॥ श्रीशिवसहस्रनामस्तोत्रम् ॥
ॐ श्री गणेशाय नमः ।
पूर्वपीठिका
ॐकारनिलयं देवं गजवक्त्रं चतुर्भुजम् ।
पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥
श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादशंकरं लोकशंकरम् ॥
शंकरं शंकराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनांपतिम् ।
वन्दे सूर्यशशांकवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥
ऋषय ऊचुः
सूत वेदार्थतत्त्वज्ञ शिवध्यानपरायण ।
मुक्त्युपायं वदास्मभ्यं कृपालो मुनिसत्तम ॥ १॥
कः सेव्यः सर्वदेवेषु को वा जप्यो मनुः सदा ।
स्थातव्यं कुत्र वा नित्यं किं वा सर्वार्थसाधकम् ॥ २॥
श्री सूत उवाच
धन्यान्मन्यामहे नूनमनन्यशरणान्मुनीन् ।
वन्याशिनो वनेवासान् न्यस्तमानुष्यकल्मषान् ॥ ३॥
भवद्भिः सर्ववेदार्थतत्त्वं ज्ञातमतन्द्रितैः ।
भवद्भिः सर्ववेदार्थो ज्ञात एवास्ति यद्यपि ॥ ४॥
तथापि किञ्चिद्वक्ष्यामि यथा ज्ञातं मया तथा ।
पुरा कैलासशिखरे सुखासीनं जगत्प्रभुम् ॥ ५॥
वेदान्तवेद्यमीशानं शंकरं लोकशंकरम् ।
विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ॥ ६॥
मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् ।
पप्रच्छ सर्वलोकानां मुक्त्युपायं कृताञ्जलिः ॥ ७॥
श्रीस्कन्द उवाच
विश्वेश्वर महादेव विष्णुब्रह्मादिवन्दित ।
देवानां मानवानां च किं मोक्षस्यास्ति साधनम् ॥ ८॥
तव नामान्यनन्तानि सन्ति यद्यपि शंकर ।
तथापि तानि दिव्यानि न ज्ञायन्ते मयाधुना ॥ ९॥
प्रियाणि शिवनामानि सर्वाणि शिव यद्यपि ।
तथापि कानि रम्याणि तेषु प्रियतमानि ते ॥
तानि सर्वार्थदान्यद्य कृपया वक्तुमर्हसि ॥ १०॥
श्रीसूत उवाच
कुमारोदीरितां वाचं सर्वलोकहितावहाम् ।
श्रुत्वा प्रसन्नवदनस्तमुवाच सदाशिवः ॥ ११॥
श्रीसदाशिव उवाच
साधु साधु महाप्राज्ञ सम्यक्पृष्ठं त्वयाधुना ।
यदिदानीम् त्वया पृष्टं तद्वक्ष्ये शृणु सादरम् ॥ १२॥
एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा ।
समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ १३॥
दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम् ।
अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ १४॥
एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् ।
मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ १५॥
तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः ।
पूजयिष्यति मां भक्त्या यस्त्वेतन्नामसंख्यया ॥ १६॥
स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः ।
ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ १७॥
एकैकेनैव नाम्ना मां अर्चयित्वा दृढव्रताः ।
स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ १८॥
एतन्नामावलीं यस्तु पठन्मां प्रणमेत्सदा ।
स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ १९॥
स्पृष्ट्वा मल्लिंगममलं एतन्नामानि यः पठेत् ।
स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ २०॥
यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि ।
मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ २१॥
एतन्नामानुसन्धाननिरतः सर्वदाऽमुना ।
मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ २२॥
तत्पूजया पूजितोऽहं स एवाहं मतो मम ।
तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ २३॥
हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः ।
देवताप्यहमेवात्र शक्तिर्गौरी मम प्रिया ॥ २४॥
महेश एव संसेव्यः सर्वैरिति हि कीलकम् ।
धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ २५॥
ॐ
सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् ।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् ॥
॥ न्यासः ॥
ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः ।
अनुष्टुप् छन्दः । परमात्मा श्रीसदाशिवो देवता ।
महेश्वर इति बीजम् । गौरी शक्तिः ।
महेश एव संसेव्यः सर्वैरिति कीलकम् ।
श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः ।
॥ ध्यानम् ॥
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां वरडमरुयुतं चांकुशं वामभागे
नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
ॐ नमो भगवते रुद्राय ।
ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः ।
हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥ १॥
विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः ।
सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ २॥
आततावी महारुद्रः संसारास्त्रः सुरेश्वरः ।
उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ३॥
रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः ।
वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ४॥
उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः ।
ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥
सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः ।
आव्याधिनीशः ककुभो निषंगी स्तेनरक्षकः ॥ ६॥
मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ।
अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥
प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः ।
भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥
व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ।
शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥
वामनो व्यापकः शूली वर्षीयानजडोऽनणुः ।
ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥
आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ।
द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥
पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः ।
अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥ १२॥
प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः ।
खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ १३॥
वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः ।
आशुषेणो महासेनो महावीरो महारथः ॥ १४॥
शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः ।
श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥ १५॥
आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः ।
धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ १६॥
तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः ।
सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥ १७॥
स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः ।
सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ १८॥
सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः ।
मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ १९॥
दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः ।
ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥ २०॥
आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः ।
वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥ २१॥
सोमस्ताम्रोऽरुणः शंगः रुद्रः सुखकरः सुकृत् ।
उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ २२॥
अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः ।
शम्भुर्मयोभवो नित्यः शंकरः कीर्तिसागरः ॥ २३॥
मयस्करः शिवतरः खण्डपर्शुरजः शुचिः ।
तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ २४॥
शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः ।
उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥ २५॥
आतार्यः सारभूतात्मा सारग्राही दुरत्ययः ।
आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसंगरः ॥ २६॥
शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः ।
इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥ २७॥
वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः ।
यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ २८॥
यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः ।
प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥ २९॥
पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः ।
ह्रदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ३०॥
निवेष्प्यो नियतोऽयन्ता पांसव्यः सम्प्रतापनः ।
शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥ ३१॥
लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः ।
भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥ ३२॥
भूतसंघो भूतमूर्तिर्भूतहा भूतिभूषणः ।
मदनो मादको माद्यो मदहा मधुरप्रियः ॥ ३३॥
मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः ।
निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥ ३४॥
निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः ।
सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥ ३५॥
सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः ।
समस्तजगदाधारः समस्तगुणसागरः ॥ ३६॥
समस्तदुःखविध्वंसी समस्तानन्दकारणः ।
रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ३७॥
रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥ ३८॥
विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः ।
भुजगेन्द्रलसत्कण्ठो भुजंगाभरणप्रियः ॥ ३९॥
भुजंगविलसत्कर्णो भुजंगवलयावृतः ।
मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥ ४०॥
मुनिहृत्पुण्डरीकस्थो मुनिसंघैकजीवनः ।
मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥ ४१॥
मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ।
मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥ ४२॥
दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः ।
ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥ ४३॥
यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः ।
व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥ ४४॥
लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ।
ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥ ४५॥
ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः ।
कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥ ४६॥
कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः ।
परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥ ४७॥
वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः ।
वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥ ४८॥
कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥ ४९॥
पावनः पावको वामो महाकालो मदापहः ।
घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥ ५०॥
अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ।
जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥ ५१॥
जगदानन्ददो जन्मजरामरणवर्जितः ।
खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥ ५२॥
कपालमालाभरणः कपाली विष्णुवल्लभः ।
कमलासनकालाग्निः कमलासनपूजितः ॥ ५३॥
कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः ।
नाट्यकर्ता नटपरो महानाट्यविशारदः ॥ ५४॥
विराट्रूपधरो धीरो वीरो वृषभवाहनः ।
वृषांको वृषभाधीशो वृषात्मा वृषभध्वजः ॥ ५५॥
महोन्नतो महाकायो महावक्षा महाभुजः ।
महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥ ५६॥
महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः ।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥ ५७॥
सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः ।
धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥ ५८॥
कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः ।
कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥ ५९॥
व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती ।
व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥ ६०॥
अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागघ्नो रागशमनो रागदो रागिरागवित् ॥ ६१॥
विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः ।
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥ ६२॥
नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ ६३॥
क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् ।
सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥ ६४॥
गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः ।
गुणाधारो गुणाकारो गुणकृद् गुणनाशकः ॥ ६५॥
वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः ।
वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥ ६६॥
कालवित्कालकृत्कालो बलकृद् बलविद्बली ।
मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥ ६७॥
विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः ।
विश्वकारो महाविश्वो विश्वविश्वो विशारदः ॥ ६८॥
variation
विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः ।
विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥६८॥
वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।
ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥ ६९॥
प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ।
प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥ ७०॥
शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः ।
शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥ ७१॥
हिमस्वरूपो हिमदो हिमहा हिमनायकः ।
शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥ ७२॥
प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥ ७३॥
ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः ।
सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ७४॥
सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः ।
जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥ ७५॥
जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः ।
ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥ ७६॥
वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः ।
कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥ ७७॥
पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः ।
अपायरहितः शान्तो दान्तो दमयिता दमः ॥ ७८॥
ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः ।
कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥ ७९॥
प्रलयानलकृद् दिव्यः प्रलयानलनाशकः ।
त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥ ८०॥
अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ।
सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥ ८१॥
कुन्देन्दुशंखधवलो भस्मोद्धूलितविग्रहः ।
भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥ ८२॥
स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः ।
त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ ८३॥
सामप्रियः सामवेत्ता सामगः सामगप्रियः ।
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ ८४॥
लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः ।
तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥ ८५॥
शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः ।
जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥ ८६॥
जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः ।
जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ ८७॥
पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः ।
अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ ८८॥
कैलासशिखरावासः कैलासशिखरप्रियः ।
भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥ ८९॥
सोमः सोमकलाकारो महातेजा महातपाः ।
हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥ ९०॥
ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः ।
स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ ९१॥
पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः ।
पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ ९२॥
सारभूतः स्वरमयो रसभूतो रसाश्रयः ।
ॐकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ ९३॥
निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः ।
मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ ९४॥
वृन्दारकप्रियतमो वृन्दारकवरार्चितः ।
श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ ९५॥
महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः ।
सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ ९६॥
लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः ।
ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥ ९७॥
वेदपो देवदेवेशो देवदेवोत्तमोत्तमः ।
बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ ९८॥
बीजाधारो बीजरूपो निर्बीजो बीजनाशकः ।
परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ ९९॥
पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः ।
युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १००॥
कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः ।
धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १०१॥
मनोजवो जीवहेतुरन्धकासुरसूदनः ।
लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १०२॥
अव्यक्तलक्षणो योगी योगीशो योगपुंगवः ।
श्रितावासो जनावासः सुरवासः सुमण्डलः ॥ १०३॥
भववैद्यो योगिवैद्यो योगिसिंहहृदासनः ।
उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥ १०४॥
आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः ।
भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १०५॥
अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १०६॥
अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः ।
भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥ १०७॥
विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ।
सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १०८॥
अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः ।
दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥ १०९॥
परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः ।
मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ ११०॥
सुखप्रदः सुखाकारः सुखदुःखविवर्जितः ।
विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ १११॥
अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः ।
अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ ११२॥
अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः ।
महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ ११३॥
गौरीविलाससदनो नानागानविशारदः ।
विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ ११४॥
विष्णुब्रह्मादिवन्द्यांघ्रिः सुरासुरनमस्कृतः ।
किरीटलेढिफालेन्दुर्मणिकंकणभूषितः ॥ ११५॥
रत्नांगदांगो रत्नेशो रत्नरञ्जितपादुकः ।
नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥ ११६॥
नानाविधानेकरत्नलसत्कुण्डलमण्डितः ।
दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ ११७॥
गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः ।
रत्नांगुलीयविलसत्करशाखानखप्रभः ॥ ११८॥
रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः ।
वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥ ११९॥
लीलावलम्बितवपुर्भक्तमानसमन्दिरः ।
मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १२०॥
कस्तूरीविलसत्फालो दिव्यवेषविराजितः ।
दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२१॥
देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ।
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १२२॥
सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः ।
सर्वेष्टदाता सर्वेष्टः स्फुरन्मंगलविग्रहः ॥ १२३॥
अविद्यालेशरहितो नानाविद्यैकसंश्रयः ।
मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥ १२४॥
सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः ।
हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १२५॥
शरणागतदीनार्तपरित्राणपरायणः ।
जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १२६॥
भोक्ता भोजयिता जेता जितारिर्जितमानसः ।
अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥ १२७॥
आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः ।
पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १२८॥
व्योमकेशो भीमवेषो गौरीपतिरनामयः ।
भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥ १२९॥
वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः ।
यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥ १३०॥
हिरण्यगर्भो हेमांगो हेमरूपो हिरण्यदः ।
ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥ १३१॥
मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः ।
महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥ १३२॥
मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः ।
सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १३३॥
महेश्वरो महादेवः परब्रह्म सदाशिवः ॥ १३४॥
श्री परब्रह्म सदाशिव ॐ नम इति ।
उत्तर पीठिका
एवमेतानि नामानि मुख्यानि मम षण्मुख ।
शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥ १॥
विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः ।
शिवलिंगसमीपस्थो निस्संगो निर्जितासनः ॥ २॥
एकाग्रचित्तो नियतो वशी भूतहिते रतः ।
शिवलिंगार्चको नित्यं शिवैकशरणः सदा ॥ ३॥
मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् ।
एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥ ४॥
संसारपाशसंबद्धजनमोक्षैकसाधनम् ।
मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥ ५॥
मन्नामैव परं जप्यमहमेवाक्षयार्थदः ।
अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥ ६॥
विभूतिवज्रकवचैः मन्नामशरपाणिभिः ।
विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ ७॥
न तेषां दृश्यते भयम् ॐ नम इति ।
श्रीसूत उवाच
इत्युदीरितमाकर्ण्य महादेवेन तद्वचः ।
सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥ ८॥
श्रीस्कन्द उवाच
नमस्ते नमस्ते महादेव शम्भो
नमस्ते नमस्ते प्रपन्नैकबन्धो ।
नमस्ते नमस्ते दयासारसिन्धो
नमस्ते नमस्ते नमस्ते महेश ॥ ९॥
नमस्ते नमस्ते महामृत्युहारिन्
नमस्ते नमस्ते महादुःखहारिन् ।
नमस्ते नमस्ते महापापहारिन्
नमस्ते नमस्ते नमस्ते महेश ॥ १०॥
नमस्ते नमस्ते सदा चन्द्रमौले
नमस्ते नमस्ते सदा शूलपाणे ।
नमस्ते नमस्ते सदोमैकजाने
नमस्ते नमस्ते नमस्ते महेश ॥ ११॥
वेदान्तवेद्याय महादयाय
कैलासवासाय शिवाधवाय ।
शिवस्वरूपाय सदाशिवाय
शिवासमेताय नमःशिवाय ॥ १२॥
ॐ नमःशिवाय इति
श्रीसूत उवाच
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥ १३॥
भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः ।
शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ १४॥
शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः ।
शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ १५॥
महेशान्नाधिको देवः स एव सुरसत्तमः ।
स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ १६॥
जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा ।
तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥ १७॥
सुभगा जननी तस्य तस्यैव कुलमुन्नतम् ।
तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ १८॥
ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं
शैलाधीशसुतासमेतममलं सम्पूजयन्त्यादरात् ।
ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः
सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ १९॥
सत्यं पुनः सर्वथा ॐ नम इति ।
नमः शिवाय साम्बाय सगणाय ससूनवे ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ २०॥
नमस्ते गिरिजानाथ भक्तानामिष्टदायक ।
देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥ २१॥
साम्ब शम्भो महादेव दयासागर शंकर ।
मच्चित्तभ्रमरो नित्यं तवास्तु पदपंकजे ॥ २२॥
सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर ।
तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥ २३॥
यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ २४॥
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ २५॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
सदाशिवायेति समर्पयामि ॥ २६॥
॥ ॐ तत्सत् इति श्रीमुख्यशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