. ॐ शीभ्याय नमः ।
९०. ॐ प्रथमाय नमः ।
९१. ॐ पावकाकृतये नमः ॥ १०॥

९२. ॐ आचाराय नमः ।
९३. ॐ तारकाय नमः ।
९४. ॐ ताराय नमः ।
९५. ॐ अवस्वन्याय नमः ।
९६. ॐ अनन्तविग्रहाय नमः ।
९७. ॐ द्वीप्याय नमः ।
९८. ॐ स्रोतस्याय नमः ।
९९. ॐ ईशानाय नमः ।
१००. ॐ धुर्याय नमः ।
१०१. ॐ गव्ययनाय नमः ।
१०२. ॐ यमाय नमः ॥ ११॥

१०३. ॐ पूर्वजाय नमः ।
१०४. ॐ अपरजाय नमः ।
१०५. ॐ ज्येष्ठाय नमः ।
१०६. ॐ कनिष्ठाय नमः ।
१०७. ॐ विश्वलोचनाय नमः ।
१०८. ॐ अपगल्भाय नमः ।
१०९. ॐ मध्यमाय नमः ।
११०. ॐ ऊर्म्याय नमः ।
१११. ॐ जघन्याय नमः ।
११२. ॐ बुध्नियाय नमः ।
११३. ॐ प्रभवे नमः ॥ १२॥

११४. ॐ प्रतिसर्याय नमः ।
११५. ॐ अनन्तरूपाय नमः ।
११६. ॐ सोभ्याय नमः ।
११७. ॐ याम्याय नमः ।
११८. ॐ सुराश्रयाय नमः ।
११९. ॐ खल्याय नमः ।
१२०. ॐ उर्वर्याय नमः ।
१२१. ॐ अभयाय नमः ।
१२२. ॐ क्षेम्याय नमः ।
१२३. ॐ श्लोक्याय नमः ।
१२४. ॐ पथ्याय नभसे नमः ।
१२५. ॐ अग्रण्ये नमः ॥ १३॥

१२६. ॐ वन्याय नमः ।
१२७. ॐ अवसान्याय नमः ।
१२८. ॐ पूतात्मने नमः ।
१२९. ॐ शर्वाय नमः ।
१३०. ॐ कक्ष्याय नमः ।
१३१. ॐ प्रतिश्रवाय नमः ।
१३२. ॐ आशुषेणाय नमः ।
१३३. ॐ महासेनाय नमः ।
१३४. ॐ महावीराय नमः ।
१३५. ॐ महारथाय नमः ॥ १४॥

१३६. ॐ शूराय नमः ।
१३७. ॐ अतिघातकाय नमः ।
१३८. ॐ वर्मिणे नमः ।
१३९. ॐ वरूथिने नमः ।
१४०. ॐ बील्मिने नमः ।
१४१. ॐ उद्यताय नमः ।
१४२. ॐ श्रुतसेनाय नमः ।
१४३. ॐ श्रुताय नमः ।
१४४. ॐ साक्षिणे नमः ।
१४५. ॐ कवचिने नमः ।
१४६. ॐ वशकृते वशिने नमः ॥ १५॥

१४७. ॐ आहनन्याय नमः ।
१४८. ॐ अनन्यनाथाय नमः ।
१४९. ॐ दुन्दुभ्याय नमः ।
१५०. ॐ अरिष्टनाशकाय नमः ।
१५१. ॐ धृष्णवे नमः ।
१५२. ॐ प्रमृशाय नमः ।
१५३. ॐ इत्यात्मने नमः ।
१५४. ॐ वदान्याय नमः ।
१५५. ॐ वेदसम्मताय नमः ॥ १६॥

१५६. ॐ तीक्ष्णेषुपाणये नमः ।
१५७. ॐ प्रहिताय नमः ।
१५८. ॐ स्वायुधाय नमः ।
१५९. ॐ शस्त्रवित्तमाय नमः ।
१६०. ॐ सुधन्वने नमः ।
१६१. ॐ सुप्रसन्नात्मने नमः ।
१६२. ॐ विश्ववक्त्राय नमः ।
१६३. ॐ सदागतये नमः ॥ १७॥

१६४. ॐ स्रुत्याय नमः ।
१६५. ॐ पथ्याय नमः ।
१६६. ॐ विश्वबाहवे नमः ।
१६७. ॐ काट्याय नमः ।
१६८. ॐ नीप्याय नमः ।
१६९. ॐ शुचिस्मिताय नमः ।
१७०. ॐ सूद्याय नमः ।
१७१. ॐ सरस्याय नमः ।
१७२. ॐ वैशन्ताय नमः ।
१७३. ॐ नाद्याय नमः ।
१७४. ॐ कूप्याय नमः ।
१७५. ॐ ऋषये नमः ।
१७६. ॐ मनवे नमः ॥ १८॥

१७७. ॐ सर्वस्मै नमः ।
१७८. ॐ वर्ष्याय नमः ।
१७९. ॐ वर्षरूपाय नमः ।
१८०. ॐ कुमाराय नमः ।
१८१. ॐ कुशलाय नमः ।
१८२. ॐ अमलाय नमः ।
१८३. ॐ मेघ्याय नमः ।
१८४. ॐ अवर्ष्याय नमः ।
१८५. ॐ अमोघशक्तये नमः ।
१८६. ॐ विद्युत्याय नमः ।
१८७. ॐ अमोघविक्रमाय नमः ॥ १९॥

१८८. ॐ दुरासदाय नमः ।
१८९. ॐ दुराराध्याय नमः ।
१९०. ॐ निर्द्वन्द्वाय नमः ।
१९१. ॐ दुःसहर्षभाय नमः ।
१९२. ॐ ईध्रियाय नमः ।
१९३. ॐ क्रोधशमनाय नमः ।
१९४. ॐ जातुकर्णाय नमः ।
१९५. ॐ पुरुष्टुताय नमः ॥ २०॥

१९६. ॐ आतप्याय नमः ।
१९७. ॐ वायवे नमः ।
१९८. ॐ अजराय नमः ।
१९९. ॐ वात्याय नमः ।
२००. ॐ कात्यायनीप्रियाय नमः ।
२०१. ॐ वास्तव्याय नमः ।
२०२. ॐ वास्तुपाय नमः ।
२०३. ॐ रेष्म्याय नमः ।
२०४. ॐ विश्वमूर्ध्ने नमः ।
२०५. ॐ वसुप्रदाय नमः ॥ २१॥

२०६. ॐ सोमाय नमः ।
२०७. ॐ ताम्राय नमः ।
२०८. ॐ अरुणाय नमः ।
२०९. ॐ शंगाय नमः ।
२१०. ॐ रुद्राय नमः ।
२११. ॐ सुखकराय नमः ।
२१२. ॐ सुकृते नमः ।
२१३. ॐ उग्राय नमः ।
२१४. ॐ अनुग्राय नमः ।
२१५. ॐ भीमकर्मणे नमः ।
२१६. ॐ भीमाय नमः ।
२१७. ॐ भीमपराक्रमाय नमः ॥ २२॥

२१८. ॐ अग्रेवधाय नमः ।
२१९. ॐ हनीयात्मने नमः ।
२२०. ॐ हन्त्रे नमः ।
२२१. ॐ दूरेवधाय नमः ।
२२२. ॐ वधाय नमः ।
२२३. ॐ शम्भवे नमः ।
२२४. ॐ मयोभवाय नमः ।
२२५. ॐ नित्याय नमः ।
२२६. ॐ शंकराय नमः ।
२२७. ॐ कीर्तिसागराय नमः ॥ २३॥

२२८. ॐ मयस्कराय नमः ।
२२९. ॐ शिवतराय नमः ।
२३०. ॐ खण्डपर्शवे नमः ।
२३१. ॐ अजाय नमः ।
२३२. ॐ शुचये नमः ।
२३३. ॐ तीर्थ्याय नमः ।
२३४. ॐ कूल्याय नमः ।
२३५. ॐ अमृताधीशाय नमः ।
२३६. ॐ पार्याय नमः ।
२३७. ॐ अवार्याय नमः ।
२३८. ॐ अमृताकराय नमः ॥ २४॥

२३९. ॐ शुद्धाय नमः ।
२४०. ॐ प्रतरणाय नमः ।
२४१. ॐ मुख्याय नमः ।
२४२. ॐ शुद्धपाणये नमः ।
२४३. ॐ अलोलुपाय नमः ।
२४४. ॐ उच्चाय नमः ।
२४५. ॐ उत्तरणाय नमः ।
२४६. ॐ तार्याय नमः ।
२४७. ॐ तार्यज्ञाय नमः ।
२४८. ॐ तार्यहृद्गतये नमः ॥ २५॥

२४९. ॐ आतार्याय नमः ।
२५०. ॐ सारभूतात्मने नमः ।
२५१. ॐ सारग्राहिणे नमः ।
२५२. ॐ दुरत्ययाय नमः ।
२५३. ॐ आलाद्याय नमः ।
२५४. ॐ मोक्षदाय पथ्याय नमः ।
२५५. ॐ अनर्थघ्ने नमः ।
२५६. ॐ सत्यसंगराय नमः ॥ २६॥

२५७. ॐ शष्प्याय नमः ।
२५८. ॐ फेन्याय नमः ।
२५९. ॐ प्रवाह्याय नमः ।
२६०. ॐ ऊढ्रे नमः ।
२६१. ॐ सिकत्याय नमः ।
२६२. ॐ सैकताश्रयाय नमः ।
२६३. ॐ इरिण्याय नमः ।
२६४. ॐ ग्रामण्ये नमः ।
२६५. ॐ पुण्याय नमः ।
२६६. ॐ शरण्याय नमः ।
२६७. ॐ शुद्धशासनाय नमः ॥ २७॥

२६८. ॐ वरेण्याय नमः ।
२६९. ॐ यज्ञपुरुषाय नमः ।
२७०. ॐ यज्ञेशाय नमः ।
२७१. ॐ यज्ञनायकाय नमः ।
२७२. ॐ यज्ञकत्रे नमः ।
२७३. ॐ यज्ञभोक्त्रे नमः ।
२७४. ॐ यज्ञविघ्नविनाशकाय नमः ॥ २८॥

२७५. ॐ यज्ञकर्मफलाध्यक्षाय नमः ।
२७६. ॐ यज्ञमूर्तये नमः ।
२७७. ॐ अनातुराय नमः ।
२७८. ॐ प्रपथ्याय नमः ।
२७९. ॐ किंशिलाय नमः ।
२८०. ॐ गेह्याय नमः ।
२८१. ॐ गृह्याय नमः ।
२८२. ॐ तल्प्याय नमः ।
२८३. ॐ धनाकराय नमः ॥ २९॥

२८४. ॐ पुलस्त्याय नमः ।
२८५. ॐ क्षयणाय नमः ।
२८६. ॐ गोष्ठ्याय नमः ।
२८७. ॐ गोविन्दाय नमः ।
२८८. ॐ गीतसत्क्रियाय नमः ।
२८९. ॐ ह्रदय्याय नमः ।
२९०. ॐ हृद्यकृते नमः ।
२९१. ॐ हृद्याय नमः ।
२९२. ॐ गह्वरेष्ठाय नमः ।
२९३. ॐ प्रभाकराय नमः ॥ ३०॥

२९४. ॐ निवेष्प्याय नमः ।
२९५. ॐ नियताय नमः ।
२९६. ॐ अयन्त्रे नमः ।
२९७. ॐ पांसव्याय नमः ।
२९८. ॐ सम्प्रतापनाय नमः ।
२९९. ॐ शुष्क्याय नमः ।
३००. ॐ हरित्याय नमः ।
३०१. ॐ अपूतात्मने नमः ।
३०२. ॐ रजस्याय नमः ।
३०३. ॐ सात्त्विकप्रियाय नमः ॥ ३१॥

३०४. ॐ लोप्याय नमः ।
३०५. ॐ उलप्याय नमः ।
३०६. ॐ पर्णशद्याय नमः ।
३०७. ॐ पर्ण्याय नमः ।
३०८. ॐ पूर्णाय नमः ।
३०९. ॐ पुरातनाय नमः ।
३१०. ॐ भूताय नमः ।
३११. ॐ भूतपतये नमः ।
३१२. ॐ भूपाय नमः ।
३१३. ॐ भूधराय नमः ।
३१४. ॐ भूधरायुधाय नमः ॥ ३२॥

३१५. ॐ भूतसंघाय नमः ।
३१६. ॐ भूतमूर्तये नमः ।
३१७. ॐ भूतघ्ने नमः ।
३१८. ॐ भूतिभूषणाय नमः ।
३१९. ॐ मदनाय नमः ।
३२०. ॐ मादकाय नमः ।
३२१. ॐ माद्याय नमः ।
३२२. ॐ मदघ्ने नमः ।
३२३. ॐ मधुरप्रियाय नमः ॥ ३३॥

३२४. ॐ मधवे नमः ।
३२५. ॐ मधुकराय नमः ।
३२६. ॐ क्रूराय नमः ।
३२७. ॐ मधुराय नमः ।
३२८. ॐ मदनान्तकाय नमः ।
३२९. ॐ निरञ्जनाय नमः ।
३३०. ॐ निराधाराय नमः ।
३३१. ॐ निर्लुप्ताय नमः ।
३३२. ॐ निरुपाधिकाय नमः ॥ ३४॥

३३३. ॐ निष्प्रपञ्चाय नमः ।
३३४. ॐ निराकाराय नमः ।
३३५. ॐ निरीहाय नमः ।
३३६. ॐ निरुपद्रवाय नमः ।
३३७. ॐ सत्त्वाय नमः ।
३३८. ॐ सत्त्वगुणोपेताय नमः ।
३३९. ॐ सत्त्वविदे नमः ।
३४०. ॐ सत्त्ववित्प्रियाय नमः ॥ ३५॥

३४१. ॐ सत्त्वनिष्ठाय नमः ।
३४२. ॐ सत्त्वमूर्तये नमः ।
३४३. ॐ सत्त्वेशाय नमः ।
३४४. ॐ सत्त्ववित्तमाय नमः ।
३४५. ॐ समस्तजगदाधाराय नमः ।
३४६. ॐ समस्तगुणसागराय नमः ॥ ३६॥

३४७. ॐ समस्तदुःखविध्वंसिने नमः ।
३४८. ॐ समस्तानन्दकारणाय नमः ।
३४९. ॐ रुद्राक्षमालाभरणाय नमः ।
३५०. ॐ रुद्राक्षप्रियवत्सलाय नमः ॥ ३७॥

३५१. ॐ रुद्राक्षवक्षसे नमः ।
३५२. ॐ रुद्राक्षरूपाय नमः ।
३५३. ॐ रुद्राक्षपक्षकाय नमः ।
३५४. ॐ विश्वेश्वराय नमः ।
३५५. ॐ वीरभद्राय नमः ।
३५६. ॐ सम्राजे नमः ।
३५७. ॐ दक्षमखान्तकाय नमः ॥ ३८॥

३५८. ॐ विघ्नेश्वराय नमः ।
३५९. ॐ  विघ्नकर्त्रे नमः ।
३६०. ॐ गुरवे देवशिखामणये नमः ।
३६१. ॐ भुजगेन्द्रलसत्कण्ठाय नमः ।
३६२. ॐ भुजंगाभरणप्रियाय नमः ॥ ३९॥

३६३. ॐ भुजंगविलसत्कर्णाय नमः ।
३६४. ॐ भुजंगवलयावृताय नमः ।
३६५. ॐ मुनिवन्द्याय नमः ।
३६६. ॐ मुनिश्रेष्ठाय नमः ।
३६७. ॐ मुनिवृन्दनिषेविताय नमः ॥ ४०॥

३६८. ॐ मुनिहृत्पुण्डरीकस्थाय नमः ।
३६९. ॐ मुनिसंघैकजीवनाय नमः ।
३७०. ॐ मुनिमृग्याय नमः ।
३७१. ॐ वेदमृग्याय नमः ।
३७२. ॐ मृगहस्ताय नमः ।
३७३. ॐ मुनीश्वराय नमः ॥ ४१॥

३७४. ॐ मृगेन्द्रचर्मवसनाय नमः ।
३७५. ॐ नरसिंहनिपातनाय नमः ।
३७६. ॐ मृत्युञ्जयाय नमः ।
३७७. ॐ मृत्युमृत्यवे नमः ।
३७८. ॐ अपमृत्युविनाशकाय नमः ॥ ४२॥

३७९. ॐ दुष्टमृत्यवे नमः ।
३८०. ॐ अदुष्टेष्टाय नमः ।
३८१. ॐ मृत्युघ्ने मृत्युपूजिताय नमः ।
३८२. ॐ ऊर्ध्वाय नमः ।
३८३. ॐ हिरण्याय नमः ।
३८४. ॐ परमाय नमः ।
३८५. ॐ निधनेशाय नमः ।
३८६. ॐ धनाधिपाय नमः ॥ ४३॥

