श्रीरुद्रमृत्युञ्जयस्तवनम्

॥ श्रीरुद्रमृत्युञ्जयस्तवनम् ॥

श्रीआनन्दभैरव उवाच -
श्रुतं च साधनं पुण्यं महारुद्रस्य सुन्दरि ।
मणिपूरे प्रकाशञ्च कथितं ज्ञाननिर्णयम् ॥ १॥

अकस्मात् सिद्धिसम्पत्तिं नुतिं वद महाप्रियाम् ।
यस्य श्रवणमात्रेण पाठेन योगिनीवशम् ॥ २॥

श्रीआनन्दभैरवी उवाच -
परमानन्ददेवेश योगानामधिप प्रभो ।
स्तोत्रं रुद्रस्य वक्ष्यामि सारात्सारं परात्परम् ॥ ३॥

यज्ज्ञात्वा योगिनः सर्वे षट्चक्रपरिभेदकाः ।
आकाशगामिनः सर्वे स्वर्गमोक्षाभिलाषुकाः ॥ ४॥

महादेवसमाः सर्वे देवाश्च स्वर्गभोगिनः ।
सर्वरक्षाकरं स्तोत्रं ये पठन्ति निरन्तरम् ॥ ५॥

ते यान्ति ब्रह्मसदनं सिद्धमुख्या महीतले ॥ ६॥

ॐ भजामि शम्भुं सुखमोक्षहेतुं रुद्रं महाशक्तिसमाकुलाङ्गम् ।
रौद्रात्मकं चारुहिमांशुशेखरं कालं गणेशं सुमुखाय शङ्करम् ॥ ७॥

 var  रौद्रार्थकं रुद्रहिमांशुशेखरं कालं कुलेशं शिवशङ्करञ्चेति

मृत्युञ्जयं जीवनरक्षकं परं शिवं परब्रह्मशरीरमङ्गलम् ।
हिमांशुकोटिच्छविमादधानं भजामि पद्मद्वयमध्यसंस्थितम् ॥ ८॥

सर्वात्मकं कामविनाशमूलं तं चन्द्रचूडं मणिपूरवासिनम् । सर्वार्थकम्
चतुर्भुजं ज्ञानसमुद्रयाढ्यं पाशं मृगाक्षं गुणसूत्रव्याप्तम् ॥ ९॥

धरामयं तेजसमिन्दुकोटिं वायुं जलेशं गगनात्मकं परम् ।
भजामि रुद्रं कुललाकिनीगतं सर्वाङ्गयोगं जयदं सुरेश्वरम् ॥ १०॥

शुक्रं महाभीमनयं पुराणं         (महाभीमलयं) 
     प्राणात्मकं व्याधिविनाशमूलम् ।
यज्ञात्मकं कामनिवारणं गुरुं       (यज्ञार्थकम्)
     भजामि विश्वेश्वरशङ्करं शिवम् ॥ ११॥

वेदागमानामतिमूलदेशं तदुद्भवं भद्रहितं परापरम् । तद्रहितं
कालान्तकं ब्रह्मसनातनप्रियं भजामि शम्भुं गगनादिरूढम् ॥ १२॥

शिवागमं शब्दमयं विभाकरं भास्वत्प्रचण्डानलविग्रहं ग्रहम् ।
ग्रहस्थितं ज्ञानकरं करालं भजामि शम्भुं प्रकृतीश्वरं हरम् ॥ १३॥

छायाकरं योगकरं सुखेन्द्रं मत्तं महामत्तकुलोत्सवाढयम् ।
योगेश्वरं योगकलानिधिं विधिं विधानवक्तारमहं भजामि ॥ १४॥

हेमाचलालङ्कतशुद्धवेशं वराभयादाननिदानमूलम् ।
भजामि कान्तं वनमालशोभितं चामूलपद्मामलमालिनं कुलम् ॥ १५॥

स्वयं पुराणं पुरुषेश्वरं गुरुं मिथ्याभयाह्लादविभाविनं भजे ।
भावप्रियं प्रेमकलाधरं शिवं गिरीश्वरं चारुपदारविन्दम् ॥ १६॥

ध्यानप्रियं ज्ञानगभीरयोगं भाग्यास्पदं भाग्यसमं सुलक्षणम् ।
शूलायुघं शूलविभूषिताङ्गं श्रीशङ्करं मोक्षफलक्रियं भजे ॥ १७॥

