पञ्चदेवतास्तोत्रम्

॥ पञ्चदेवतास्तोत्रम् ॥
श्रीगणेशाय नमः ।
गणेशविष्णुसूर्येशदुर्गाख्यं देवपञ्चकम् ।
वन्दे विशुद्धमनसा जनसायुज्यदायकम् ॥ १॥

एकरूपान् भिन्नमूर्तीन् पञ्चदेवान्नमस्कृतान् ।
वन्दे विश्णुद्धभावेनेशाम्बेनैकरदाच्युतान् ॥ २॥

कल्याणदायिनो देवान्नमस्कार्यात्महौजसः ।
विष्णुशम्भुशिवासूयगणेशाख्यान्नमाम्यहम् ॥ ३॥

एकात्मनो भिन्नरूपान् लोकरक्षणतत्परान् ।
शिवविष्णुशिवासूर्यहेरम्वान् प्रणमाम्यहम् ॥ ४॥

दिव्यरूपानेकरूपान्नानारूपान्नमस्कृतान् ।
शिवाशङ्करहेरम्बविष्णुसूर्यान्नमाम्यहम् ॥ ५॥

नित्यानानन्दसन्दोहदायिनो दीनपालकान् ।
शिवाच्युतगणेशेनडुर्गाख्यान् नौम्यहं सुरान् ॥ ६॥

कमनीयतनून्देवान् सेवावश्यान् कृपावतः ।
शङ्करेनशिवाविष्णुगणेशाख्यान्नमाम्यहम् ॥ ७॥

सूर्यविष्णुशिवाशम्भुविघ्नराजाभिधान्सुरान् ।
एकरूपान् सदा वन्दे सुखसन्दोहसिद्धये ॥ ८॥

हरौ हरे तीक्ष्णकरे गणेशे शक्तौ न भेदो जगदादिहितेषु ।
अधः पतन्त्येषु भिदां दधाना भाषान्त एवं यततोऽच्य्ताश्रमाः ॥ ९॥

इति श्रीमदच्युताश्रमविरचितं पञ्चदेवतास्तोत्रम् संपूर्णम् ॥