३८७. ॐ यजुर्मूर्तये नमः ।
३८८. ॐ साममूर्तये नमः ।
३८९. ॐ ऋङ्मूर्तये नमः ।
३९०. ॐ मूर्तिवर्जिताय नमः ।
३९१. ॐ व्यक्ताय नमः ।
३९२. ॐ व्यक्ततमाय नमः ।
३९३. ॐ अव्यक्ताय नमः ।
३९४. ॐ व्यक्ताव्यक्ताय नमः ।
३९५. ॐ तमसे नमः ।
३९६. ॐ जविने नमः ॥ ४४॥

३९७. ॐ लिङ्गमूर्तये नमः ।
३९८. ॐ अलिङ्गात्मने नमः ।
३९९. ॐ लिङ्गालिङ्गात्मविग्रहाय नमः ।
४००. ॐ ग्रहग्रहाय नमः ।
४०१. ॐ ग्रहाधाराय नमः ।
४०२. ॐ ग्रहाकाराय नमः ।
४०३. ॐ ग्रहेश्वराय नमः ॥ ४५॥

४०४. ॐ ग्रहकृते नमः ।
४०५. ॐ ग्रहभिदे नमः ।
४०६. ॐ ग्राहिणे नमः ।
४०७. ॐ ग्रहाय नमः ।
४०८. ॐ ग्रहविलक्षणाय नमः ।
४०९. ॐ कल्पाकाराय नमः ।
४१०. ॐ कल्पकर्त्रे नमः ।
४११. ॐ कल्पलक्षणतत्पराय नमः ॥ ४६॥

४१२. ॐ कल्पाय नमः ।
४१३. ॐ कल्पाकृतये नमः ।
४१४. ॐ कल्पनाशकाय नमः ।
४१५. ॐ कल्पकल्पकाय नमः ।
४१६. ॐ परमात्मने नमः ।
४१७. ॐ प्रधानात्मने नमः ।
४१८. ॐ प्रधानपुरुषाय नमः ।
४१९. ॐ शिवाय नमः ॥ ४७॥

४२०. ॐ वेद्याय नमः ।
४२१. ॐ वैद्याय नमः ।
४२२. ॐ वेदवेद्याय नमः ।
४२३. ॐ वेदवेदान्तसंस्तुताय नमः ।
४२४. ॐ वेदवक्त्राय नमः ।
४२५. ॐ वेदजिह्वाय नमः ।
४२६. ॐ विजिह्वाय नमः ।
४२७. ॐ जिह्मनाशकाय नमः ॥ ४८॥

४२८. ॐ कल्याणरूपाय नमः ।
४२९. ॐ कल्याणाय नमः ।
४३०. ॐ कल्याणगुणसंश्रयाय नमः ।
४३१. ॐ भक्तकल्याणदाय नमः ।
४३२. ॐ भक्तकामधेनवे नमः ।
४३३. ॐ सुराधिपाय नमः ॥ ४९॥

४३४. ॐ पावनाय नमः ।
४३५. ॐ पावकाय नमः ।
४३६. ॐ वामाय नमः ।
४३७. ॐ महाकालाय नमः ।
४३८. ॐ मदापहाय नमः ।
४३९. ॐ घोरपातकदावाग्नये नमः ।
४४०. ॐ दवभस्मकणप्रियाय नमः ॥ ५०॥

४४१. ॐ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय नमः ।
४४२. ॐ जगदेकप्रभवे नमः ।
४४३. ॐ स्वामिने नमः ।
४४४. ॐ जगद्वन्द्याय नमः ।
४४५. ॐ जगन्मयाय नमः ॥ ५१॥

४४६. ॐ जगदानन्ददाय नमः ।
४४७. ॐ जन्मजरामरणवर्जिताय नमः ।
४४८. ॐ खट्वाङ्गिने नमः ।
४४९. ॐ नीतिमते नमः ।
४५०. ॐ सत्याय नमः ।
४५१. ॐ देवतात्मने नमः ।
४५२. ॐ आत्मसम्भवाय नमः ॥ ५२॥

४५३. ॐ कपालमालाभरणाय नमः ।
४५४. ॐ कपालिने नमः ।
४५५. ॐ विष्णुवल्लभाय नमः ।
४५६. ॐ कमलासनकालाग्नये नमः ।
४५७. ॐ कमलासनपूजिताय नमः ॥ ५३॥

४५८. ॐ कालाधीशाय नमः ।
४५९. ॐ त्रिकालज्ञाय नमः ।
४६०. ॐ दुष्टविग्रहवारकाय नमः ।
४६१. ॐ नाट्यकर्त्रे नमः ।
४६२. ॐ नटपराय नमः ।
४६३. ॐ महानाट्यविशारदाय नमः ॥ ५४॥

४६४. ॐ विराट्द्रूपधराय नमः ।
४६५. ॐ धीराय नमः ।
४६६. ॐ वीराय नमः ।
४६७. ॐ वृषभवाहनाय नमः ।
४६८. ॐ वृषांकाय नमः ।
४६९. ॐ वृषभाधीशाय नमः ।
४७०. ॐ वृषात्मने नमः ।
४७१. ॐ वृषभध्वजाय नमः ॥ ५५॥

४७२. ॐ महोन्नताय नमः ।
४७३. ॐ महाकायाय नमः ।
४७४. ॐ महावक्षसे नमः ।
४७५. ॐ महाभुजाय नमः ।
४७६. ॐ महास्कन्धाय नमः ।
४७७. ॐ महाग्रीवाय नमः ।
४७८. ॐ महावक्त्राय नमः ।
४७९. ॐ महाशिरसे नमः ॥ ५६॥

४८०. ॐ महाहनवे नमः ।
४८१. ॐ महादंष्ट्राय नमः ।
४८२. ॐ महदोष्ठाय नमः ।
४८३. ॐ महोदराय नमः ।
४८४. ॐ सुन्दरभ्रुवे नमः ।
४८५. ॐ सुनयनाय नमः ।
४८६. ॐ सुललाटय नमः ।
४८७. ॐ सुकन्दराय नमः ॥ ५७॥

४८८. ॐ सत्यवाक्याय नमः ।
४८९. ॐ धर्मवेत्त्रे नमः ।
४९०. ॐ सत्यज्ञाय नमः ।
४९१. ॐ सत्यवित्तमाय नमः ।
४९२. ॐ धर्मवते नमः ।
४९३. ॐ धर्मनिपुणाय नमः ।
४९४. ॐ धर्माय नमः ।
४९५. ॐ धर्मप्रवर्तकाय नमः ॥ ५८॥

४९६. ॐ कृतज्ञाय नमः ।
४९७. ॐ कृतकृत्यात्मने नमः ।
४९८. ॐ कृतकृत्याय नमः ।
४९९. ॐ कृतागमाय नमः ।
५००. ॐ कृत्यविदे नमः ।
५०१. ॐ कृत्यविच्छ्रेष्ठाय नमः ।
५०२. ॐ कृतज्ञप्रियकृत्तमाय नमः ॥ ५९॥

५०३. ॐ व्रतकृते नमः ।
५०४. ॐ व्रतविच्छ्रेष्ठाय नमः ।
५०५. ॐ व्रतविदुषे नमः ।
५०६. ॐ महाव्रतिने नमः ।
५०७. ॐ व्रतप्रियाय नमः ।
५०८. ॐ व्रताधाराय नमः ।
५०९. ॐ व्रताकाराय नमः ।
५१०. ॐ व्रतेश्वराय नमः ॥ ६०॥

५११. ॐ अतिरागिणे नमः ।
५१२. ॐ वीतरागिणे नमः ।
५१३. ॐ रागहेतवे नमः ।
५१४. ॐ विरागविदे नमः ।
५१५. ॐ रागघ्नाय नमः ।
५१६. ॐ रागशमनाय नमः ।
५१७. ॐ रागदाय नमः ।
५१८. ॐ रागिरागविदे नमः ॥ ६१॥

५१९. ॐ विदुषे नमः ।
५२०. ॐ विद्वत्तमाय नमः ।
५२१. ॐ विद्वज्जनमानससंश्रयाय नमः ।
५२२. ॐ विद्वज्जनाश्रयाय नमः ।
५२३. ॐ विद्वज्जनस्तव्यपराक्रमाय नमः ॥ ६२॥

५२४. ॐ नीतिकृते नमः ।
५२५. ॐ नीतिविदे नमः ।
५२६. ॐ नीतिप्रदात्रे नमः ।
५२७. ॐ नीतिवित्प्रियाय नमः ।
५२८. ॐ विनीतवत्सलाय नमः ।
५२९. ॐ नीतिस्वरूपाय नमः ।
५३०. ॐ नीतिसंश्रयाय नमः ॥ ६३॥

५३१. ॐ क्रोधविदे नमः ।
५३२. ॐ क्रोधकृते नमः ।
५३३. ॐ क्रोधिजनकृते नमः ।
५३४. ॐ क्रोधरूपधृषे नमः ।
५३५. ॐ सक्रोधाय नमः ।
५३६. ॐ क्रोधघ्ने नमः ।
५३७. ॐ क्रोधिजनघ्ने नमः ।
५३८. ॐ क्रोधकारणाय नमः ॥ ६४॥

५३९. ॐ गुणवते नमः ।
५४०. ॐ गुणविच्छ्रेष्ठाय नमः ।
५४१. ॐ निर्गुणाय नमः ।
५४२. ॐ गुणवित्प्रियाय नमः ।
५४३. ॐ गुणाधाराय नमः ।
५४४. ॐ गुणाकाराय नमः ।
५४५. ॐ गुणकृते नमः ।
५४६. ॐ गुणनाशकाय नमः ॥ ६५॥

५४७. ॐ वीर्यवते नमः ।
५४८. ॐ वीर्यविच्छ्रेष्ठाय नमः ।
५४९. ॐ वीर्यविदे नमः ।
५५०. ॐ वीर्यसंश्रयाय नमः ।
५५१. ॐ वीर्याकाराय नमः ।
५५२. ॐ वीर्यकराय नमः ।
५५३. ॐ वीर्यघ्ने नमः ।
५५४. ॐ वीर्यवर्धकाय नमः ॥ ६६॥

५५५. ॐ कालविदे नमः ।
५५६. ॐ कालकृते नमः ।
५५७. ॐ कालाय नमः ।
५५८. ॐ बलकृते नमः ।
५५९. ॐ बलविदे नमः ।
५६०. ॐ बलिने नमः ।
५६१. ॐ मनोन्मनाय नमः ।
५६२. ॐ मनोरूपाय नमः ।
५६३. ॐ बलप्रमथनाय नमः ।
५६४. ॐ बलाय नमः ॥ ६७॥

५६५. ॐ विश्वप्रदात्रे  var  विद्याप्रदात्रे नमः ।
५६६. ॐ विश्वेशाय   var  विद्येशाय नमः ।
५६७. ॐ विश्वमात्रैकसंश्रयाय var  विद्यामात्रैकसंश्रयाय नमः ।
५६८. ॐ विश्वकाराय   var  विद्याकाराय नमः ।
५६९. ॐ महाविश्वाय  var  महाविद्याय नमः ।
५७०. ॐ विश्वविश्वाय  var  विद्याविद्याय नमः ।
५७१. ॐ विशारदाय नमः ॥ ६८॥

५७२. ॐ वसन्तकृते नमः ।
५७३. ॐ वसन्तात्मने नमः ।
५७४. ॐ वसन्तेशाय नमः ।
५७५. ॐ वसन्तदाय नमः ।
५७६. ॐ ग्रीष्मात्मने नमः ।
५७७. ॐ ग्रीष्मकृते नमः ।
५७८. ॐ ग्रीष्मवर्धकाय नमः ।
५७९. ॐ ग्रीष्मनाशकाय नमः ॥ ६९॥

५८०. ॐ प्रावृट्कृते नमः ।
५८१. ॐ प्रावृडाकाराय नमः ।
५८२. ॐ प्रावृट्कालप्रवर्तकाय नमः ।
५८३. ॐ प्रावृट्प्रवर्धकाय नमः ।
५८४. ॐ प्रावृण्णाथाय नमः ।
५८५. ॐ प्रावृड्-विनाशकाय नमः ॥ ७०॥

५८६. ॐ शरदात्मने नमः ।
५८७. ॐ शरद्धेतवे नमः ।
५८८. ॐ शरत्कालप्रवर्तकाय नमः ।
५८९. ॐ शरन्नाथाय नमः ।
५९०. ॐ शरत्कालनाशकाय नमः ।
५९१. ॐ शरदाश्रयाय नमः ॥ ७१॥

५९२. ॐ हिमस्वरूपाय नमः ।
५९३. ॐ हिमदाय नमः ।
५९४. ॐ हिमघ्ने नमः ।
५९५. ॐ हिमनायकाय नमः ।
५९६. ॐ शैशिरात्मने नमः ।
५९७. ॐ शैशिरेशाय नमः ।
५९८. ॐ शैशिरर्तुप्रवर्तकाय नमः ॥ ७२॥

५९९. ॐ प्राच्यात्मने नमः ।
६००. ॐ दक्षिणाकाराय नमः ।
६०१. ॐ प्रतीच्यात्मने नमः ।
६०२. ॐ उत्तराकृतये नमः ।
६०३. ॐ आग्नेयात्मने नमः ।
६०४. ॐ निरृतीशाय नमः ।
६०५. ॐ वायव्यात्मने नमः ।
६०६. ॐ ईशनायकाय नमः ॥ ७३॥

६०७. ॐ ऊर्ध्वाधःसुदिगाकाराय नमः ।
६०८. ॐ नानादेशैकनायकाय नमः ।
६०९. ॐ सर्वपक्षिमृगाकाराय नमः ।
६१०. ॐ सर्वपक्षिमृगाधिपाय नमः ॥ ७४॥

६११. ॐ सर्वपक्षिमृगाधाराय नमः ।
६१२. ॐ मृगाद्युत्पत्तिकारणाय नमः ।
६१३. ॐ जीवाध्यक्षाय नमः ।
६१४. ॐ जीववन्द्याय नमः ।
६१५. ॐ जीवविदे नमः ।
६१६. ॐ जीवरक्षकाय ॥ ७५॥

६१७. ॐ जीवकृते नमः ।
६१८. ॐ जीवघ्ने नमः ।
६१९. ॐ जीवजीवनाय नमः ।
६२०. ॐ जीवसंश्रयाय नमः ।
६२१. ॐ ज्योतिःस्वरूपिणे नमः ।
६२२. ॐ विश्वात्मने नमः ।
६२३. ॐ विश्वनाथाय नमः ।
६२४. ॐ वियत्पतये नमः ॥ ७६॥

६२५. ॐ वज्रात्मने नमः ।
६२६. ॐ वज्रहस्तात्मने नमः ।
६२७. ॐ वज्रेशाय नमः ।
६२८. ॐ वज्रभूषिताय नमः ।
६२९. ॐ कुमारगुरवे ईशानाय नमः ।
६३०. ॐ गणाध्यक्षाय नमः ।
६३१. ॐ गणाधिपाय नमः ॥ ७७॥

६३२. ॐ पिनाकपाणये नमः ।
६३३. ॐ सूर्यात्मने नमः ।
६३४. ॐ सोमसूर्याग्निलोचनाय नमः ।
६३५. ॐ अपायरहिताय नमः ।
६३६. ॐ शान्ताय नमः ।
६३७. ॐ दान्ताय नमः ।
६३८. ॐ दमयित्रे नमः ।
६३९. ॐ दमाय नमः ॥ ७८॥

६४०. ॐ ऋषये नमः ।
६४१. ॐ पुराणपुरुषाय नमः ।
६४२. ॐ पुरुषेशाय नमः ।
६४३. ॐ पुरन्दराय नमः ।
६४४. ॐ कालाग्निरुद्राय नमः ।
६४५. ॐ सर्वेशाय नमः ।
६४६. ॐ शमरूपाय नमः ।
६४७. ॐ शमेश्वराय नमः ॥ ७९॥

६४८. ॐ प्रलयानलकृते नमः ।
६४९. ॐ दिव्याय नमः ।
६५०. ॐ प्रलयानलनाशकाय नमः ।
६५१. ॐ त्रियम्बकाय नमः ।
६५२. ॐ अरिषड्वर्गनाशकाय नमः ।
६५३. ॐ धनदप्रियाय नमः ॥ ८०॥

६५४. ॐ अक्षोभ्याय नमः ।
६५५. ॐ क्षोभरहिताय नमः ।
६५६. ॐ क्षोभदाय नमः ।
६५७. ॐ क्षोभनाशकाय नमः ।
६५८. ॐ सदम्भाय नमः ।
६५९. ॐ दम्भरहिताय नमः ।
६६०. ॐ दम्भदाय नमः ।
६६१. ॐ दम्भनाशकाय नमः ॥ ८१॥

६६२. ॐ कुन्देन्दुशंखधवलाय नमः ।
६६३. ॐ भस्मोद्धूलितविग्रहाय नमः ।
६६४. ॐ भस्मधारणहृष्टात्मने नमः ।
६६५. ॐ तुष्टये नमः ।
६६६. ॐ पुष्टये नमः ।
६६७. ॐ अरिसूदनाय नमः ॥ ८२॥

