श्रीरामनाथ-सुप्रभातम्

॥ श्रीरामनाथ-सुप्रभातम् ॥

गणेशं शारदां शंभुं देवीं दुर्गां च राघवम् ।
रामनाथं नमस्कृत्य सुप्रभातं करोम्यहम् ॥ १॥

नमस्ते गिरिजा-कान्त शरणागत-वत्सल ।
उत्तिष्ठ करुणासिन्धो सन्ध्याकालः प्रवर्तते ॥ २॥

उत्तिष्ठोत्तिष्ठ गौरीश उत्तिष्ठ वृषभ-ध्वज ।
उत्तिष्ठ पार्वती-नाथ त्रैलोक्यं मङ्गलं कुरु ॥ ३॥

मातः पुरारि-हृदयांबुज-नित्यवासे भक्त्या मुरारि-मुखपूजित-पादयुग्मे ।
श्रीशंकराश्रित-जनेषु दयार्द्र-चित्ते श्रीरामनाथ-दयिते तव सुप्रभातम् ॥ ४॥

तव सुप्रभातममरेन्द्र-वन्दिते निज-दीन-भक्त-वरदान-शोभिते ।
हर्-इधातृ-देवरमणीभिरर्चिते ह्यव रामनाथ-दयिते दयायुते ॥ ५॥

रामादि-भक्तनिचयास्त्वदुपासनाय गंगादि-पुण्यसरिदाहृत-दिव्यपुष्पैः ।
आगत्य पादयुगलार्चन-जागरूकाः श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ६॥

वीणा-मृदङ्ग-परिमण्डित-नारदाद्यैः संगीयमान-चरितामृत पुण्यदेह ।
चूडामणीकृत-मनोहर-चन्द्रबिंब श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ७॥

रामेश्वरेति प्रथिते प्रदेशे रामं पुरस्कृत्य शिवं स्तुवन्ति ।
ऐक्यं प्रदिष्टं शिवरामयोश्च विष्ण्वीशमूर्ते  तव सुप्रभातम् ॥ ८॥

ब्रह्मेन्द्र-विष्णु-गुह-वाक्पति-सोमसूर्याः मृत्युञ्जयादि-चरितं बहुधा स्तुवन्ति ।
वाचस्पतिर्वदति वासरशुद्धिमारात् श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ९॥

दुष्पण्यजात-शिशुमारणवारकं च यत्पावकाख्यमतिपावनमग्नितीर्थम् ।
आवाति मन्दमनिलस्सह तस्य तोयैः श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १०॥

श्रीराममन्त्र-जपपावन-चित्तवृत्तिः आपादवक्त्रमनुलेपित-रक्तवर्णः ।
श्रीमारुतिर्जयति मन्दिर-पूर्वभागे श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ११॥

सीतापहर्तृ-दशकण्ठ-विमर्दनाय देवांशभूत-हरियूथ-सहायकेन ।
रामेण बद्ध-वरसेतुतल-प्रसन्न श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १२॥

ब्रह्मघ्न-पाप-परिहारविधौ यतेन रामेण पूजित-पवित्र-पदाब्ज-युग्म ।
भक्तार्ति-भञ्जन निरञ्जन रामनाथ श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १३॥

शैलाधिराज-तनयाञ्चिअत-वामभाग कैलासवास करुणामृत-पूर्ण-नेत्र ।
गंगाधर त्रिनयनाङ्कित चन्द्रचूड श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १४॥

नित्याभिषेचन-विधौ तव गाङ्ग-तोयं येन प्रदिष्टमिह रावण-घातकेन ।
तत्कोटि-तीर्थ-महिमावृत-सन्निधान श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १५॥

शेषेण वायुकृत-विक्रम-वाद-युद्धे वातेन भेदितमभूत् किल पर्वताग्रम् ।
तद्गन्धमादन-गिरौ कृत-सन्निधानं श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १६॥

गङ्गानदी-तट-वराल-पुण्यभूमौ ब्रह्मादि-देव-निकरैः स्तुत-विश्वनाथः ।
त्वद्वामभाग-परिकल्पित-मन्दिरस्थः श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १७॥

पूर्णेन्दु-बिंब-वदनस्सरसीरुहाक्षः कोदण्ड-मण्डित-करः करुणा-समुद्रः ।
सीतापतिर्जयति सुन्दर ते समक्षं श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ १८॥

नन्दीश्वरेण गजवक्त्र-षडाननाद्यैः देवैरनन्त-वरदैश्च नवग्रहाद्यैः ।
भक्त्या समर्चित-निजाम्बुज-पाद-युग्म श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ १९॥

पद्मालयापति-विधीन्द्र-किरीट-रत्नैः नीराजिताङ्घ्रि-युगला गिरिराज-पुत्री ।
त्वद्दक्षिणालयवरे कृत-सन्निधाना श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २०॥

लक्ष्मीसरः-प्रभृति पाप-हराणि सन्ति तीर्थानि पुण्य-फलदानि तवालयान्ते ।
तत्तीर्थ-दिव्य-महिमावृत-पुण्य-देश श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २१॥

श्रीरामलिङ्ग करुणामृत-पूर्ण-नेत्र श्रीभूमिनाथ-परिसेवित-दिव्यगात्र ।
श्रीपार्वतीश भवताप-विनाश-दक्ष श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २२॥

ज्योतिः-स्वरूप तव दिव्य-पदाम्बुजे मे निर्व्याज-भक्तिमिह देहि कृपाम्बुराशे ।
मां पाहि देव शरणागत-पारिजात श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २३॥

                     ॥ इति श्रीरामनाथ सुप्रभातम्॥