नमो नमो रुद्रगणेभ्य एवं मृत्युञ्जयेभ्यः कुलचञ्चलेभ्यः ।
शक्तिप्रियेभ्यो विजयादिभूतये शिवाय धन्याय नमो नमस्ते ॥ १८॥

बाह्यं त्रिशूलं वरसूक्ष्मभावं विशालनेत्रं तनुमध्यगामिनम् ।
महाविपद्दुःखविनाशबीजं प्रज्ञादयाकान्तिकरं भजामि ॥ १९॥

var  महाविपद्भस्मविलासबीजं शुद्धोदयं शान्तिकरं भजामि
पुरान्तकं पूर्णशरीरिणं गुरुं स्मरारिमाद्यं निजतर्कमार्गम् ।
अनादिदेवं दिवि दोषघातिनं भजामि पञ्चाक्षरपुण्यसाधनम् ॥ २०॥

दिगम्बरं पद्ममुखं करस्थं स्थितिक्रियायोगनियोजनं भवम् ।
भावात्मकं भद्रशरीरिणं शिवं भजामि पञ्चाननमर्कवर्णम् ॥ २१॥

मायामयं पङ्कजदामकोमलं दिग्व्यापिनं दण्डधरं हरेश्वरम् ।
त्रिपक्षकं त्र्यक्षरबीजभावं त्रिपद्ममूलं त्रिगुणं भजामि ॥ २२॥

विद्याधरं वेदविधानकार्यं कायागतं नीतनिनादतोषम् ।
नित्यं चतुर्वर्गफलादिमूलं वेदादिसूत्रं प्रणमामि योगम् ॥ २३॥

वेदान्तवेद्यं कुलशास्त्रविज्ञं क्रियामयं योगस्वधर्मदानम् ।
भक्तेश्वरं भक्तिपरायणं वरं भक्तं महाबुद्धिकरं भजाम्यहम् ॥ २४॥

गतागतं गम्यमगम्यभावं समुल्लसत्कोटिकलावतंसम् ।
भावात्मकं भावमयं सुखासुखं भजामि भर्गं प्रथमारुणप्रभम् ॥ २५॥

बिन्दुस्वरूपं परिवादवादिनं मध्याह्नसूर्यायुतसन्निभं नवम् ।
विभूतिदानं निजदानदानं दानात्मकं तं प्रणमामि देवम् ॥ २६॥

कुम्भापहं शत्रुनिकुम्भघातिनं दैत्यारिमीशं कुलकामिनीशम् ।
प्रीत्यान्वितं चिन्त्यमचिन्त्यभावं प्रभाकराह्लादमहं भजामि ॥ २७॥

त्रिमूर्तिमूलाय जयाय शम्भवे हिताय लोकस्य वपुर्धराय ।
नमो भयाच्छिन्नविघातिने पते नमो नमो विश्वशरीरधारिणे ॥ २८॥

 var  भवाच्छन्ननिघातिने ते  
तपःफलाय प्रकृतिग्रहाय गुणात्मने सिद्धिकराय योगिने ।
नमः प्रसिद्धाय दयातुराय वाञ्छाफलोत्साहविवर्धनाय ते ॥ २९॥

शिवममरमहान्तं पूर्णयोगाश्रयन्तं  var  शिववरहस्तं पुष्पयोगाश्रयन्तम्
            धरणिधरकराब्जैर्वर्धमानं त्रिसर्गम् ।
विसममरणघातं मृत्युपूज्यं जनेशं  var  विसमचरणघातं मृत्युधातं नरेशं
            विधिगणपतिसेव्यं पूजये भावयामि ॥ ३०॥

एतत्स्तोत्रं पठेद्विद्वान् मुनिर्योगपरायणः ।
नित्यं जगन्नाथगुरुं भावयित्वा पुनः पुनः ॥ ३१॥

मणिपूरे वायुनिष्ठो नित्यं स्तोत्रं पठेद् यदि ।
जीवन्मुक्तश्च देहान्ते परं निर्वाणमाप्नुयात् ॥ ३२॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने
रुद्रमृत्युञ्जयस्तवनं नामाष्टचत्वारिंशतमः पटलः ॥