६६८. ॐ स्थाणवे नमः ।
६६९. ॐ दिगम्बराय नमः ।
६७०. ॐ भर्गाय नमः ।
६७१. ॐ भगनेत्रभिदे नमः ।
६७२. ॐ उद्यमाय नमः ।
६७३. ॐ त्रिकाग्नये नमः ।
६७४. ॐ कालकालाग्नये नमः ।
६७५. ॐ अद्वितीयाय नमः ।
६७६. ॐ महायशसे नमः ॥ ८३॥

६७७. ॐ सामप्रियाय नमः ।
६७८. ॐ सामवेत्रे नमः ।
६७९. ॐ सामगाय नमः ।
६८०. ॐ सामगप्रियाय नमः ।
६८१. ॐ धीरोदात्ताय नमः ।
६८२. ॐ महाधीराय नमः ।
६८३. ॐ धैर्यदाय नमः ।
६८४. ॐ धैर्यवर्धकाय नमः ॥ ८४॥

६८५. ॐ लावण्यराशये नमः ।
६८६. ॐ सर्वज्ञाय सुबुद्धये नमः ।
६८७. ॐ बुद्धिमते वराय नमः ।
६८८. ॐ तुम्बवीणाय नमः ।
६८९. ॐ कम्बुकण्ठाय नमः ।
६९०. ॐ शम्बरारिनिकृन्तनाय नमः ॥ ८५॥

६९१. ॐ शार्दूलचर्मवसनाय नमः ।
६९२. ॐ पूर्णानन्दाय नमः ।
६९३. ॐ जगत्प्रियाय नमः ।
६९४. ॐ जयप्रदाय नमः ।
६९५. ॐ जयाध्यक्षाय नमः ।
६९६. ॐ जयात्मने नमः ।
६९७. ॐ जयकारणाय नमः ॥ ८६॥

६९८. ॐ जङ्गमाजङ्गमाकाराय नमः ।
६९९. ॐ जगदुत्पत्तिकारणाय नमः ।
७००. ॐ जगद्रक्षाकराय नमः ।
७०१. ॐ वश्याय नमः ।
७०२. ॐ जगत्प्रलयकारणाय नमः ॥ ८७॥

७०३. ॐ पूषदन्तभिदे नमः ।
७०४. ॐ उत्कृष्टाय नमः ।
७०५. ॐ पञ्चयज्ञाय नमः ।
७०६. ॐ प्रभञ्जकाय नमः ।
७०७. ॐ अष्टमूर्तये नमः ।
७०८. ॐ विश्वमूर्तये नमः ।
७०९. ॐ अतिमूर्तये नमः ।
७१०. ॐ अमूर्तिमते नमः ॥ ८८॥

७११. ॐ कैलासशिखरावासाय नमः ।
७१२. ॐ कैलासशिखरप्रियाय नमः ।
७१३. ॐ भक्तकैलासदाय नमः ।
७१४. ॐ सूक्ष्माय नमः ।
७१५. ॐ मर्मज्ञाय नमः ।
७१६. ॐ सर्वशिक्षकाय नमः ॥ ८९॥

७१७. ॐ सोमाय सोमकलाकाराय नमः ।
७१८. ॐ महातेजसे नमः ।
७१९. ॐ महातपसे नमः ।
७२०. ॐ हिरण्यश्मश्रवे नमः ।
७२१. ॐ आनन्दाय नमः ।
७२२. ॐ स्वर्णकेशाय नमः ।
७२३. ॐ सुवर्णदृशे नमः ॥ ९०॥

७२४. ॐ ब्रह्मणे नमः ।
७२५. ॐ विश्वसृजे नमः ।
७२६. ॐ उर्वीशाय नमः ।
७२७. ॐ मोचकाय नमः ।
७२८. ॐ बन्धवर्जिताय नमः ।
७२९. ॐ स्वतन्त्राय नमः ।
७३०. ॐ सर्वमन्त्रात्मने नमः ।
७३१. ॐ श्वुतिमते अमितप्रभाय नमः ॥ ९१॥

७३२. ॐ पुष्कराक्षाय नमः ।
७३३. ॐ पुण्यकीर्तये नमः ।
७३४. ॐ पुण्यश्रवणकीर्तनाय नमः ।
७३५. ॐ पुण्यमूर्तये नमः ।
७३६. ॐ पुण्यदात्रे नमः ।
७३७. ॐ पुण्यापुण्यफलप्रदाय नमः ॥ ९२॥

७३८. ॐ सारभूताय नमः ।
७३९. ॐ स्वरमयाय नमः ।
७४०. ॐ रसभूताय नमः ।
७४१. ॐ रसाश्रयाय नमः ।
७४२. ॐ ॐकाराय नमः ।
७४३. ॐ प्रणवाय नमः ।
७४४. ॐ नादाय नमः ।
७४५. ॐ प्रणतार्तिप्रभञ्जनाय नमः ॥ ९३॥

७४६. ॐ निकटस्थाय नमः ।
७४७. ॐ अतिदूरस्थाय नमः ।
७४८. ॐ वशिने नमः ।
७४९. ॐ ब्रह्माण्डनायकाय नमः ।
७५०. ॐ मन्दारमूलनिलयाय नमः ।
७५१. ॐ मन्दारकुसुमावृताय नमः ॥ ९४॥

७५२. ॐ वृन्दारकप्रियतमाय नमः ।
७५३. ॐ वृन्दारकवरार्चिताय नमः ।
७५४. ॐ श्रीमते नमः ।
७५५. ॐ अनन्तकल्याणपरिपूर्णाय नमः ।
७५६. ॐ महोदयाय नमः ॥ ९५॥

७५७. ॐ महोत्साहाय नमः ।
७५८. ॐ विश्वभोक्त्रे नमः ।
७५९. ॐ विश्वाशापरिपूरकाय नमः ।
७६०. ॐ सुलभाय नमः ।
७६१. ॐ असुलभाय नमः ।
७६२. ॐ लभ्याय नमः ।
७६३. ॐ अलभ्याय नमः ।
७६४. ॐ लाभप्रवर्धकाय नमः ॥ ९६॥

७६५. ॐ लाभात्मने नमः ।
७६६. ॐ लाभदाय नमः ।
७६७. ॐ वक्त्रे नमः ।
७६८. ॐ द्युतिमते नमः ।
७६९. ॐ अनसूयकाय नमः ।
७७०. ॐ ब्रह्मचारिणे नमः ।
७७१. ॐ दृढाचारिणे नमः ।
७७२. ॐ देवसिंहाय नमः ।
७७३. ॐ धनप्रियाय नमः ॥ ९७॥

७७४. ॐ वेदपाय नमः ।
७७५. ॐ देवदेवेशाय नमः ।
७७६. ॐ देवदेवाय नमः ।
७७७. ॐ उत्तमोत्तमाय नमः ।
७७८. ॐ बीजराजाय नमः ।
७७९. ॐ बीजहेतवे नमः ।
७८०. ॐ बीजदाय नमः ।
७८१. ॐ बीजवृद्धिदाय नमः ॥ ९८॥

७८२. ॐ बीजाधाराय नमः ।
७८३. ॐ बीजरूपाय नमः ।
७८४. ॐ निर्बीजाय नमः ।
७८५. ॐ बीजनाशकाय नमः ।
७८६. ॐ परापरेशाय नमः ।
७८७. ॐ वरदाय नमः ।
७८८. ॐ पिङ्गलाय नमः ।
७८९. ॐ अयुग्मलोचनाय नमः ॥ ९९॥

७९०. ॐ पिङ्गलाक्षाय नमः ।
७९१. ॐ सुरगुरवे नमः ।
७९२. ॐ गुरवे नमः ।
७९३. ॐ सुरगुरुप्रियाय नमः ।
७९४. ॐ युगावहाय नमः ।
७९५. ॐ युगाधीशाय नमः ।
७९६. ॐ युगकृते नमः ।
७९७. ॐ युगनाशकाय नमः ॥ १००॥

७९८. ॐ कर्पूरगौराय नमः ।
७९९. ॐ गौरीशाय नमः ।
८००. ॐ गौरीगुरुगुहाश्रयाय नमः ।
८०१. ॐ धूर्जटये नमः ।
८०२. ॐ पिङ्गलजटाय नमः ।
८०३. ॐ जटामण्डलमण्डिताय नमः ॥ १०१॥

८०४. ॐ मनोजवाय नमः ।
८०५. ॐ जीवहेतवे नमः ।
८०६. ॐ अन्धकासुरसूदनाय नमः ।
८०७. ॐ लोकबन्धवे नमः ।
८०८. ॐ कलाधाराय नमः ।
८०९. ॐ पाण्डुराय नमः ।
८१०. ॐ प्रमथाधिपाय नमः ॥ १०२॥

८११. ॐ अव्यक्तलक्षणाय नमः ।
८१२. ॐ योगिने नमः ।
८१३. ॐ योगीशाय नमः ।
८१४. ॐ योगपुंगवाय नमः ।
८१५. ॐ श्रितावासाय नमः ।
८१६. ॐ जनावासाय नमः ।
८१७. ॐ सुरावासाय नमः ।
८१८. ॐ सुमण्डलाय नमः ॥ १०३॥

८१९. ॐ भववैद्याय नमः ।
८२०. ॐ योगिवेद्याय नमः ।
८२१. ॐ योगिसिंहहृदासनाय नमः ।
८२२. ॐ उत्तमाय नमः ।
८२३. ॐ अनुत्तमाय नमः ।
८२४. ॐ अशक्ताय नमः ।
८२५. ॐ कालकण्ठाय नमः ।
८२६. ॐ विषादनाय नमः ॥ १०४॥

८२७. ॐ आशास्याय नमः ।
८२८. ॐ कमनीयात्मने नमः ।
८२९. ॐ शुभाय नमः ।
८३०. ॐ सुन्दरविग्रहाय नमः ।
८३१. ॐ भक्तकल्पतरवे नमः ।
८३२. ॐ स्तोत्रे नमः ।
८३३. ॐ स्तव्याय नमः ।
८३४. ॐ स्तोत्रवरप्रियाय नमः ॥ १०५॥

८३५. ॐ अप्रमेयगुणाधाराय नमः ।
८३६. ॐ वेदकृते नमः ।
८३७. ॐ वेदविग्रहाय नमः ।
८३८. ॐ कीर्त्याधाराय नमः ।
८३९. ॐ कीर्तिकराय नमः ।
८४०. ॐ कीर्तिहेतवे नमः ।
८४१. ॐ अहेतुकाय नमः ॥ १०६॥

८४२. ॐ अप्रधृष्याय नमः ।
८४३. ॐ शान्तभद्राय नमः ।
८४४. ॐ कीर्तिस्तम्भाय नमः ।
८४५. ॐ मनोमयाय नमः ।
८४६. ॐ भूशयाय नमः ।
८४७. ॐ अन्नमयाय नमः ।
८४८. ॐ अभोक्त्रे नमः ।
८४९. ॐ महेष्वासाय नमः ।
८५०. ॐ महीतनवे नमः ॥ १०७॥

८५१. ॐ विज्ञानमयाय नमः ।
८५२. ॐ आनन्दमयाय नमः ।
८५३. ॐ प्राणमयाय नमः ।
८५४. ॐ अन्नदाय नमः ।
८५५. ॐ सर्वलोकमयाय नमः ।
८५६. ॐ यष्ट्रे नमः ।
८५७. ॐ धर्माधर्मप्रवर्तकाय नमः ॥ १०८॥

८५८. ॐ अनिर्विण्णाय नमः ।
८५९. ॐ गुणग्राहिणे नमः ।
८६०. ॐ सर्वधर्मफलप्रदाय नमः ।
८६१. ॐ दयासुधार्द्रनयनाय नमः ।
८६२. ॐ निराशिषे नमः ।
८६३. ॐ अपरिग्रहाय नमः ॥ १०९॥

८६४. ॐ परार्थवृत्तये मधुराय नमः ।
८६५. ॐ मधुरप्रियदर्शनाय नमः ।
८६६. ॐ मुक्तादामपरीताङ्गाय नमः ।
८६७. ॐ निःसङ्गाय नमः ।
८६८. ॐ मङ्गलाकराय नमः ॥ ११०॥

८६९. ॐ सुखप्रदाय नमः ।
८७०. ॐ सुखाकाराय नमः ।
८७१. ॐ सुखदुःखविवर्जिताय नमः ।
८७२. ॐ विशृङ्खलाय नमः ।
८७३. ॐ जगते नमः ।
८७४. ॐ कर्त्रे नमः ।
८७५. ॐ जितसर्वाय नमः ।
८७६. ॐ पितामहाय नमः ॥ १११॥

८७७. ॐ अनपायाय नमः ।
८७८. ॐ अक्षयाय नमः ।
८७९. ॐ मुण्डिने नमः ।
८८०. ॐ सुरूपाय नमः ।
८८१. ॐ रूपवर्जिताय नमः ।
८८२. ॐ अतीन्द्रियाय नमः ।
८८३. ॐ महामायाय नमः ।
८८४. ॐ मायाविने नमः ।
८८५. ॐ विगतज्वराय नमः ॥ ११२॥

८८६. ॐ अमृताय नमः ।
८८७. ॐ शाश्वताय शान्ताय नमः ।
८८८. ॐ मृत्युघ्ने नमः ।
८८९. ॐ मूकनाशनाय नमः ।
८९०. ॐ महाप्रेतासनासीनाय नमः ।
८९१. ॐ पिशाचानुचरावृताय नमः ॥ ११३॥

८९२. ॐ गौरीविलाससदनाय नमः ।
८९३. ॐ नानागानविशारदाय नमः ।
८९४. ॐ विचित्रमाल्यवसनाय नमः ।
८९५. ॐ दिव्यचन्दनचर्चिताय नमः ॥ ११४॥

८९६. ॐ विष्णुब्रह्मादिवन्द्यांघ्रये नमः ।
८९७. ॐ सुरासुरनमस्कृताय नमः ।
८९८. ॐ किरीटलेढिफालेन्दवे नमः ।
८९९. ॐ मणिकंकणभूषिताय नमः ॥ ११५॥

९००. ॐ रत्नांगदांगाय नमः ।
९०१. ॐ रत्नेशाय नमः ।
९०२. ॐ रत्नरञ्जितपादुकाय नमः ।
९०३. ॐ नवरत्नगणोपेतकिरीटिने नमः ।
९०४. ॐ रत्नकञ्चुकाय नमः ॥ ११६॥

९०५. ॐ नानाविधानेकरत्नलसत्कुण्डलमण्डिताय नमः ।
९०६. ॐ दिव्यरत्नगणाकीर्णकण्ठाभरणभूषिताय नमः ॥ ११७॥

९०७. ॐ गलव्यालमणये नमः ।
९०८. ॐ नासापुटभ्राजितमौक्तिकाय नमः ।
९०९. ॐ रत्नांगुलीयविलसत्करशाखानखप्रभाय नमः ॥ ११८॥

९१०. ॐ रत्नभ्राजद्धेमसूत्रलसत्कटितटाय नमः ।
९११. ॐ पटवे नमः ।
९१२. ॐ वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियाय नमः ॥ ११९॥

९१३. ॐ लीलावलंबितवपुषे नमः ।
९१४. ॐ भक्तमानसमन्दिराय नमः ।
९१५. ॐ मन्दमन्दारपुष्पौघलसद्वायुनिषेविताय नमः ॥ १२०॥

९१६. ॐ कस्तूरीविलसत्फालाय नमः ।
९१७. ॐ दिव्यवेषविराजिताय नमः ।
९१८. ॐ दिव्यदेहप्रभाकूटसन्दीपितदिगन्तराय नमः ॥ १२१॥

९१९. ॐ देवासुरगुरुस्तव्याय नमः ।
९२०. ॐ देवासुरनमस्कृताय नमः ।
९२१. ॐ हस्तराजत्पुण्डरीकाय नमः ।
९२२. ॐ पुण्डरीकनिभेक्षणाय नमः ॥ १२२॥

९२३. ॐ सर्वाशास्यगुणाय नमः ।
९२४. ॐ अमेयाय नमः ।
९२५. ॐ सर्वलोकेष्टभूषणाय नमः ।
९२६. ॐ सर्वेष्टदात्रे नमः ।
९२७. ॐ सर्वेष्टाय नमः ।
९२८. ॐ स्फुरन्मङ्गलविग्रहाय नमः ॥ १२३॥

९२९. ॐ अविद्यालेशरहिताय नमः ।
९३०. ॐ नानाविद्यैकसंश्रयाय नमः ।
९३१. ॐ मूर्तिभवाय नमः ।
९३२. ॐ कृपापूराय नमः ।
९३३. ॐ भक्तेष्टफलपूरकाय नमः ॥ १२४॥

९३४. ॐ सम्पूर्णकामाय नमः ।
९३५. ॐ सौभाग्यनिधये नमः ।
९३६. ॐ सौभाग्यदायकाय नमः ।
९३७. ॐ हितैषिणे नमः ।
९३८. ॐ हितकृते नमः ।
९३९. ॐ सौम्याय नमः ।
९४०. ॐ परार्थैकप्रयोजनाय नमः ॥ १२५॥

