पशुपत्याष्टकं

॥ पशुपत्याष्टकं ॥

                ध्यानम् ।
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

                स्तोत्रम् ।
पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सती पतिम् ॥

गणत भक्तजनार्ति हरं परं भजत रे मनुजा गिरिजापतिम् ॥ १॥

न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ॥

अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥ २॥

मुरजडिण्डिवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् ॥

प्रथमभूत गणैरपि सेवितं भजत रे मनुजा गिरिजापतिम्  ॥ ३॥

शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् ॥

अभयदं करुणा वरुणालयं भजत रे मनुजा गिरिजापतिम्  ॥ ४॥

नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् ॥

चितिरजोधवली कृत विग्रहं भजत रे मनुजा गिरिजापतिम् ॥ ५॥

मुखविनाशङ्करं शशिशेखरं सततमघ्वरं भाजि फलप्रदम् ॥

प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् ॥ ६॥

मदम पास्य चिरं हृदि संस्थितं मरण जन्म जरा भय पीडितम् ॥

जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ॥ ७॥

हरिविरिञ्चिसुराधिंप  पूजितं यमजनेशधनेशनमस्कृतम् ॥

त्रिनयनं भुवन त्रितयाधिपं भजत रे मनुजा गिरिजापतिम् ॥ ८॥

पशुपतेरिदमष्टकमद्भुतं विरिचित पृथिवी पति सूरिणा ॥

पठति संशृनुते मनुजः सदा शिवपुरिं वसते लभते मुदम् ॥ ९॥