॥ पशुपत्याष्टकं ॥
ध्यानम् ।
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
स्तोत्रम् ।
पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सती पतिम् ॥
गणत भक्तजनार्ति हरं परं भजत रे मनुजा गिरिजापतिम् ॥ १॥
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ॥
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥ २॥
मुरजडिण्डिवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् ॥
प्रथमभूत गणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् ॥ ३॥
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् ॥
अभयदं करुणा वरुणालयं भजत रे मनुजा गिरिजापतिम् ॥ ४॥
नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् ॥
चितिरजोधवली कृत विग्रहं भजत रे मनुजा गिरिजापतिम् ॥ ५॥
मुखविनाशङ्करं शशिशेखरं सततमघ्वरं भाजि फलप्रदम् ॥
प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् ॥ ६॥
मदम पास्य चिरं हृदि संस्थितं मरण जन्म जरा भय पीडितम् ॥
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ॥ ७॥
हरिविरिञ्चिसुराधिंप पूजितं यमजनेशधनेशनमस्कृतम् ॥
त्रिनयनं भुवन त्रितयाधिपं भजत रे मनुजा गिरिजापतिम् ॥ ८॥
पशुपतेरिदमष्टकमद्भुतं विरिचित पृथिवी पति सूरिणा ॥
पठति संशृनुते मनुजः सदा शिवपुरिं वसते लभते मुदम् ॥ ९॥