९४१. ॐ शरणागतदीनार्तपरित्राणपरायणाय नमः ।
९४२. ॐ जिष्णवे नमः ।
९४३. ॐ नेत्रे नमः ।
९४४. ॐ वषट्काराय नमः ।
९४५. ॐ भ्राजिष्णवे नमः ।
९४६. ॐ भोजनाय नमः ।
९४७. ॐ हविषे नमः ॥ १२६॥

९४८. ॐ भोक्त्रे नमः ।
९४९. ॐ भोजयित्रे नमः ।
९५०. ॐ जेत्रे नमः ।
९५१. ॐ जितारये नमः ।
९५२. ॐ जितमानसाय नमः ।
९५३. ॐ अक्षराय नमः ।
९५४. ॐ कारणाय नमः ।
९५५. ॐ क्रुद्धसमराय नमः ।
९५६. ॐ शारदप्लवाय नमः ॥ १२७॥

९५७. ॐ आज्ञापकेच्छाय नमः ।
९५८. ॐ गम्भीराय नमः ।
९५९. ॐ कवये नमः ।
९६०. ॐ दुःस्वप्ननाशकाय नमः ।
९६१. ॐ पञ्चब्रह्मसमुत्पत्तये नमः ।
९६२. ॐ क्षेत्रज्ञाय नमः ।
९६३. ॐ क्षेत्रपालकाय नमः ॥ १२८॥

९६४. ॐ व्योमकेशाय नमः ।
९६५. ॐ भीमवेषाय नमः ।
९६६. ॐ गौरीपतये नमः ।
९६७. ॐ अनामयाय नमः ।
९६८. ॐ भवाब्धितरणोपायाय नमः ।
९६९. ॐ भगवते नमः ।
९७०. ॐ भक्तवत्सलाय नमः ॥ १२९॥

९७१. ॐ वराय नमः ।
९७२. ॐ वरिष्ठाय नमः ।
९७३. ॐ नेदिष्ठाय नमः ।
९७४. ॐ प्रियाय नमः ।
९७५. ॐ प्रियदवाय नमः ।
९७६. ॐ सुधिये नमः ।
९७७. ॐ यन्त्रे नमः ।
९७८. ॐ यविष्ठाय नमः ।
९७९. ॐ क्षोदिष्ठाय नमः ।
९८०. ॐ स्थविष्ठाय नमः ।
९८१. ॐ यमशासकाय नमः ॥ १३०॥

९८२. ॐ हिरण्यगर्भाय नमः ।
९८३. ॐ हेमांगाय नमः ।
९८४. ॐ हेमरूपाय नमः ।
९८५. ॐ हिरण्यदाय नमः ।
९८६. ॐ ब्रह्मज्योतिषे नमः ।
९८७. ॐ अनावेक्ष्याय नमः ।
९८८. ॐ चामुण्डाजनकाय नमः ।
९८९. ॐ रवये नमः ॥ १३१॥

९९०. ॐ मोक्षार्थिजनसंसेव्याय नमः ।
९९१. ॐ मोक्षदाय नमः ।
९९२. ॐ मोक्षनायकाय नमः ।
९९३. ॐ महाश्मशाननिलयाय नमः ।
९९४. ॐ वेदाश्वाय नमः ।
९९५. ॐ भूरथाय नमः ।
९९६. ॐ स्थिराय नमः ॥ १३२॥

९९७. ॐ मृगव्याधाय नमः ।
९९८. ॐ चर्मधाम्ने नमः ।
९९९. ॐ प्रच्छन्नाय नमः ।
१०००. ॐ स्फटिकप्रभाय नमः ।
१००१. ॐ सर्वज्ञाय नमः ।
१००२. ॐ परमार्थात्मने नमः ।
१००३. ॐ ब्रह्मानन्दाश्रयाय नमः ।
१००४. ॐ विभवे नमः ॥ १३३॥

१००५. ॐ महेश्वराय नमः ।
१००६. ॐ महादेवाय नमः ।
१००७. ॐ परब्रह्मणे नमः ।
१००८. ॐ सदाशिवाय नमः ॥ १३४॥

श्रीशिवसहस्रनामावली

॥ श्रीशिवसहस्रनामावली ॥

ॐ स्थिराय नमः ।
ॐ स्थाणवे नमः ।
ॐ प्रभवे नमः ।
ॐ भीमाय नमः ।
ॐ प्रवराय नमः ।
ॐ वरदाय नमः ।
ॐ वराय नमः ।
ॐ सर्वात्मने नमः ।
ॐ सर्वविख्याताय नमः ।
ॐ सर्वस्मै नमः । १०।
ॐ सर्वकराय नमः ।
ॐ भवाय नमः ।
ॐ जटिने नमः ।
ॐ चर्मिणे नमः ।
ॐ शिखण्डिने नमः ।
ॐ सर्वाङ्गाय नमः ।
ॐ सर्वभावनाय नमः ।
ॐ हराय नमः ।
ॐ हरिणाक्षाय नमः ।
ॐ सर्वभूतहराय नमः । २०।
ॐ प्रभवे नमः ।
ॐ प्रवृत्तये नमः ।
ॐ निवृत्तये नमः ।
ॐ नियताय नमः ।
ॐ शाश्वताय नमः ।
ॐ ध्रुवाय नमः ।
ॐ श्मशानवासिने नमः ।
ॐ भगवते नमः ।
ॐ खचराय नमः ।
ॐ गोचराय नमः । ३०।
ॐ अर्दनाय नमः ।
ॐ अभिवाद्याय नमः ।
ॐ महाकर्मणे नमः ।
ॐ तपस्विने नमः ।
ॐ भूतभावनाय नमः ।
ॐ उन्मत्तवेषप्रच्छन्नाय नमः ।
ॐ सर्वलोकप्रजापतये नमः ।
ॐ महारूपाय नमः ।
ॐ महाकायाय नमः ।
ॐ वृषरूपाय नमः । ४०।
ॐ महायशसे नमः ।
ॐ महात्मने नमः ।
ॐ सर्वभूतात्मने नमः ।
ॐ विश्वरूपाय नमः ।
ॐ महाहणवे नमः ।
ॐ लोकपालाय नमः ।
ॐ अन्तर्हितत्मने नमः ।
ॐ प्रसादाय नमः ।
ॐ हयगर्धभये नमः ।
ॐ पवित्राय नमः । ५०।
ॐ महते नमः ।
ॐनियमाय नमः ।
ॐ नियमाश्रिताय नमः ।
ॐ सर्वकर्मणे नमः ।
ॐ स्वयंभूताय नमः ।
ॐ आदये नमः ।
ॐ आदिकराय नमः ।
ॐ निधये नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ विशालाक्षाय नमः । ६०।
ॐ सोमाय नमः ।
ॐ नक्षत्रसाधकाय नमः ।
ॐ चन्द्राय नमः ।
ॐ सूर्याय नमः ।
ॐ शनये नमः ।
ॐ केतवे नमः ।
ॐ ग्रहाय नमः ।
ॐ ग्रहपतये नमः ।
ॐ वराय नमः ।
ॐ अत्रये नमः । ७०।
ॐ अत्र्या नमस्कर्त्रे नमः ।
ॐ मृगबाणार्पणाय नमः ।
ॐ अनघाय नमः ।
ॐ महातपसे नमः ।
ॐ घोरतपसे नमः ।
ॐ अदीनाय नमः ।
ॐ दीनसाधकाय नमः ।
ॐ संवत्सरकराय नमः ।
ॐ मन्त्राय नमः ।
ॐ प्रमाणाय नमः । ८०।
ॐ परमायतपसे नमः ।
ॐ योगिने नमः ।
ॐ योज्याय नमः ।
ॐ महाबीजाय नमः ।
ॐ महारेतसे नमः ।
ॐ महाबलाय नमः ।
ॐ सुवर्णरेतसे नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सुबीजाय नमः ।
ॐ बीजवाहनाय नमः । ९०।
ॐ दशबाहवे नमः ।
ॐ अनिमिशाय नमः ।
ॐ नीलकण्ठाय नमः ।
ॐ उमापतये नमः ।
ॐ विश्वरूपाय नमः ।
ॐ स्वयंश्रेष्ठाय नमः ।
ॐ बलवीराय नमः ।
ॐ अबलोगणाय नमः ।
ॐ गणकर्त्रे नमः ।
ॐ गणपतये नमः । १००।
ॐ दिग्वाससे नमः ।
ॐ कामाय नमः ।
ॐ मन्त्रविदे नमः ।
ॐ परमाय मन्त्राय नमः ।
ॐ सर्वभावकराय नमः ।
ॐ हराय नमः ।
ॐ कमण्डलुधराय नमः ।
ॐ धन्विने नमः ।
ॐ बाणहस्ताय नमः ।
ॐ कपालवते नमः । ११०।
ॐ अशनये नमः ।
ॐ शतघ्निने नमः ।
ॐ खड्गिने नमः ।
ॐ पट्टिशिने नमः ।
ॐ आयुधिने नमः ।
ॐ महते नमः ।
ॐ स्रुवहस्ताय नमः ।
ॐ सुरूपाय नमः ।
ॐ तेजसे नमः।
ॐ तेजस्कराय निधये नमः । १२०।
ॐ उष्णीषिणे नमः ।
ॐ सुवक्त्राय नमः ।
ॐ उदग्राय नमः ।
ॐ विनताय नमः ।
ॐ दीर्घाय नमः ।
ॐ हरिकेशाय नमः ।
ॐ सुतीर्थाय नमः ।
ॐ कृष्णाय नमः ।
ॐ शृगालरूपाय नमः ।
ॐ सिद्धार्थाय नमः । १३०।
ॐ मुण्डाय नमः ।
ॐ सर्वशुभङ्कराय नमः ।
ॐ अजाय नमः ।
ॐ बहुरूपाय नमः ।
ॐ गन्धधारिणे नमः ।
ॐ कपर्दिने नमः ।
ॐ उर्ध्वरेतसे नमः ।
ॐ ऊर्ध्वलिङ्गाय नमः ।
ॐ ऊर्ध्वशायिने नमः ।
ॐ नभस्थलाय नमः । १४०।
ॐ त्रिजटिने नमः ।
ॐ चीरवाससे नमः ।
ॐ रुद्राय नमः ।
ॐ सेनापतये नमः ।
ॐ विभवे नमः ।
ॐ अहश्चराय नमः ।
ॐ नक्तंचराय नमः ।
ॐ तिग्ममन्यवे नमः ।
ॐ सुवर्चसाय नमः ।
ॐ गजघ्ने नमः । १५०।
ॐ दैत्यघ्ने नमः ।
ॐ कालाय नमः ।
ॐ लोकधात्रे नमः ।
ॐ गुणाकराय नमः ।
ॐ सिंहशार्दूलरूपाय नमः ।
ॐ आर्द्रचर्माम्बरावृताय नमः ।
ॐ कालयोगिने नमः ।
ॐ महानादाय नमः ।
ॐ सर्वकामाय नमः ।
ॐ चतुष्पथाय नमः । १६०।
ॐ निशाचराय नमः ।
ॐ प्रेतचारिणे नमः ।
ॐ भूतचारिणे नमः ।
ॐ महेश्वराय नमः ।
ॐ बहुभूताय नमः ।
ॐ बहुधराय नमः ।
ॐ स्वर्भानवे नमः ।
ॐ अमिताय नमः ।
ॐ गतये नमः ।
ॐ नृत्यप्रियाय नमः । १७०।
ॐ नित्यनर्ताय नमः ।
ॐ नर्तकाय नमः ।
ॐ सर्वलालसाय नमः ।
ॐ घोराय नमः ।
ॐ महातपसे नमः ।
ॐ पाशाय नमः ।
ॐ नित्याय नमः ।
ॐ गिरिरुहाय नमः ।
ॐ नभसे नमः ।
ॐ सहस्रहस्ताय नमः । १८०।
ॐ विजयाय नमः ।
ॐ व्यवसायाय नमः ।
ॐ अतन्द्रिताय नमः ।
ॐ अधर्षणाय नमः ।
ॐ धर्षणात्मने नमः ।
ॐ यज्ञघ्ने नमः ।
ॐ कामनाशकाय नमः ।
ॐ दक्ष्यागपहारिणे नमः ।
ॐ सुसहाय नमः ।
ॐ मध्यमाय नमः । १९०।
ॐ तेजोपहारिणे नमः ।
ॐ बलघ्ने नमः ।
ॐ मुदिताय नमः ।
ॐ अर्थाय नमः ।
ॐ अजिताय नमः ।
ॐ अवराय नमः ।
ॐ गम्भीरघोषय नमः ।
ॐ गम्भीराय नमः ।
ॐ गम्भीरबलवाहनाय नमः ।
ॐ न्यग्रोधरूपाय नमः । २००।
ॐ न्यग्रोधाय नमः ।
ॐ वृक्षकर्णस्थिताय नमः ।
ॐ विभवे नमः ।
ॐ सुतीक्ष्णदशनाय नमः ।
ॐ महाकायाय नमः ।
ॐ महाननाय नमः ।
ॐ विश्वक्सेनाय नमः ।
ॐ हरये नमः ।
ॐ यज्ञाय नमः ।
ॐ संयुगापीडवाहनाय नमः । २१०।
ॐ तीक्षणातापाय नमः ।
ॐ हर्यश्वाय नमः ।
ॐ सहायाय नमः ।
ॐ कर्मकालविदे नमः ।
ॐ विष्णुप्रसादिताय नमः ।
ॐ यज्ञाय नमः ।
ॐ समुद्राय नमः ।
ॐ बडवामुखाय नमः ।
ॐ हुताशनसहायाय नमः ।
ॐ प्रशान्तात्मने नमः । २२०।
ॐ हुताशनाय नमः ।
ॐ उग्रतेजसे नमः ।
ॐ महातेजसे नमः ।
ॐ जन्याय नमः ।
ॐ विजयकालविदे नमः ।
ॐ ज्योतिषामयनाय नमः ।
ॐ सिद्धये नमः ।
ॐ सर्वविग्रहाय नमः ।
ॐ शिखिने नमः ।
ॐ मुण्डिने नमः । २३०।
ॐ जटिने नमः ।
ॐ ज्वलिने नमः ।
ॐ मूर्तिजाय नमः ।
ॐ मूर्धजाय नमः ।
ॐ बलिने नमः ।
ॐ वैनविने नमः ।
ॐ पणविने नमः ।
ॐ तालिने नमः ।
ॐ खलिने नमः ।
ॐ कालकटङ्कटाय नमः । २४०।
ॐ नक्षत्रविग्रहमतये नमः ।
ॐ गुणबुद्धये नमः ।
ॐ लयाय नमः ।
ॐ अगमाय नमः ।
ॐ प्रजापतये नमः ।
ॐ विश्वबाहवे नमः ।
ॐ विभागाय नमः ।
ॐ सर्वगाय नमः ।
ॐ अमुखाय नमः ।
ॐ विमोचनाय नमः । २५०।
ॐ सुसरणाय नमः ।
ॐ हिरण्यकवचोद्भवाय नमः ।
ॐ मेढ्रजाय नमः ।
ॐ बलचारिणे नमः ।
ॐ महीचारिणे नमः ।
ॐ स्रुताय नमः ।
ॐ सर्वतूर्यविनोदिने नमः ।
ॐ सर्वतोद्यपरिग्रहाय नमः ।
ॐ व्यालरूपाय नमः ।
ॐ गुहावासिने नमः । २६०।
ॐ गुहाय नमः ।
ॐ मालिने नमः ।
ॐ तरङ्गविदे नमः ।
ॐ त्रिदशाय नमः ।
ॐ त्रिकालधृते नमः ।
ॐ कर्मसर्वबन्धविमोचनाय नमः ।
ॐ असुरेन्द्राणांबन्धनाय नमः ।
ॐ युधि शत्रुविनाशनाय नमः ।
ॐ साङ्ख्यप्रसादाय नमः ।
ॐ दुर्वाससे नमः । २७०।
ॐ सर्वसाधिनिषेविताय नमः ।
ॐ प्रस्कन्दनाय नमः ।
ॐ यज्ञविभागविदे नमः ।
ॐ अतुल्याय नमः ।
ॐ यज्ञविभागविदे नमः  ।
ॐ सर्ववासाय नमः ।
ॐ सर्वचारिणे नमः ।
ॐ दुर्वाससे नमः ।
ॐ वासवाय नमः ।
ॐ अमराय नमः । २८०।
ॐ हैमाय नमः ।
ॐ हेमकराय नमः ।
ॐ निष्कर्माय नमः ।
ॐ सर्वधारिणे नमः ।
ॐ धरोत्तमाय नमः ।
ॐ लोहिताक्षाय नमः ।
ॐ माक्षाय नमः ।
ॐ विजयक्षाय नमः ।
ॐ विशारदाय नमः ।
ॐ संग्रहाय नमः । २९०।
ॐ निग्रहाय नमः ।
ॐ कर्त्रे नमः ।
ॐ सर्पचीरनिवासनाय नमः ।
ॐ मुख्याय नमः ।
ॐ अमुख्याय नमः ।
ॐ देहाय नमः ।
ॐ काहलये नमः ।
ॐ सर्वकामदाय नमः ।
ॐ सर्वकालप्रसादये नमः ।
ॐ सुबलाय नमः । ३००।
ॐ बलरूपधृते नमः ।
ॐ सर्वकामवराय नमः ।
ॐ सर्वदाय नमः ।
ॐ सर्वतोमुखाय नमः ।
ॐ आकाशनिर्विरूपाय नमः ।
ॐ निपातिने नमः ।
ॐ अवशाय नमः ।
ॐ खगाय नमः ।
ॐ रौद्ररूपाय नमः ।
ॐ अंशवे नमः । ३१०।
ॐ आदित्याय नमः ।
ॐ बहुरश्मये नमः ।
ॐ सुवर्चसिने नमः ।
ॐ वसुवेगाय नमः ।
ॐ महावेगाय नमः ।
ॐ मनोवेगाय नमः ।
ॐ निशाचराय नमः ।
ॐ सर्ववासिने नमः ।
ॐ श्रियावासिने नमः ।
ॐ उपदेशकराय नमः । ३२०।
ॐ अकराय नमः ।
ॐ मुनये नमः ।
ॐ आत्मनिरालोकाय नमः ।
ॐ सम्भग्नाय नमः ।
ॐ सहस्रदाय नमः ।
ॐ पक्षिणे नमः ।
ॐ पक्षरूपाय नमः ।
ॐ अतिदीप्ताय नमः ।
ॐ विशाम्पतये नमः ।
ॐ उन्मादाय नमः । ३३०।
ॐ मदनाय नमः ।
ॐ कामाय नमः ।
ॐ अश्वत्थाय नमः ।
ॐ अर्थकराय नमः ।
ॐ यशसे नमः ।
ॐ वामदेवाय नमः ।
ॐ वामाय नमः ।
ॐ प्राचे नमः ।
ॐ दक्षिणाय नमः ।
ॐ वामनाय नमः । ३४०।
ॐ सिद्धयोगिने नमः ।
ॐ महर्शये नमः ।
ॐ सिद्धार्थाय नमः ।
ॐ सिद्धसाधकाय नमः ।
ॐ भिक्षवे नमः ।
ॐ भिक्षुरूपाय नमः ।
ॐ विपणाय नमः ।
ॐ मृदवे नमः ।
ॐ अव्ययाय नमः ।
ॐ महासेनाय नमः । ३५०।
ॐ विशाखाय नमः ।
ॐ षष्टिभागाय नमः ।
ॐ गवां पतये नमः ।
ॐ वज्रहस्ताय नमः ।
ॐ विष्कम्भिने नमः ।
ॐ चमूस्तम्भनाय नमः ।
ॐ वृत्तावृत्तकराय नमः ।
ॐ तालाय नमः ।
ॐ मधवे नमः ।
ॐ मधुकलोचनाय नमः । ३६०।
ॐ वाचस्पत्याय नमः ।
ॐ वाजसेनाय नमः ।
ॐ नित्यमाश्रितपूजिताय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ लोकचारिणे नमः ।
ॐ सर्वचारिणे नमः ।
ॐ विचारविदे नमः ।
ॐ ईशानाय नमः ।
ॐ ईश्वराय नमः ।
ॐ कालाय नमः । ३७०।
ॐ निशाचारिणे नमः ।
ॐ पिनाकभृते नमः ।
ॐ निमित्तस्थाय नमः ।
ॐ निमित्ताय नमः ।
ॐ नन्दये नमः ।
ॐ नन्दिकराय नमः ।
ॐ हरये नमः ।
ॐ नन्दीश्वराय नमः ।
ॐ नन्दिने नमः ।
ॐ नन्दनाय नमः । ३८०।
ॐ नन्दिवर्धनाय नमः ।
ॐ भगहारिणे नमः ।
ॐ निहन्त्रे नमः ।
ॐ कलाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ पितामहाय नमः ।
ॐ चतुर्मुखाय नमः ।
ॐ महालिङ्गाय नमः ।
ॐ चारुलिङ्गाय नमः ।
ॐ लिङ्गाध्याक्षाय नमः । ३९०।
ॐ सुराध्यक्षाय नमः ।
ॐ योगाध्यक्षाय नमः ।
ॐ युगावहाय नमः ।
ॐ बीजाध्यक्षाय नमः ।
ॐ बीजकर्त्रे नमः ।
ॐ अध्यात्मानुगताय नमः ।
ॐ बलाय नमः ।
ॐ इतिहासाय नमः ।
ॐ सकल्पाय नमः ।
ॐ गौतमाय नमः । ४००।
ॐ निशाकराय नमः ।
ॐ दम्भाय नमः ।
ॐ अदम्भाय नमः ।
ॐ वैदम्भाय नमः ।
ॐ वश्याय नमः ।
ॐ वशकराय नमः ।
ॐ कलये नमः ।
ॐ लोककर्त्रे नमः ।
ॐ पशुपतये नमः ।
ॐ महाकर्त्रे नमः । ४१०।
ॐ अनौषधाय नमः ।
ॐ अक्षराय नमः ।
ॐ परमाय ब्रह्मणे नमः ।
ॐ बलवते नमः ।
ॐ शक्राय नमः ।
ॐ नित्यै नमः ।
ॐ अनित्यै नमः ।
ॐ शुद्धात्मने नमः ।
ॐ शुद्धाय नमः ।
ॐ मान्याय नमः । ४२०।
ॐ गतागताय नमः ।
ॐ बहुप्रसादाय नमः ।
ॐ सुस्वप्नाय नमः ।
ॐ दर्पणाय नमः ।
ॐ अमित्रजिते नमः ।
ॐ वेदकाराय नमः ।
ॐ मन्त्रकाराय नमः ।
ॐ विदुषे नमः ।
ॐ समरमर्दनाय नमः ।
ॐ महामेघनिवासिने नमः । ४३०।
ॐ महाघोराय नमः ।
ॐ वशिने नमः ।
ॐ कराय नमः ।
ॐ अग्निज्वालाय नमः ।
ॐ महाज्वालाय नमः ।
ॐ अतिधूम्राय नमः ।
ॐ हुताय नमः ।
ॐ हविषे नमः ।
ॐ वृषणाय नमः ।
ॐ शङ्कराय नमः । ४४०।
ॐ नित्यं वर्चस्विने नमः ।
ॐ धूमकेतनाय नमः ।
ॐ नीलाय नमः ।
ॐ अङ्गलुब्धाय नमः ।
ॐ शोभनाय नमः ।
ॐ निरवग्रहाय नमः ।
ॐ स्वस्तिदाय नमः ।
ॐ स्वस्तिभावाय नमः ।
ॐ भागिने नमः ।
ॐ भागकराय नमः । ४५०।
ॐ लघवे नमः ।
ॐ उत्सङ्गाय नमः ।
ॐ महाङ्गाय नमः ।
ॐ महागर्भपरायणाय नमः ।
ॐ कृष्णवर्णाय नमः ।
ॐ सुवर्णाय नमः ।
ॐ सर्वदेहिनां इन्द्रियाय नमः ।
ॐ महापादाय नमः ।
ॐ महाहस्ताय नमः ।
ॐ महाकायाय नमः । ४६०।
ॐ महायशसे नमः ।
ॐ महामूर्ध्ने नमः ।
ॐ महामात्राय नमः ।
ॐ महानेत्राय नमः ।
ॐ निशालयाय नमः ।
ॐ महान्तकाय नमः ।
ॐ महाकर्णाय नमः ।
ॐ महोष्ठाय नमः ।
ॐ महाहणवे नमः ।
ॐ महानासाय नमः । ४७०।
ॐ महाकम्बवे नमः ।
ॐ महाग्रीवाय नमः ।
ॐ श्मशानभाजे नमः ।
ॐ महावक्षसे नमः ।
ॐ महोरस्काय नमः ।
ॐ अन्तरात्मने नमः ।
ॐ मृगालयाय नमः ।
ॐ लम्बनाय नमः ।
ॐ लम्बितोष्ठाय नमः ।
ॐ महामायाय नमः । ४८०।
ॐ पयोनिधये नमः ।
ॐ महादन्ताय नमः ।
ॐ महादंष्ट्राय नमः ।
ॐ महजिह्वाय नमः ।
ॐ महामुखाय नमः ।
ॐ महानखाय नमः ।
ॐ महारोमाय नमः ।
ॐ महाकोशाय नमः ।
ॐ महाजटाय नमः ।
ॐ प्रसन्नाय नमः । ४९०।
ॐ प्रसादाय नमः ।
ॐ प्रत्ययाय नमः ।
ॐ गिरिसाधनाय नमः ।
ॐ स्नेहनाय नमः ।
ॐ अस्नेहनाय नमः ।
ॐ अजिताय नमः ।
ॐ महामुनये नमः ।
ॐ वृक्षाकाराय नमः ।
ॐ वृक्षकेतवे नमः ।
ॐ अनलाय नमः । ५००।
ॐ वायुवाहनाय नमः ।
ॐ गण्डलिने नमः ।
ॐ मेरुधाम्ने नमः ।
ॐ देवाधिपतये नमः ।
ॐ अथर्वशीर्षाय नमः ।
ॐ सामास्याय नमः ।
ॐ ऋक्सहस्रामितेक्षणाय नमः ।
ॐ यजुः पाद भुजाय नमः ।
ॐ गुह्याय नमः ।
ॐ प्रकाशाय नमः । ५१०।
ॐ जङ्गमाय नमः ।
ॐ अमोघार्थाय नमः ।
ॐ प्रसादाय नमः ।
ॐ अभिगम्याय नमः ।
ॐ सुदर्शनाय नमः ।
ॐ उपकाराय नमः ।
ॐ प्रियाय नमः ।
ॐ सर्वाय नमः ।
ॐ कनकाय नमः ।
ॐ कञ्चनच्छवये नमः । ५२०।
ॐ नाभये नमः ।
ॐ नन्दिकराय नमः ।
ॐ भावाय नमः ।
ॐ पुष्करस्थापतये नमः ।
ॐ स्थिराय नमः ।
ॐ द्वादशाय नमः ।
ॐ त्रासनाय नमः ।
ॐ आद्याय नमः ।
ॐ यज्ञाय नमः ।
ॐ यज्ञसमाहिताय नमः । ५३०।
ॐ नक्तं नमः ।
ॐ कलये नमः ।
ॐ कालाय नमः ।
ॐ मकराय नमः ।
ॐ कालपूजिताय नमः ।
ॐ सगणाय नमः ।
ॐ गणकाराय नमः ।
ॐ भूतवाहनसारथये नमः ।
ॐ भस्मशयाय नमः ।
ॐ भस्मगोप्त्रे नमः । ५४०।
ॐ भस्मभूताय नमः ।
ॐ तरवे नमः ।
ॐ गणाय नमः ।
ॐ लोकपालाय नमः ।
ॐ अलोकाय नमः ।
ॐ महात्मने नमः ।
ॐ सर्वपूजिताय नमः ।
ॐ शुक्लाय नमः ।
ॐ त्रिशुक्लाय नमः ।
ॐ सम्पन्नाय नमः । ५५०।
ॐ शुचये नमः ।
ॐ भूतनिषेविताय नमः ।
ॐ आश्रमस्थाय नमः ।
ॐ क्रियावस्थाय नमः ।
ॐ विश्वकर्ममतये नमः ।
ॐ वराय नमः ।
ॐ विशालशाखाय नमः ।
ॐ ताम्रोष्ठाय नमः ।
ॐ अम्बुजालाय नमः ।
ॐ सुनिश्चलाय नमः । ५६०।
ॐ कपिलाय नमः ।
ॐ कपिशाय नमः ।
ॐ शुक्लाय नमः ।
ॐ अयुशे नमः ।
ॐ पराय नमः ।
ॐ अपराय नमः ।
ॐ गन्धर्वाय नमः ।
ॐ अदितये नमः ।
ॐ तार्क्ष्याय नमः ।
ॐ सुविज्ञेयाय नमः । ५७०।
ॐ सुशारदाय नमः ।
ॐ परश्वधायुधाय नमः ।
ॐ देवाय नमः ।
ॐ अनुकारिणे नमः ।
ॐ सुबान्धवाय नमः ।
ॐ तुम्बवीणाय नमः ।
ॐ महाक्रोधाया नमः ।
ॐ ऊर्ध्वरेतसे नमः ।
ॐ जलेशयाय नमः ।
ॐ उग्राय नमः । ५८०।
ॐ वशङ्कराय नमः ।
ॐ वंशाय नमः ।
ॐ वंशनादाय नमः ।
ॐ अनिन्दिताय नमः ।
ॐ सर्वाङ्गरूपाय नमः ।
ॐ मायाविने नमः ।
ॐ सुहृदाय नमः ।
ॐ अनिलाय नमः ।
ॐ अनलाय नमः ।
ॐ बन्धनाय नमः । ५९०।
ॐ बन्धकर्त्रे नमः ।
ॐ सुबन्धनविमोचनाय नमः ।
ॐ सयज्ञारये नमः ।
ॐ सकामारये नमः ।
ॐ महादंश्ट्राय नमः ।
ॐ महायुधाय नमः ।
ॐ बहुधानिन्दिताय नमः ।
ॐ शर्वाय नमः ।
ॐ शङ्कराय नमः ।
ॐ शङ्कराय नमः । ६००।
ॐ अधनाय नमः ।
ॐ अमरेशाय नमः ।
ॐ महादेवाय नमः ।
ॐ विश्वदेवाय नमः ।
ॐ सुरारिघ्ने नमः ।
ॐ अहिर्बुध्न्याय नमः ।
ॐ अनिलाभाय नमः ।
ॐ चेकितानाय नमः ।
ॐ हविषे नमः ।
ॐ अजैकपाते नमः । ६१०।
ॐ कापालिने नमः ।
ॐ त्रिशङ्कवे नमः ।
ॐ अजिताय नमः ।
ॐ शिवाय नमः ।
ॐ धन्वन्तरये नमः ।
ॐ धूमकेतवे नमः ।
ॐ स्कन्दाय नमः ।
ॐ वैश्रवणाय नमः ।
ॐ धात्रे नमः ।
ॐ शक्राय नमः । ६२०।
ॐ विष्णवे नमः ।
ॐ मित्राय नमः ।
ॐ त्वष्ट्रे नमः ।
ॐ धृवाय नमः ।
ॐ धराय नमः ।
ॐ प्रभावाय नमः ।
ॐ सर्वगाय वायवे नमः ।
ॐ अर्यम्ने नमः ।
ॐ सवित्रे नमः ।
ॐ रवये नमः । ६३०।
ॐ उषङ्गवे नमः ।
ॐ विधात्रे नमः ।
ॐ मान्धात्रे नमः ।
ॐ भूतभावनाय नमः ।
ॐ विभवे नमः ।
ॐ वर्णविभाविने नमः ।
ॐ सर्वकामगुणावहाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ महागर्भाय नमः ।
ॐ चन्द्रवक्त्राय नमः । ६४०।
ॐ अनिलाय नमः ।
ॐ अनलाय नमः ।
ॐ बलवते नमः ।
ॐ उपशान्ताय नमः ।
ॐ पुराणाय नमः ।
ॐ पुण्यचञ्चवे नमः ।
ॐ ये नमः ।
ॐ कुरुकर्त्रे नमः ।
ॐ कुरुवासिने नमः ।
ॐ कुरुभूताय नमः । ६५०।
ॐ गुणौषधाय नमः ।
ॐ सर्वाशयाय नमः ।
ॐ दर्भचारिणे नमः ।
ॐ सर्वेषं प्राणिनां पतये नमः ।
ॐ देवदेवाय नमः ।
ॐ सुखासक्ताय नमः ।
ॐ सते नमः ।
ॐ असते नमः ।
ॐ सर्वरत्नविदे नमः ।
ॐ कैलासगिरिवासिने नमः । ६६०।
ॐ हिमवद्गिरिसंश्रयाय नमः ।
ॐ कूलहारिणे नमः ।
ॐ कुलकर्त्रे नमः ।
ॐ बहुविद्याय नमः ।
ॐ बहुप्रदाय नमः ।
ॐ वणिजाय नमः ।
ॐ वर्धकिने नमः ।
ॐ वृक्षाय नमः ।
ॐ वकिलाय नमः ।
ॐ चन्दनाय नमः । ६७०।
ॐ छदाय नमः ।
ॐ सारग्रीवाय नमः ।
ॐ महाजत्रवे नमः ।
ॐ अलोलाय नमः ।
ॐ महौषधाय नमः ।
ॐ सिद्धार्थकारिणे नमः ।
ॐ सिद्धार्थश्छन्दोव्याकरणोत्तराय नमः ।
ॐ सिंहनादाय नमः ।
ॐ सिंहदंष्ट्राय नमः ।
ॐ सिंहगाय नमः । ६८०।
ॐ सिंहवाहनाय नमः ।
ॐ प्रभावात्मने नमः ।
ॐ जगत्कालस्थालाय नमः ।
ॐ लोकहिताय नमः ।
ॐ तरवे नमः ।
ॐ सारङ्गाय नमः ।
ॐ नवचक्राङ्गाय नमः ।
ॐ केतुमालिने नमः ।
ॐ सभावनाय नमः ।
ॐ भूतालयाय नमः । ६९०।
ॐ भूतपतये नमः ।
ॐ अहोरात्राय नमः ।
ॐ अनिन्दिताय नमः ।
ॐ सर्वभूतानां वाहित्रे नमः ।
ॐ निलयाय नमः ।
ॐ विभवे नमः ।
ॐ भवाय नमः ।
ॐ अमोघाय नमः ।
ॐ संयताय नमः ।
ॐ अश्वाय नमः । ७००।
ॐ भोजनाय नमः ।
ॐ प्राणधारणाय नमः ।
ॐ धृतिमते नमः ।
ॐ मतिमते नमः ।
ॐ दक्षाय नमः ।
ॐ सत्कृताय नमः ।
ॐ युगाधिपाय नमः ।
ॐ गोपालये नमः ।
ॐ गोपतये नमः ।
ॐ ग्रामाय नमः ।
ॐ गोचर्मवसनाय नमः ।
ॐ हरये नमः ।
ॐ हिरण्यबाहवे नमः ।
ॐ प्रवेशिनां गुहापालाय नमः ।
ॐ प्रकृष्टारये नमः ।
ॐ महाहर्शाय नमः ।
ॐ जितकामाय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ गान्धाराय नमः ।
ॐ सुवासाय नमः । ७२०।
ॐ तपस्सक्ताय नमः ।
ॐ रतये नमः ।
ॐ नराय नमः ।
ॐ महागीताय नमः ।
ॐ महानृत्याय नमः ।
ॐ अप्सरोगणसेविताय नमः ।
ॐ महाकेतवे नमः ।
ॐ महाधातवे नमः ।
ॐ नैकसानुचराय नमः ।
ॐ चलाय नमः । ७३०।
ॐ आवेदनीयाय नमः ।
ॐ आदेशाय नमः ।
ॐ सर्वगन्धसुखाहवाय नमः ।
ॐ तोरणाय नमः ।
ॐ तारणाय नमः ।
ॐ वाताय नमः ।
ॐ परिधीने नमः ।
ॐ पतिखेचराय नमः ।
ॐ संयोगाय वर्धनाय नमः ।
ॐ वृद्धाय नमः । ७४०।
ॐ अतिवृद्धाय नमः ।
ॐ गुणाधिकाय नमः ।
ॐ नित्यमात्मसहायाय नमः ।
ॐ देवासुरपतये नमः ।
ॐ पतये नमः ।
ॐ युक्ताय नमः ।
ॐ युक्तबाहवे नमः ।
ॐ दिविसुपर्णोदेवाय नमः ।
ॐ आषाढाय नमः ।
ॐ सुषाढाय नमः । ७५०।
ॐ ध्रुवाय नमः ।
ॐ हरिणाय नमः ।
ॐ हराय नमः ।
ॐ आवर्तमानेभ्योवपुषे नमः ।
ॐ वसुश्रेष्ठाय नमः ।
ॐ महापथाय नमः ।
ॐ शिरोहारिणे नमः ।
ॐ सर्वलक्षणलक्षिताय नमः ।
ॐ अक्षाय रथयोगिने नमः ।
ॐ सर्वयोगिने नमः । ७६०।
ॐ महाबलाय नमः ।
ॐ समाम्नायाय नमः ।
ॐ अस्माम्नायाय नमः ।
ॐ तीर्थदेवाय नमः ।
ॐ महारथाय नमः ।
ॐ निर्जीवाय नमः ।
ॐ जीवनाय नमः ।
ॐ मन्त्राय नमः ।
ॐ शुभाक्षाय नमः ।
ॐ बहुकर्कशाय नमः । ७७०।
ॐ रत्नप्रभूताय नमः ।
ॐ रत्नाङ्गाय नमः ।
ॐ महार्णवनिपानविदे नमः ।
ॐ मूलाय नमः ।
ॐ विशालाय नमः ।
ॐ अमृताय नमः ।
ॐ व्यक्ताव्यक्ताय नमः ।
ॐ तपोनिधये नमः ।
ॐ आरोहणाय नमः ।
ॐ अधिरोहाय नमः । ७८०।
ॐ शीलधारिणे नमः ।
ॐ महायशसे नमः ।
ॐ सेनाकल्पाय नमः ।
ॐ महाकल्पाय नमः ।
ॐ योगाय नमः ।
ॐ युगकराय नमः ।
ॐ हरये नमः ।
ॐ युगरूपाय नमः ।
ॐ महारूपाय नमः ।
ॐ महानागहनाय नमः । ७९०।
ॐ वधाय नमः ।
ॐ न्यायनिर्वपणाय नमः ।
ॐ पादाय नमः ।
ॐ पण्डिताय नमः ।
ॐ अचलोपमाय नमः ।
ॐ बहुमालाय नमः ।
ॐ महामालाय नमः ।
ॐ शशिने हरसुलोचनाय नमः ।
ॐ विस्ताराय लवणाय कूपाय नमः ।
ॐ त्रियुगाय नमः । ८००।
ॐ सफलोदयाय नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ विषण्णाङ्गाय नमः ।
ॐ मणिविद्धाय नमः ।
ॐ जटाधराय नमः ।
ॐ बिन्दवे नमः ।
ॐ विसर्गाय नमः ।
ॐ सुमुखाय नमः ।
ॐ शराय नमः ।
ॐ सर्वायुधाय नमः । ८१०।
ॐ सहाय नमः ।
ॐ निवेदनाय नमः ।
ॐ सुखाजाताय नमः ।
ॐ सुगन्धाराय नमः ।
ॐ महाधनुषे नमः ।
ॐ गन्धपालिने भगवते नमः ।
ॐ सर्वकर्मणां उत्थानाय नमः ।
ॐ मन्थानाय बहुलवायवे नमः ।
ॐ सकलाय नमः ।
ॐ सर्वलोचनाय नमः । ८२०।
ॐ तलस्तालाय नमः ।
ॐ करस्थालिने नमः ।
ॐ ऊर्ध्वसंहननाय नमः ।
ॐ महते नमः ।
ॐ छत्राय नमः ।
ॐ सुछत्राय नमः ।
ॐ विरव्यातलोकाय नमः ।
ॐ सर्वाश्रयाय क्रमाय नमः ।
ॐ मुण्डाय नमः ।
ॐ विरूपाय नमः । ८३०।
ॐ विकृताय नमः ।
ॐ दण्डिने नमः ।
ॐ कुण्डिने नमः ।
ॐ विकुर्वणाय नमः ।
ॐ हर्यक्षाय नमः ।
ॐ ककुभाय नमः ।
ॐ वज्रिणे नमः ।
ॐ शतजिह्वाय नमः ।
ॐ सहस्रपादे नमः ।
ॐ सहस्रमुर्ध्ने नमः । ८४०।
ॐ देवेन्द्राय सर्वदेवमयाय नमः ।
ॐ गुरवे नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ सर्वाङ्गाय नमः ।
ॐ शरण्याय नमः ।
ॐ सर्वलोककृते नमः ।
ॐ पवित्राय नमः ।
ॐ त्रिककुडे मन्त्राय नमः ।
ॐ कनिष्ठाय नमः ।
ॐ कृष्णपिङ्गलाय नमः । ८५०।
ॐ ब्रह्मदण्डविनिर्मात्रे नमः ।
ॐ शतघ्नीपाश शक्तिमते नमः ।
ॐ पद्मगर्भाय नमः ।
ॐ महागर्भाय नमः ।
ॐ ब्रह्मगर्भाय नमः ।
ॐ जलोद्भवाय नमः ।
ॐ गभस्तये नमः ।
ॐ ब्रह्मकृते नमः ।
ॐ ब्रह्मिणे नमः ।
ॐ ब्रह्मविदे नमः । ८६०।
ॐ ब्राह्मणाय नमः ।
ॐ गतये नमः ।
ॐ अनन्तरूपाय नमः ।
ॐ नैकात्मने नमः ।
ॐ स्वयंभुव तिग्मतेजसे नमः ।
ॐ ऊर्ध्वगात्मने नमः ।
ॐ पशुपतये नमः ।
ॐ वातरंहाय नमः ।
ॐ मनोजवाय नमः ।
ॐ चन्दनिने नमः । ८७०।
ॐ पद्मनालाग्राय नमः ।
ॐ सुरभ्युत्तरणाय नमः ।
ॐ नराय नमः ।
ॐ कर्णिकारमहास्रग्विणे नमः ।
ॐ नीलमौलये नमः ।
ॐ पिनाकधृते नमः ।
ॐ उमापतये नमः ।
ॐ उमाकान्ताय नमः ।
ॐ जाह्नवीभृते नमः ।
ॐ उमाधवाय नमः ।
ॐ वराय वराहाय नमः ।
ॐ वरदाय नमः ।
ॐ वरेण्याय नमः ।
ॐ सुमहास्वनाय नमः ।
ॐ महाप्रसादाय नमः ।
ॐ दमनाय नमः ।
ॐ शत्रुघ्ने नमः ।
ॐ श्वेतपिङ्गलाय नमः ।
ॐ प्रीतात्मने नमः ।
ॐ परमात्मने नमः । ८९०।
ॐ प्रयतात्माने नमः ।
ॐ प्रधानधृते नमः ।
ॐ सर्वपार्श्वमुखाय नमः ।
ॐ त्र्यक्षाय नमः ।
ॐ धर्मसाधारणो वराय नमः ।
ॐ चराचरात्मने नमः ।
ॐ सूक्ष्मात्मने नमः ।
ॐ अमृताय गोवृषेश्वराय नमः ।
ॐ साध्यर्षये नमः ।
ॐ वसुरादित्याय नमः । ९००।
ॐ विवस्वते सवितामृताय नमः ।
ॐ व्यासाय नमः ।
ॐ सर्गाय सुसंक्षेपाय विस्तराय नमः ।
ॐ पर्यायोनराय  नमः ।
ॐ ऋतवे नमः ।
ॐ संवत्सराय नमः ।
ॐ मासाय नमः ।
ॐ पक्षाय नमः ।
ॐ सङ्ख्यासमापनाय नमः ।
ॐ कलाभ्यो नमः । ९१०।
ॐ काष्ठाभ्यो नमः ।
ॐ लवेभ्यो नमः ।
ॐ मात्राभ्यो नमः ।
ॐ मुहूर्ताहः क्षपाभ्यो नमः ।
ॐ क्षणेभ्यो नमः ।
ॐ विश्वक्षेत्राय नमः ।
ॐ प्रजाबीजाय नमः ।
ॐ लिङ्गाय नमः ।
ॐ आद्याय निर्गमाय नमः ।
ॐ सते नमः । ९२०।
ॐ असते नमः ।
ॐ व्यक्ताय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ पित्रे नमः ।
ॐ मात्रे नमः ।
ॐ पितामहाय नमः ।
ॐ स्वर्गद्वाराय नमः ।
ॐ प्रजाद्वाराय नमः ।
ॐ मोक्षद्वाराय नमः ।
ॐ त्रिविष्टपाय नमः । ९३०।
ॐ निर्वाणाय नमः ।
ॐ ह्लादनाय नमः ।
ॐ ब्रह्मलोकाय नमः ।
ॐ परायै गत्यै नमः ।
ॐ देवासुर विनिर्मात्रे नमः ।
ॐ देवासुरपरायणाय नमः ।
ॐ देवासुरगुरवे नमः ।
ॐ देवाय नमः ।
ॐ देवासुर नमस्कृताय नमः ।
ॐ देवासुर महामात्राय नमः । ९४०।
ॐ देवासुर गणाश्रयाय नमः ।
ॐ देवासुरगणाध्यक्षाय नमः ।
ॐ देवासुर गणागृण्यै नमः ।
ॐ देवातिदेवाय नमः ।
ॐ देवर्शये नमः ।
ॐ देवासुरवरप्रदाय नमः ।
ॐ देवासुरेश्वराय नमः ।
ॐ विश्वाय नमः ।
ॐ देवासुरमहेश्वराय नमः ।
ॐ सर्वदेवमयाय नमः । ९५०।
ॐ अचिन्त्याय नमः ।
ॐ देवतात्मने नमः ।
ॐ आत्मसंभवाय नमः ।
ॐ उद्भिदे नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वैद्याय नमः ।
ॐ विरजाय नमः ।
ॐ नीरजाय नमः ।
ॐ अमराय नमः ।
ॐ ईड्याय नमः । ९६०।
ॐ हस्तीश्वराय नमः ।
ॐ व्यघ्राय नमः ।
ॐ देवसिंहाय नमः ।
ॐ नरऋषभाय नमः ।
ॐ विबुधाय नमः ।
ॐ अग्रवराय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ सर्वदेवाय नमः ।
ॐ तपोमयाय नमः ।
ॐ सुयुक्ताय नमः । ९७०।
ॐ शिभनाय नमः ।
ॐ वज्रिणे नमः ।
ॐ प्रासानां प्रभवाय नमः ।
ॐ अव्ययाय नमः ।
ॐ गुहाय नमः ।
ॐ कान्ताय नमः ।
ॐ निजाय सर्गाय नमः ।
ॐ पवित्राय नमः ।
ॐ सर्वपावनाय नमः ।
ॐ शृङ्गिणे नमः । ९८०।
ॐ शृङ्गप्रियाय नमः ।
ॐ बभ्रुवे नमः ।
ॐ राजराजाय नमः ।
ॐ निरामयाय नमः ।
ॐ अभिरामाय नमः ।
ॐ सुरगणाय नमः ।
ॐ विरामाय नमः ।
ॐ सर्वसाधनाय नमः ।
ॐ ललाटाक्षाय नमः ।
ॐ विश्वदेवाय नमः । ९९०।
ॐ हरिणाय नमः ।
ॐ ब्रह्मवर्चसाय नमः ।
ॐ स्थावराणां पतये नमः ।
ॐ नियमेन्द्रियवर्धनाय नमः ।
ॐ सिद्धार्थाय नमः ।
ॐ सिद्धभूतार्थाय नमः।
ॐ अचिन्त्याय नमः ।
ॐ सत्यव्रताय नमः ।
ॐ शुचये नमः ।
ॐ व्रताधिपाय नमः । १०००।
ॐ परस्मै नमः ।
ॐ ब्रह्मणे नमः ।
ॐ भक्तानां परमायै गतये नमः ।
ॐ विमुक्ताय नमः ।
ॐ मुक्ततेजसे नमः ।
ॐ श्रीमते नमः ।
ॐ श्रीवर्धनाय नमः ।
ॐ जगते नमः । १००८।
इति शिवसहस्रनामावलिः शिवार्पणम् ॥

॥ ॐ तत्सत् ॥

श्रीशिवरहस्यान्तर्गतं शिवसहस्रनामस्तोत्रम्

॥ श्रीशिवरहस्यान्तर्गतं शिवसहस्रनामस्तोत्रम् ॥

॥ शिवरहस्ये पञ्चमांशे चत्वारिंशोऽध्यायः ॥

देवी -
श्रुतं सुदर्शनाख्यानं त्वत्तो विस्मापनं मम ।
प्रदोषे पापिना तेन दृष्टश्चान्यार्चितः शिवः ॥ १॥

शेषेण नामसाहत्रैस्त्वं स्तुतः कथमीश्वर । 
तन्नाम्नां श्रवणेच्छा मे भूयसी भवति प्रभो ॥ २॥

सूतः -
तस्मिन् कैलासशिखरे सुखासीनं महेश्वरम् ।
प्रणम्य प्रार्थयामास सा देवी जगदंबिका ॥ ३॥

तदा देव्या महादेवः प्रार्थितः सर्वकामदः ।
भवो भवानीमाहेत्थं सर्वपापप्रणाशकम् ॥ ४॥

फणीशो मुखसाहस्रैत्र्यानि नामानि चोक्त्तवान् ।
तानि वः सम्प्रवक्ष्यामि यथा मम गुरोः श्रुतम् ॥ ५॥

ईश्वरः -
ऋषिः छन्दो दैवतं च तान्यहं क्रमशोंऽबिके ।
सहस्रनाम्नां पुण्यं मे फणिन्द्रः कृतवानुमे ॥ ६॥

ऋषिस्तस्य हि शेषोऽयं छन्दोऽनुष्टुप् प्रकीर्तितम् ।
देवतास्याहमीशानि सर्वत्र विनियोजनम् ॥ ७॥

ध्यानं ते कथयाम्यद्य श्रूणु त्वमगकन्यके ।

कैलासे सुहिरण्यविष्टरवरे देव्या समालिङ्गितं 
नन्द्याद्यैर्गणपैः सदा परिवृतं वन्दे शिवं सुन्दरम् । 
भक्ताघौघनिकृन्तनैकपरशुं बिभ्राणमिन्दुप्रभं 
स्कन्दाद्यैर्गजवक्त्र (?) सेवितपदं ध्यायामि सांबं सदा ॥ ८॥

एवं मामबिके ध्यात्वा नामानि प्रजपेत्ततः ।
हृत्पद्मसद्मसंस्थं मां सर्वाभीष्टार्थसिद्धये ॥ ९॥

पुण्यकालेषु सर्वेषु सोमवारे विशेषतः ।
बिल्वपत्रैः पङ्कजैश्च पुण्यनामानि शङ्करि ॥ १०॥

पूजयेन्नामसाहस्रैः सर्वार्थप्राप्तये शिवे ।
यो यं कामयते कामं तं तमाप्नोति शङ्करि ॥ ११॥

धनार्थी लभते वित्तं कन्यार्थी कन्यकां तथा ।
राज्यार्थी राज्यमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ १२॥

शृणु देवि परं पुण्यं मातृकानामनुत्तमम् ।
सहस्रं प्रजपेन्नित्र्यं धर्मकामार्थमोक्षभाक् ॥ १३॥

ईश्वरः - 
ओंकारनिलयात्मस्थः ओंकारार्थैकवाचकः ।
ओंकारेशाकृतिरोमितिशब्दकृतस्तुतिः ॥ १४॥

ओंकारकुण्डनिलयलिङ्गपृजनपापहृत् ।
नमिताशेषदेवादिर्नदीपुलितसंस्थितः ॥ १५॥

नन्दिवाद्यप्रियो नित्यो नामपारायणप्रियः । 
महेन्द्रनिलयो मानि मानसान्तरपापभित् ॥ १६॥

मयस्करो महायोगी मायाचक्रप्रवर्तकः ।
शिवः शिवतरः शीतः शीतांशुकृतभूषणः ॥ १७॥

धनुःशरकरो ध्याता धर्माधर्मप्रायाणः ।
आत्मा आतार्य आलाद्य अनङ्गशरखण्डनः ॥ १८॥

ईशान ईड्य ईघ्र्यश्च इभमस्तकसंस्तुतः ।
उमासंश्लिष्टवामाङ्ग उशीनरनृपार्चितः ॥ १९॥

उदुम्बरफलप्रीत उमादिसुरपूजितः ।
ऋजीषीकृतभृचक्रो रिपुप्रमथनोर्जितः ॥ २०॥

लिङ्गार्चकजनप्रीतो लिङ्गी लिङ्गसमप्रियः ।
लिपिप्रियो बिन्दुहीनो लीलाकृतजगन्त्त्रयः ॥ २१॥

ऐन्द्रीदिक्पतिसंयुक्त ऐश्वर्यादिफलप्रदः ।
औत्तानपादपूज्याङ्घ्रिरौमादिसुरपूजितः ॥ २२॥

कल्याणाचलकोदण्डः कामितार्थफलप्रदः ।
कस्तूरीतिलकप्रीतः कर्पूराभकलेवरः ॥ २३॥

करन्धमसुतप्रीतः कल्पादिपरिवर्जितः ।
कल्पितानेकभूतादिः कलिकल्मषनाशनः ॥ २४॥

कमलामलसन्नेत्रः कमलापतिपूजितः ।
खगोल्कादित्यवरदः खञ्जरीटवरप्रदः ॥ २५॥

खर्जुरवनमध्यस्थः खण्डिताखण्डलीकरः ।
खगः खङ्गहरः खण्डः खगगः खाकृतिः खसः ॥ २६॥

खण्डपर्शुः खण्डधनः खण्डितारातिमण्डलः ।
गन्धर्वगणसुप्रीतो गन्धधृक् गर्वनाशकः ॥ २७॥

गङ्गाधरो गोगणेशो गणेशवरपुत्रकः ।
गतिदो गदहा गन्धी गन्धमाल्यवरार्चितः ॥ २८॥

गगनस्थो गणपतिर्गगनाभोगभूषणः ।
घण्टाकर्णप्रियो घण्टी घटजस्तुतिसुप्रियः ॥ २९॥

घोटकप्रियपुत्रश्च धर्मकालो घनाकृतिः ।
घनवाहो घृताध्यक्षो घनघोषो घटेश्वरः ॥ ३०॥

घटानादकरप्रीतो घटीभूतमहागिरिः ।
चन्द्रचूडश्चन्द्रकरश्चन्दनार्द्रश्चतुष्पथः ॥ ३१॥

चमसोद्भेदमध्यस्थश्चण्डकोपश्चतुर्मुखः ।
चक्षुःश्रोत्रमहाहारश्चण्डिकेशवरप्रदः ॥ ३२॥

चेतोजन्महरश्चण्डश्चातुर्होत्रप्रियश्चरः ।
चतुर्मुखमुखस्तुत्यश्चतुर्वेदश्चराचरः ॥ ३३॥

चण्डभानुकरान्तःस्थश्चतुर्मूर्तिवपुःस्थितः ।
छादितानेकलोकादिः छन्दसां गणमध्यगः ॥ ३४॥

छत्रचामरशोभाढ्यः छन्दोगगतिदायकः ।
जङ्गमाजङ्गमाकारो जगन्नाथो जगद्गतः ॥ ३५॥

जह्नुकन्याजटो जप्यो जेता जत्रुर्जनार्तिहा ।
जम्भारातिर्जनप्रीतो जनको जनिकोविदः ॥ ३६॥

जनार्दनार्दनो जामिजात्यादिपरिवर्जितः ।
झणज्झणान्घ्रिजारावो झङ्कारोज्झितदुष्क्रियः ॥ ३७॥

टङ्कप्रियष्टंकृतिकष्टंकभेदी टकारकः ।
टादिवर्णप्रियष्ठान्तो ढक्कानादप्रियो रसः ॥ ३८॥

डामरितन्त्रमध्यस्थो डमरुध्वनिशोभितः ।
ढक्काध्वनिकृतानल्पबधिरीकृतदिङ्मुखः ॥ ३९॥

णकारो णणुकोत्थादिर्णान्तकृण्णविमोचकः ।
तस्करस्ताम्रकस्तार्क्ष्यस्तामसादिगुणोज्झितः ॥ ४०॥

तरुमूलप्रियस्तातस्तमसां नाशकस्तटः ।
थानासुरहरः स्थाता स्थाणुः स्थानप्रियः स्थिरः ॥ ४१॥

दाता दानपतिर्दान्तो दन्दशूकविभुषितः ।
दर्शनियो दीनदयो दण्डितारातिमण्डलः ॥ ४२॥

दक्षयज्ञहरो देवो दानवारिर्दमोदयः ।
दत्तात्रेयप्रियो दण्डी दाडिमीकुसुमप्रियः ॥ ४३॥

धता धनाधिपसखो धनधान्यप्रदो धनम् ।
धामप्रियोऽन्धसां नाथो धर्मवाहो धनुर्धरः ॥ ४४॥

नमस्कारप्रियो नाथो नमिताशेषदुःखहृत् ।
नन्दिप्रियो नर्मसखो नर्मदातीरसंस्थितः ॥ ४५॥

नन्दनो नमसामीशो नानारूपो नदीगतः ।
नामप्रीतो नामरूपगुणकर्मविवर्जितः ॥ ४६॥

पत्तीनां च पतिः पार्यः परमात्मा परात्परः ।
पङ्कजासनपूज्याङ्घ्रिः पद्मनाभवरप्रदः ॥ ४७॥

पन्नगाधिपसद्धारः पशूनां पतिपावकः ।
पापहा पण्डितः पान्थो पादपोन्मथनः परः ॥ ४८॥

फणीफणालसम्मौलिः फणिकङ्कणसत्करः ।
फणिता नेकवेदोक्त्तिः फणिमाणिक्यभूषितः ॥ ४९॥

बन्धमोचनकृद्बन्धुर्बन्धुरालकशोभितः ।
बली बलवतां मुख्यो बलिपुत्रवरप्रदः ॥ ५०॥

बाणासुरेन्द्रपूज्याङ्घ्रिर्बाणलिङ्गो बहुपदः ।
वन्दीकृतागमो बालपालको बहुशोभितः ॥ ५१॥

भवादिर्भवहा भव्यो भवो भावपरायणः ।
भयहृद्भवदो भूतो भण्डासुरवरप्रदः ॥ ५२॥

भगाक्षिमथनो भर्गो भवानीशो भयङ्करः ।
भङ्कारो भावुकदो भस्माभ्यक्त्ततनुर्भटः ॥ ५३॥

मयस्करो महादेवो मायावी मानसान्तरः ।
मायातीतो मन्मथारिर्मधुपोऽथ मनोन्मनः ॥ ५४॥

मध्यस्थो मधुमांसात्मा मनोवाचामगोचरः ।
मण्डितो मण्डनाकारो मतिदो मानपालकः ॥ ५५॥

मनस्वी मनुरूपश्च मन्त्रमूर्तिर्महाहनुः ।
यशस्करो यन्त्ररूपो यमिमानसपावनः ॥ ५६॥

यमान्तकरणो यामी यजमानो यदुर्यमी ।
रमानाथार्चितपदो रम्यो रतिविशारदः ॥ ५७॥

रंभाप्रीतो रसो रात्रिचरो रावणपूजितः ।
रङ्गपादो रन्तिदेवो रविमण्डलमध्यगः ॥ ५८॥

रथन्तरस्तुतो रक्त्तपानो रथपती रजः ।
रथात्मको लम्बतनुर्लाङ्गली लोलगण्डकः ॥ ५९॥

ललामसोमलूतादिर्ललितापूजितो लवः ।
वामनो वायुरूपश्च वराहमथनो वटुः ॥ ६०॥

वाक्यजातो वरो वार्यो वरुणेड्यो वराश्रयः ।
वपुर्धरो वर्षवरो वरियान् वरदो वरः ॥ ६१॥

वसुप्रदो वसुपतिर्वन्दारुजनपालकः ।
शान्तः शमपरः शास्ता शमनान्तकरः शठः ॥ ६२॥

शङ्खहस्तः शत्रुहन्ता शमिताखिलदुष्कृतः ।
शरहस्तः शतावर्तः शतक्रतुवरप्रदः ॥ ६३॥

शम्भुः शम्याकपुष्पार्च्यः शङ्करः शतरुद्रगः ।
शम्याकरः शान्तमनाः शान्तः शशिकलाधरः ॥ ६४॥

षडाननगुरुः षण्डः षट्कर्मनिरतः षगुः ।
षड्जादिरसिकः षष्ठः षष्ठीप्रीतः षडङ्गवान् ॥ ६५॥

षडूर्मिरहितः शष्प्यः षिद्गः षाड्गुण्यदायकः ।
सत्यप्रियः सत्यधामा संसाररहितः समः ॥ ६६॥

सखा सन्धानकुशलः सर्वसम्पत्प्रदायकः ।
सगरः सागरान्तस्थः सत्राशः सरणः सहः ॥ ६७॥

सांबः सनातनः साधुः सारासारविशारदः ।
सामगानप्रियः सारः सरस्वत्या सुपूजितः ॥ ६८॥

हतारातिर्हंसगतिर्हाहाहूहूस्तुतिप्रियः ।
हरिकेशो हरिद्राङ्गो हरिन्मणिसरोहठः ॥ ६९॥

हरिपृज्यो हरो हार्यो हरिणाङ्कशिखण्डकः ॥

हाहाकारादिरहितो हनुनासो हहुंकृतः ॥ ७०॥

ललाननो लतासोमो लक्षमीकान्तवरप्रदः ।
लम्बोदरगुरुर्लभ्यो लवलीशो लुलायगः ॥ ७१॥

क्षयद्वीरः क्षमायुत्तः क्षयादिरहितः क्षमी ।
क्षत्रियान्तकरः क्षान्तः क्षात्रधर्मप्रवर्तकः ॥ ७२॥

क्षयिष्णुवर्धनः क्षान्तः क्षपानाथकलधरः ।
क्षपादिपूजनप्रीतः क्षपणान्तः क्षराक्षरः ॥ ७३॥

रुद्रो मन्युः सुधन्वा च बाहुमान् परमेश्वरः ।
स्विषुः स्विष्टकृदीशानः शरव्याधारको युवा॥ ७४॥

अघोरस्तनुमान् देवो गिरीशः पाकशासनः ।
गिरित्रः पुरुषः प्राणः पञ्चप्राणप्रवर्तकः ॥ ७५॥

अध्यवोचो महादेव अधिवक्ता महेश्वरः । 
ईशानः प्रथमो देवो भिषजां पतिरीश्वरः ॥ ७६॥

ताम्रोऽरुणो विश्वनाथो बभ्रुश्चैव सुमङ्गलः ।
नीलग्रीवः शिवो हृष्टो देवदेवो विलोहितः ॥ ७७॥

गोपवश्यो विश्वकर्ता उदहार्यजनेक्षितः ।
विश्वदृष्टः सहस्राक्षो मीढुष्ठो भगवन् हरः ॥ ७८॥

शतेषुधिः कपर्दी च सोमो मीढुष्टमो भवः ।
अनाततश्चातिधृष्णुः सत्वानां रक्षकः प्रभुः ॥ ७९॥

विश्वेश्वरो महादेवस्त्र्यंबकस्त्रिपुरान्तकः ।
त्रिकाग्निकालः कालाग्निरुद्रो नीलोऽधिपोऽनिलः ॥ ८०॥

सर्वेश्वरः सदा शम्भुः श्रीमान् मृत्युञ्जयः शिवः ।
स्वर्णबाहुः सैन्यपालो दिशाधीशो वनस्पतिः ॥ ८१॥

हरिकेशः पशुपतिरुग्रः सस्पिञ्जरोऽन्तकः ।
त्विषीमान् मार्गपो बभ्रुर्विव्याधी चान्नपालकः ॥ ८२॥

पुष्टो भवाधिपो लोकनाथो रुद्राततायिकः । 
क्षेत्रशः सूतपोऽहन्त्यो वनपो रोहितः स्थपः ॥ ८३॥

वॄक्षेशो मन्त्रजो वाण्यो भुवन्त्यो वारिवस्कृतः ।
ओषदीशो महाघोषः क्रन्दनः पत्तिनायकः ॥ ८४॥

कृत्स्नवीती धावमनः सत्वनां पतिरव्ययः ।
सहमानोऽथ निर्व्याधिरव्याधिः कुकुभो नटः ॥ ८५॥

निषङ्गी स्तेनपः कक्ष्यो निचेरुः परिचारकः ।
आरण्यपः सृकावि च जिघांसुर्मुष्णपोऽसिमान् ॥ ८६॥

नक्तश्वरः प्रकृन्तश्च उष्णीषी गिरिसञ्चरः ।
कुलुञ्च इषुमान् धन्वी आतन्वान् प्रतिधानवान् ॥ ८७॥

आयच्छो विसृजोऽप्यात्मा वेधनो आसनः परः ।
शयानः स्वापकृत् जाग्रत् स्थितो धावनकारकः ॥ ८८॥

सभापतिस्तुरङ्गेश उगणस्तृंहतिर्गुरुः ।
विश्वो व्रातो गणो विश्वरुपो वैरुप्यकारकः ॥ ८९॥

महानणीयान् रथपः सेनानीः क्षत्रसंग्रहः ।
तक्षा च रथकारश्च कुलालः कर्मकारकः ॥ ९०॥

पुञ्जिष्ठश्च निषादश्च इषुकृद्धन्वकारकः ।
मृगयुः श्वानपो देवो भवो रुद्रोऽथ शर्वकः ॥ ९१॥

पशुपो नीलकण्ठश्च शितिकण्ठः कपर्दभृत् ।
व्युप्तकेशः सहस्राक्षः शतधन्वा गिरीश्वरः ॥ ९२॥

शिपिविष्टोऽथ मीढुष्ट इषुमान् हृस्ववामनः ।
बहुर्वर्षवया वृद्धः संवृद्ध्वा पथमोऽग्रियः ॥ ९३॥

आशुश्वैवाजिरः शीघ्र्यः शीम्य ऊर्म्योऽथ वस्वनः ।
स्रोतो द्वीप्यस्तथा ज्येष्ठः कनिष्ठः पूर्वजोऽपरः ॥ ९४॥

मध्यश्चाथाप्रगल्भश्च ....
आशुषेणश्चाशुरथः शूरो वै भिन्दिवर्मधृक् ॥ ९५॥

वरूथी विरुमी कावची श्रुतसेनोऽथ दुन्दुभिः ।
धृष्णुश्च प्रहितो दूतो निषङ्गी तीक्ष्णसायकः ॥ ९६॥

आयुधी स्वायुधी देव उपवीती सुधन्वधृक् ।
स्रुत्यः पथ्यस्तथा काट्यो नीप्यः सूद्यः सरोद्भवः ॥ ९७॥

नाद्यवैशन्तकूप्याश्चावट्यो वर्ष्यो मेघ्योऽथ वैद्युतः।
ईघ्र्य आतप्य वातोत्थो रश्मिजो वास्तवोऽस्तुपः ॥ ९८॥

सोमो रुद्रस्तथा ताम्र अरुणः शङ्गः ईश्वरः ।
उग्रो भीमस्तथैवाग्रेवधो दूरेवधस्तथा ॥ ९९॥

हन्ता हनीयान् वृक्षश्च हरिकेशः प्रतर्दनः ।
तारः शम्भुर्मयोभूश्च शङ्करश्च मयस्करः ॥ १००॥

शिवः शिवतरस्तीर्थ्यः कूल्यः पार्यो वार्यः प्रतारणः ।
उत्तारणस्तथालाद्य आर्तायः शष्प्यफेनजः ॥ १०१॥

सिकत्यश्च प्रवाह्यश्च इरिण्यः प्रमथः किंशिलः ।
क्षयणः कूलगो गोष्ठ्यः पुलत्स्यो गृह्य एव च ॥ १०२॥

तल्प्यो गेह्यस्तथा काट्यो गह्वरेष्ठो हृदोद्भवः ।
निवेष्ट्यः पासुमध्यस्थो रजस्यो हरितस्थितः ॥ १०३॥

शुष्क्यो लोप्यस्तथोलप्य ऊर्म्यः सूर्म्यश्च पर्णजः ।
पर्णशद्योऽपगुरकः अभिघ्नोत्खिद्यकोविदः ॥ १०४॥

अवः (?) किरिक ईशानो देवादिहृदयान्तरः ।
विक्षीणको विचिन्वत्क्यः आनिर्ह आमिवत्ककः ॥ १०५॥

द्रापिरन्घस्पतिर्दाता दरिद्रन्निललोहितः ।
तवस्वांश्च कपर्दीशः क्षयद्विरोऽथ गोहनः ॥ १०६॥

पुरुषन्तो गर्तगतो युवा मृगवरोग्रकः ।
मृडश्च जरिता रुद्रो मीढ्यो देवपतिर्हरिः ॥ १०७॥

मीढुष्टमः शिवतमो भगवानर्णवान्तरः ।
शिखी च कृत्तिवासाश्च पिनाकी वृष्भस्थितः ॥ १०८॥

अग्नीषुश्च वर्षेषुर्वातेषुश्च ......
पृथिवीस्थो दिविष्टश्च अन्तरिक्षस्थितो हरः ॥ १०९॥

अप्सु स्थितो विश्वनेता पथिस्थो वृक्षमूलगः ।
भूताधिपः प्रमथप ..... ॥ ११०॥

अवपलः सहस्रास्यः सहस्रनयनश्रवाः ।
ऋग्गणात्मा यजुर्मध्यः साममध्यो गणाधिपः ॥ १११॥

उर्म्यर्वशीर्षपरमः शिखास्तुत्योऽपसूयकः ।
मैत्रायणो मित्रगतिस्तण्डुप्रीतो रिटिप्रियः ॥ ११२॥

उमाधवो विश्वभर्ता विश्वहर्ता सनातनः ।
सोमो रुद्रो मेधपतिवंकुर्वै मरुतां पिता॥ ११३॥

.......  अरुषो अध्वरेश्वरः ।
जलाषभेषजो भूरिदाता सुजनिमा सुरः ॥ ११४॥

सम्राट् पुरांभिद् दुःखस्थः सत्पतिः पावनः क्रतुः ।
हिरण्यरेता दुर्धर्षो विश्वाधिक उरुक्रमः ॥ ११५॥

गुरुगायोऽमितगुणो महाभूतस्र्त्रिविक्रमः ।
अमृतो अजरोऽजय्यो रुद्रोऽग्निः पुरुषो विराट् ॥ ११६॥

तुषाराट्पूजितपदो महाहर्षो रसात्मकः ।
महर्षिबुद्धिदो गोप्ता गुप्तमन्त्रो गतिप्रदः ॥ ११७॥

गन्धर्वगानप्रीतात्मा गीतप्रीतोरुशासनः ।
विद्वेषणहरो हार्यो हर्षक्रोधविवर्जितः ॥ ११८॥

भक्त्तप्रियो भक्त्तिवश्यो भयहृद्भूतसङ्धभित् ।
भुवनेशो भूधरात्मा विश्ववन्द्यो विशोषकः ॥ ११९॥

ज्वरनाशो रोगनाशो मुञ्जिकेशो वरप्रदः ।
पुण्डरीकमहाहारः पुण्डरीकत्वगम्बरः ॥ १२०॥

आखन्डलमुखस्तुत्यः कुण्डली कुण्डलप्रियः ।
चण्डांशुमण्डलान्तस्थः शशिखण्डशिखण्डकः ॥ १२१॥

चण्डतनाण्डवसन्नाहश्चण्डकोपोऽखिलाण्डगः ।
चण्डिकापूजितपदो मण्डनाकल्पकाण्डजः ॥ १२२॥

रणशौण्डो महादण्डस्तुहुण्डवरदायकः ।
कपालमालाभरणस्तारणः शोकहारणः ॥ १२३॥

विधारणः शूलकरो घर्षणः शत्रुमारणः ।
गङ्गाधरो गरधरस्त्रिपुण्ट्रावलिभासुरः ॥ १२४॥

शम्बरारिहरो दक्षहरोऽन्धकहरो हरः ।
विश्वजिद्गोजिदीशानो अश्वजिद्धनजित् तथा ॥ १२५॥

उर्वराजिदुद्वज्जिच्च सर्वजित् सर्वहारकः ।
मन्दारनिलयो नन्दः कुन्दमालाधरोऽम्बुदः ॥ १२६॥

नन्दिप्रीतो मन्दहासः सुरवृन्दनिषेवितः ।
मुचुकुन्दार्चितपदो द्वन्द्वहीनेन्दिरार्चितः ॥ १२७॥

विश्वाधारो विश्वनेता वीतिहोत्रो विनीतकः ।
शङ्करः शाश्वतः शास्ता सहमानः सहस्रदः ॥ १२८॥

भीमो महेश्वरो नित्य अंबरान्तरनर्तनः ।
उग्रो भवहरो धौम्यो धीरोदात्तो विराजितः ॥ १२९॥

वञ्चको नियतो विष्णुः परिवञ्चक ईश्वरः ।
उमावरप्रदो मुण्डी जटिल शुचिलक्षणः ॥ १३०॥

चर्माम्बरः कान्तिकरः कङ्कालवरवेषधृक् ।
मेखली अजिनी दण्डी कपाली मेखलाधरः ॥ १३१॥

सद्योजातः कालिपतिर्वरेण्यो वरदो मुनिः ।
वसाप्रियो वामदेवस्तत्पूर्वो वटमूलग ॥ १३२॥

उलूकरोमा घोरात्मा लास्यप्रीतो लघुः स्थिरः ।
अणोरणीयानीशानः सुन्दरभ्रूः सुताण्डवः ॥ १३३॥

किरीटमालाभरणो राजराजलसद्गतिः ।
हरिकेशो मुञ्जिकेशो व्योमकेशो यशोधरः ॥ १३४॥

पातालवसनो भर्ता शिपिविष्टः कृपाकरः ।
हिरण्यवर्णो दिव्यात्मा वृषधर्मा विरोचनः ॥ १३५॥

दैत्येन्द्रवरदो वैद्यः सुरवन्द्योऽघनाशकः ।
आनन्देशः कुशावर्तो नन्द्यावर्तो मधुप्रियः ॥ १३६॥

प्रसन्नात्मा विरूपाक्षो वनानां पतिरव्ययः ।
मस्तकादो वेदवेद्यः सर्वो ब्रह्मौदनप्रियः ॥ १३७॥ 
पिशङ्गितजटाजूटस्तडिल्लोकविलोचनः ।
गृहाधारो ग्रामपालो नरसिंहविनाशकः ॥ १३८॥

मत्स्यहा कूर्मापृष्ठास्थिधरो भूदारदारकः ॥ 
विधीन्द्रपूजितपदः पारदो वारिधिस्थितः ॥ १३९॥

महोदयो महादेवो महाबीजो महाङ्गधृक् ।
उलूकनागाभरणो विधिकन्धरपातनः ॥ १४०॥

आकाशकोशो हार्दात्मा मायावी प्रकृतेः परः ।
शुल्कस्त्रिशुल्कस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥ १४१॥

ललनाजनपूज्यांघ्रिर्लङ्कावासोऽनिलाशनः ।
विश्वतश्चक्षुरीशानो विश्वतोबाहुरीश्वरः ॥ १४२॥

सर्वात्मा भावनागम्यः स्वतन्त्रः परमेश्वरः ।
विश्वभक्षो विद्रुमाक्षः सर्वदेवशिरोमणिः ॥ १४३॥

ब्रहम सत्यं तथानन्दो ज्ञानानन्दमहाफलः ।

ईश्वरः -
अष्टोत्तरं महादेवि शेषाशेषमुखोद्गतम् ।
इत्येतन्नामसाह्स्रं रहस्यं कथितं मया॥ १४४॥

पवित्रमिदमायुष्यं पठतां शृण्वतां सदा।
यस्त्वेतन्नमसाहस्रैः बिल्वैः पङ्कजकुड्मलैः ॥ १४५॥

पूजयेत् सर्वकालेषु शिवरात्रौ महेश्वरि ।
तस्य मुक्त्तिं ददामीशे सत्यं सत्यं न संशयः ॥ १४६॥

मम प्रियकरं ह्येतत् फणिना फणितं शुभम् ।
पठेत् सर्वान् लभेतैव कामानायुष्यमेव च ॥ १४७॥

नामसाहस्रपाठी स यमलोकं न पश्यति ।
कल्याणीं च लभेद्गौरि गतिं नाम्नां च वैभवात् ॥ १४८॥

नाख्येयं गोप्यमेतद्धि नाभक्ताय कदाचन ।
न प्रकाश्यमिदं देवि मातृकारुद्रसंहितम् ॥ १४९॥

भक्त्तेषु लभते नित्यं भक्त्तिं मत्पादयोर्दृढाम् ।
दत्वाऽभक्त्तेषु पापात्मा रौरवं नरकं व्रजेत् ॥ १५०॥

सूतः -
इति शिववचनं निशम्य गौरी प्रणयाच्च प्रणता शिवाङ्घ्रिपद्मे ।
सुरवरतरुसुन्दरोरुपुष्पैरभिपूज्य प्रमथाधिपं तुतोष ॥ १५१॥

तुष्टाव कष्टहरमिष्टदमष्टदेहं
     नष्टाघसंघदुरदृष्टहरं प्रकृष्टम् ।
उत्कृष्टवाक्यसुरबृन्दगणेष्टदानलोलं
     विनष्टतमसं शिपिविष्टमीशम् ॥ १५२॥

श्रीपार्वती -
चण्डांशुशीतांशुहुताशनेत्रं चक्षुःश्रवापारविलोलहारम् ।
चर्माम्बरं चन्द्रकलावतंसं चराचरस्थं चतुराननेड्यम् ॥ १५३॥

विश्वाधिकं विश्वविधानदक्षं विश्वेश्वरं विश्रुतनामसारम् ।
विनायकेड्यं विधिविष्णुपूज्यं विभुं विरुपाक्षमजं भजेऽहम् ॥ १५४॥

मधुमथनाक्षिवराब्जपूज्यपादं मनसिजतनुनाशनोत्थदीप्तमन्युम् ।
मम मानसपद्मसद्मसंस्थं मतिदाने निपुणं भजामि शम्भुम् ॥ १५५॥

हरिं हरन्तमनुयन्ति देवा नखैस्तथा पक्षवातैः सुघोणैः ।
नृसिंहमुग्रं शरभाकृतिं शिवं मत्तं तदा दानवरक्तपानात् ॥ १५६॥

नखरमुखरघातैस्तीक्ष्णया दंष्ट्रयापि
     ज्वरपरिकरदेहे नाशतापैः सुदीप्ते ।
दितिजकदनमत्तं संहरन्तं जगच्च
     हरिमसुरकुलघ्नं देवतुष्ट्यै महेशः ।
परशुवरनिखातैः क्रोडमुत्क्रोष्टुमीष्टे ॥ १५७॥

रौद्रनामभिरीशानं स्तुत्वाऽथ जगदंबिका।
प्रेमाश्रुपुलका देवं सा गाढं परिषस्वजे ॥ १५८॥

शौनकः -
कानि रौद्राणि नामानि त्वं नो वद विशेषतः ।
न तृप्तिरीशचरितं शृण्वतां नः प्रसीद भो ॥ १५९॥

सूतः -
तान्यहं वो वदाम्यद्य शृणुद्वं शौनकादयः ॥

पवित्राणि विचित्राणि देव्या प्रोक्त्तानि सत्तमाः ॥ १६०॥

देवी -
दिशांपतिः पशुपतिः पथीनां पतिरीश्वरः ।
अन्नानां च पतिः शंभुः पुष्टानां च पतिः शिवः ॥ १६१॥

जगतां च पतिः सोमः क्षेत्राणां च पतिर्हरः ।
वनानां पतिरीशानो वृक्षाणां च पतिर्भवः ॥ १६२॥

आव्याधिनीनां च पतिः स्नायूनां च पतिर्गुरुः ।
पत्तिनां च पतिस्ताम्रः सत्वनां च पतिर्भवः ॥ १६३॥

आरण्यानां पतिः शम्भुर्मुष्णतां पतिरुष्णगुः ।
प्रकृतीनां पतिश्चेशः कुलुञ्चानां पतिः समः ॥ १६४॥

रुद्रो गृत्सपतिर्व्रात्यो भगीरथपतिः शुभः ।
अन्धसांपतिरीशानः सभायाः पतिरीश्वरः ॥ १६५॥

सेनापतिश्च श्वपतिः सर्वाधिपतये नमः ।

प्रणता विनता तवाङ्घ्रिपद्मे भगवन् परिपाहि मां विभो त्वम् ।
तव कारुण्यकटाक्षलेशलेशैर्मुदिता शङ्कर भर्ग देवदेव ॥ १६६॥

सूतः -
इति गिरिवरजाप्रकृष्टवाक्यं स्तुतिरूपं विबुधाधिपो महेशः ।
अभिवीक्ष्य तदा मुदा भवानीमिदमाह स्मरगर्वनाशकः ॥ १६७॥

शिवः -
इदमगतनये सहस्रनाम्नां परमरहस्यमहो महाघशोषम् ।
प्रबलतरवरैश्च पातकौधैर्यदि पठते हि द्विजः स मुक्तिभाक् ॥ १६८॥

शैवं मेऽद्य रहस्यमद्भ्हुततरं सद् द्वादशांशान्वितम् ।
श्रुत्वोदारगिरा दरोरुकथया सम्पूरितं धारितम् ।
पापानं प्रलयाय तद्भवति वै सत्यं वदाम्यद्रिजे ॥ १६९॥

श्रुतिगिरिकरिकुम्भगुंभरत्ने त्वयि गिरिजे परया रमार्द्रदृष्ट्या ।
निहितोऽजिह्मधियां मुदेऽयमेष ... मम भक्त्तजनार्पणं मुदे ॥ १७०॥

ईश्वरः -
एतत्ते पञ्चमांशस्य विस्तरः कथितो मया ।
रहस्यार्थस्य देवेशि किं भूयः श्रोतुमिच्छसि ॥ १७१॥

इत्थं शिववचः श्रुत्वा प्रणम्याथ महेश्वरी ।
समालिङ्ग्य महादेवं सहर्षं गिरिजा तदा॥ १७२॥

प्राह प्रेमाश्रुपुलका श्रुत्वा शिवकथासुधाम् ।

देवी -
अहो धन्यास्मि देवेश त्वत्कथाम्भोधिवीचिभिः ॥ १७३॥

श्रोत्रे पवित्रतां याते माहात्म्यं वेद कस्तव।
मामृते देवदेवेश न भेदोऽस्त्यावयोः शिवः ॥ १७४॥

भव भव भगवन् भवाब्धिपार स्मरगरख्ण्डनमण्डनोरुगण्ड ।
स्फुरदुरुमुकुटोत्तमाङ्गगङ्गा... दिव्यदेह ॥ १७५॥

अव भव भवहन् प्रकर्षपापाञ्जनमज्ञं जडदुःखभोगसङ्गम् ।
तव सुखकथया जगत् पवित्रं भव भवतात् भवतापहन् मुदे मे ॥ १७६॥

सूतः -
इति देव्या स्तुतो देवो महेशः करुणानिधिः ।
तद्वत् कथानिधिः प्रोक्तः शिवरत्नमहाखनिः ॥ १७७॥

भवतां दर्शनेनाद्य शिवभक्तिकथारसैः ।
पावितोऽस्मि मुनिश्रेष्ठाः किं भूयः श्रोतुमिच्छथ ॥ १७८॥

इति तद्वदनाम्भोजसुधानिष्यन्दिनीं गिरम् । 
श्रुत्वा प्रकटरोमाञ्चः शौनकः प्राह सादरम् ॥ १७९॥

शौनकः -
अहो महादेवकथासुधाम्बुभिः सम्प्लावितोऽस्म्यद्य भवाग्नितप्तः ।
धन्योऽस्मि त्वद्वाक्यसुजातहर्षो द्विजैः सुजातैरपि जातहर्षः ॥ १८०॥

सूतः -
श्रीमत्कैलासवर्ये भुवनजनकतः संश्रुता पुण्यदात्री
शम्भोर्दिव्यकथासुधाब्धिलहरी पापापनोदक्षमा ।
देव्यास्तच्छ्रुतवान् गुरुर्मम मुनिः स्कन्दाच्च तल्लब्धवान् 
सेयं शङ्करकिङ्करेषु विहिता विश्वैकमोक्षप्रदा ॥ १८१॥

इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे
.... नाम चत्वारिंशोऽध्यायः ॥